skipLink.label

उदाहरणानि

शीघ्र मार्गाः

सूक्तम् 36 — स (6 मन्त्राः)

सूक्त 36

६ प्रभूवसुराङ्गिरसः। इन्द्रः । त्रिष्टुप्, ३जगती।

स आ ग॑म॒दिन्द्रो॒ यो वसू॑नां॒ चिके॑त॒द् दातुं॒ दाम॑नो रयी॒णाम् ।

ध॒न्व॒च॒रो न वंस॑गस्तृषा॒णश्च॑कमा॒नः पि॑बतु दु॒ग्धमं॒शुम्

॥१॥

आ ते॒ हनू॑ हरिवः शूर॒ शिप्रे॒ रुह॒त् सोमो॒ न पर्व॑तस्य पृ॒ष्ठे ।

अनु॑ त्वा राज॒न्नर्व॑तो॒ न हि॒न्वन् गी॒र्भिर्म॑देम पुरुहूत॒ विश्वे॑

॥२॥

च॒क्रं न वृ॒त्तं पु॑रुहूत वेपते॒ मनो॑ भि॒या मे॒ अम॑ते॒रिद॑द्रिवः ।

रथा॒दधि॑ त्वा जरि॒ता स॑दावृध कु॒विन्नु स्तो॑षन्मघवन् पुरू॒वसु॑:

॥३॥

ए॒ष ग्रावे॑व जरि॒ता त॑ इ॒न्द्रेय॑र्ति॒ वाचं॑ बृ॒हदा॑शुषा॒णः ।

प्र स॒व्येन॑ मघव॒न् यंसि॑ रा॒यः प्र द॑क्षि॒णिद्ध॑रिवो॒ मा वि वे॑नः

॥४॥

वृषा॑ त्वा॒ वृष॑णं वर्धतु॒ द्यौर्वृषा॒ वृष॑भ्यां वहसे॒ हरि॑भ्याम् ।

स नो॒ वृषा॒ वृष॑रथः सुशिप्र॒ वृष॑क्रतो॒ वृषा॑ वज्रि॒न् भरे॑ धाः

॥५॥

यो रोहि॑तौ वा॒जिनौ॑ वा॒जिनी॑वान् त्रि॒भिः श॒तैः सच॑माना॒वदि॑ष्ट ।

यूने॒ सम॑स्मै क्षि॒तयो॑ नमन्तां श्रु॒तर॑थाय मरुतो दुवो॒या

॥६॥