skipLink.label

सूक्तम् 31 — प्र (12 मन्त्राः)

सूक्त 31

१२ मैत्रावरुणिर्वसिष्ठ:। इन्द्र: ।गायत्री, १०-१२ विराट् ।

प्र व॒ इन्द्रा॑य॒ माद॑नं॒ हर्य॑श्वाय गायत । सखा॑यः सोम॒पाव्ने॑

॥१॥

शंसेदु॒क्थं सु॒दान॑व उ॒त द्यु॒क्षं यथा॒ नर॑: । च॒कृ॒मा स॒त्यरा॑धसे

॥२॥

त्वं न॑ इन्द्र वाज॒युस्त्वं ग॒व्युः श॑तक्रतो । त्वं हि॑रण्य॒युर्व॑सो

॥३॥

व॒यमि॑न्द्र त्वा॒यवो॒ऽभि प्र णो॑नुमो वृषन् । वि॒द्धी त्व१स्य नो॑ वसो

॥४॥

मा नो॑ नि॒दे च॒ वक्त॑वे॒ऽर्यो र॑न्धी॒ररा॑व्णे । त्वे अपि॒ क्रतु॒र्मम॑

॥५॥

त्वं वर्मा॑सि स॒प्रथ॑: पुरोयो॒धश्च॑ वृत्रहन् । त्वया॒ प्रति॑ ब्रुवे यु॒जा

॥६॥

म॒हाँ उ॒तासि॒ यस्य॒ तेऽनु॑ स्व॒धाव॑री॒ सह॑: । म॒म्नाते॑ इन्द्र॒ रोद॑सी

॥७॥

तं त्वा॑ म॒रुत्व॑ती॒ परि॒ भुव॒द्वाणी॑ स॒याव॑री । नक्ष॑माणा स॒ह द्युभि॑:

॥८॥

ऊ॒र्ध्वास॒स्त्वान्विन्द॑वो॒ भुव॑न्द॒स्ममुप॒ द्यवि॑ । सं ते॑ नमन्त कृ॒ष्टय॑:

॥९॥

प्र वो॑ म॒हे म॑हि॒वृधे॑ भरध्वं॒ प्रचे॑तसे॒ प्र सु॑म॒तिं कृ॑णुध्वम् । विश॑: पू॒र्वीः प्र च॑रा चर्षणि॒प्राः

॥१०॥

उ॒रु॒व्यच॑से म॒हिने॑ सुवृ॒क्तिमिन्द्रा॑य॒ ब्रह्म॑ जनयन्त॒ विप्रा॑: । तस्य॑ व्र॒तानि॒ न मि॑नन्ति॒ धीरा॑:

॥११॥

इन्द्रं॒ वाणी॒रनु॑त्तमन्युमे॒व स॒त्रा राजा॑नं दधिरे॒ सह॑ध्यै । हर्य॑श्वाय बर्हया॒ समा॒पीन्

॥१२॥