skipLink.label

सूक्तम् 64 — वरुण (7 मन्त्राः)

सूक्त 64

७ अर्चनाना आत्रेयः। मित्रावरुणौ। अनुष्टुप्, ७ पङ्क्तिः।

वरु॑णं वो रि॒शाद॑समृ॒चा मि॒त्रं ह॑वामहे । परि॑ व्र॒जेव॑ बा॒ह्वोर्ज॑ग॒न्वांसा॒ स्व॑र्णरम्

॥१॥

ता बा॒हवा॑ सुचे॒तुना॒ प्र य॑न्तमस्मा॒ अर्च॑ते । शेवं॒ हि जा॒र्यं॑ वां॒ विश्वा॑सु॒ क्षासु॒ जोगु॑वे

॥२॥

यन्नू॒नम॒श्यां गतिं॑ मि॒त्रस्य॑ यायां प॒था । अस्य॑ प्रि॒यस्य॒ शर्म॒ण्यहिं॑सानस्य सश्चिरे

॥३॥

यु॒वाभ्यां॑ मित्रावरुणोप॒मं धे॑यामृ॒चा । यद्ध॒ क्षये॑ म॒घोनां॑ स्तोतॄ॒णां च॑ स्पू॒र्धसे॑

॥४॥

आ नो॑ मित्र सुदी॒तिभि॒र्वरु॑णश्च स॒धस्थ॒ आ । स्वे क्षये॑ म॒घोनां॒ सखी॑नां च वृ॒धसे॑

॥५॥

यु॒वं नो॒ येषु॑ वरुण क्ष॒त्रं बृ॒हच्च॑ बिभृ॒थः । उ॒रु णो॒ वाज॑सातये कृ॒तं रा॒ये स्व॒स्तये॑

॥६॥

उ॒च्छन्त्यां॑ मे यज॒ता दे॒वक्ष॑त्रे॒ रुश॑द्गवि ।

सु॒तं सोमं॒ न ह॒स्तिभि॒रा प॒ड्भिर्धा॑वतं नरा॒ बिभ्र॑तावर्च॒नान॑सम्

॥७॥