skipLink.label

सूक्तम् 77 — प्रातर्हि (5 मन्त्राः)

सूक्त 77

५ भौमोऽत्रिः। अश्विनौ। त्रिष्टुप्।

प्रा॒त॒र्यावा॑णा प्रथ॒मा य॑जध्वं पु॒रा गृध्रा॒दर॑रुषः पिबातः ।

प्रा॒तर्हि य॒ज्ञम॒श्विना॑ द॒धाते॒ प्र शं॑सन्ति क॒वय॑: पूर्व॒भाज॑:

॥१॥

प्रा॒तर्य॑जध्वम॒श्विना॑ हिनोत॒ न सा॒यम॑स्ति देव॒या अजु॑ष्टम् ।

उ॒तान्यो अ॒स्मद् य॑जते॒ वि चाव॒: पूर्व॑:पूर्वो॒ यज॑मानो॒ वनी॑यान्

॥२॥

हिर॑ण्यत्व॒ङ्मधु॑वर्णो घृ॒तस्नु॒: पृक्षो॒ वह॒न्ना रथो॑ वर्तते वाम् ।

मनो॑जवा अश्विना॒ वात॑रंहा॒ येना॑तिया॒थो दु॑रि॒तानि॒ विश्वा॑

॥३॥

यो भूयि॑ष्ठं॒ नास॑त्याभ्यां वि॒वेष॒ चनि॑ष्ठं पि॒त्वो रर॑ते विभा॒गे ।

स तो॒कम॑स्य पीपर॒च्छमी॑भि॒रनू॑र्ध्वभास॒: सद॒मित् तु॑तुर्यात्

॥४॥

सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा॑ सु॒प्रणी॑ती गमेम ।

आ नो॑ र॒यिं व॑हत॒मोत वी॒राना विश्वा॑न्यमृता॒ सौभ॑गानि

॥५॥