skipLink.label

सूक्तम् 14 — अग्नि (6 मन्त्राः)

सूक्त 14

६ सुतंभर आत्रेयः। अग्निः । गायत्री।

अ॒ग्निं स्तोमे॑न बोधय समिधा॒नो अम॑र्त्यम् । ह॒व्या दे॒वेषु॑ नो दधत्

॥१॥

तम॑ध्व॒रेष्वी॑ळते दे॒वं मर्ता॒ अम॑र्त्यम् । यजि॑ष्ठं॒ मानु॑षे॒ जने॑

॥२॥

तं हि शश्व॑न्त॒ ईळ॑ते स्रु॒चा दे॒वं घृ॑त॒श्चुता॑ । अ॒ग्निं ह॒व्याय॒ वोळह॑वे

॥३॥

अ॒ग्निर्जा॒तो अ॑रोचत॒ घ्नन् दस्यू॒ञ्ज्योति॑षा॒ तम॑: । अवि॑न्द॒द् गा अ॒पः स्व॑:

॥४॥

अ॒ग्निमी॒ळेन्यं॑ क॒विं घृ॒तपृ॑ष्ठं सपर्यत । वेतु॑ मे शृ॒णव॒द्धव॑म्

॥५॥

अ॒ग्निं घृ॒तेन॑ वावृधु॒: स्तोमे॑भिर्वि॒श्वच॑र्षणिम् । स्वा॒धीभि॑र्वच॒स्युभि॑:

॥६॥