skipLink.label

सूक्तम् 3 — अग्नि (16 मन्त्राः)

सूक्त 3

१६ वामदेवो गौतमः। अग्निः, १ रुद्रः। त्रिष्टुप्।

आ वो॒ राजा॑नमध्व॒रस्य॑ रु॒द्रं होता॑रं सत्य॒यजं॒ रोद॑स्योः ।

अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर॑ण्यरूप॒मव॑से कृणुध्वम्

॥१॥

अ॒यं योनि॑श्चकृ॒मा यं व॒यं ते॑ जा॒येव॒ पत्य॑ उश॒ती सु॒वासा॑: ।

अ॒र्वा॒ची॒नः परि॑वीतो॒ नि षी॑दे॒मा उ॑ ते स्वपाक प्रती॒चीः

॥२॥

आ॒शृ॒ण्व॒ते अदृ॑पिताय॒ मन्म॑ नृ॒चक्ष॑से सुमृळी॒काय॑ वेधः ।

दे॒वाय॑ श॒स्तिम॒मृता॑य शंस॒ ग्रावे॑व॒ सोता॑ मधु॒षुद् यमी॒ळे

॥३॥

त्वं चि॑न्न॒: शम्या॑ अग्ने अ॒स्या ऋ॒तस्य॑ बोध्यृतचित् स्वा॒धीः ।

क॒दा त॑ उ॒क्था स॑ध॒माद्या॑नि क॒दा भ॑वन्ति स॒ख्या गृ॒हे ते॑

॥४॥

क॒था ह॒ तद् वरु॑णाय॒ त्वम॑ग्ने क॒था दि॒वे ग॑र्हसे॒ कन्न॒ आग॑: ।

क॒था मि॒त्राय॑ मी॒ळहुषे॑ पृथि॒व्यै ब्रव॒: कद॑र्य॒म्णे कद् भगा॑य

॥५॥

कद्धिष्ण्या॑सु वृधसा॒नो अ॑ग्ने॒ कद् वाता॑य॒ प्रत॑वसे शुभं॒ये ।

परि॑ज्मने॒ नास॑त्याय॒ क्षे ब्रव॒: कद॑ग्ने रु॒द्राय॑ नृ॒घ्ने

॥६॥

क॒था म॒हे पु॑ष्टिम्भ॒राय॑ पू॒ष्णे कद्रु॒द्राय॒ सुम॑खाय हवि॒र्दे ।

कद् विष्ण॑व उरुगा॒याय॒ रेतो॒ ब्रव॒: कद॑ग्ने॒ शर॑वे बृह॒त्यै

॥७॥

क॒था शर्धा॑य म॒रुता॑मृ॒ताय॑ क॒था सू॒रे बृ॑ह॒ते पृ॒च्छ्यमा॑नः ।

प्रति॑ ब्र॒वोऽदि॑तये तु॒राय॒ साधा॑ दि॒वो जा॑तवेदश्चिकि॒त्वान्

॥८॥

ऋ॒तेन॑ ऋ॒तं निय॑तमीळ॒ आ गोरा॒मा सचा॒ मधु॑मत् प॒क्वम॑ग्ने ।

कृ॒ष्णा स॒ती रुश॑ता धा॒सिनै॒षा जाम॑र्येण॒ पय॑सा पीपाय

॥९॥

ऋ॒तेन॒ हि ष्मा॑ वृष॒भश्चि॑द॒क्तः पुमाँ॑ अ॒ग्निः पय॑सा पृ॒ष्ठ्ये॑न ।

अस्प॑न्दमानो अचरद् वयो॒धा वृषा॑ शु॒क्रं दु॑दुहे॒ पृश्नि॒रूध॑:

॥१०॥

ऋ॒तेनाद्रिं॒ व्य॑सन् भि॒दन्त॒: समङ्गि॑रसो नवन्त॒ गोभि॑: ।

शु॒नं नर॒: परि॑ षदन्नु॒षास॑मा॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ

॥११॥

ऋ॒तेन॑ दे॒वीर॒मृता॒ अमृ॑क्ता॒ अर्णो॑भि॒रापो॒ मधु॑मद्भिरग्ने ।

वा॒जी न सर्गे॑षु प्रस्तुभा॒नः प्र सद॒मित् स्रवि॑तवे दधन्युः

॥१२॥

मा कस्य॑ य॒क्षं सद॒मिद्धु॒रो गा॒ मा वे॒शस्य॑ प्रमिन॒तो मापेः ।

मा भ्रातु॑रग्ने॒ अनृ॑जोर्ऋणं वे॒र्मा सख्यु॒र्दक्षं॑ रि॒पोर्भु॑जेम

॥१३॥

रक्षा॑ णो अग्ने॒ तव॒ रक्ष॑णेभी रारक्षा॒णः सु॑मख प्रीणा॒नः ।

प्रति॑ ष्फुर॒ वि रु॑ज वी॒ड्वंहो॑ ज॒हि रक्षो॒ महि॑ चिद् वावृधा॒नम्

॥१४॥

ए॒भिर्भ॑व सु॒मना॑ अग्ने अ॒र्कैरि॒मान् त्स्पृ॑श॒ मन्म॑भिः शूर॒ वाजा॑न् ।

उ॒त ब्रह्मा॑ण्यङ्गिरो जुषस्व॒ सं ते॑ श॒स्तिर्दे॒ववा॑ता जरेत

॥१५॥

ए॒ता विश्वा॑ वि॒दुषे॒ तुभ्यं॑ वेधो नी॒थान्य॑ग्ने नि॒ण्या वचां॑सि ।

नि॒वच॑ना क॒वये॒ काव्या॒न्यशं॑सिषं म॒तिभि॒र्विप्र॑ उ॒क्थैः

॥१६॥