मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — सप्तमस्कन्धः, अध्याय ११

3
सप्तमस्कन्धः · 11

सदाचारनिर्णयः

श्रीमद्भागवत महापुराण सप्तमः स्कंधः - एकादशोऽध्यायः नृणां सनातनो धर्मः, वर्णधर्माः, स्त्रीधर्माश्च -श्रीशुक उवाच - श्रुत्वेहितं साधु सभासभाजितं महत्तमाग्रण्य उरुक्रमात्मनः ।

युधिष्ठिरो दैत्यपतेर्मुदा युतः पप्रच्छ भूयस्तनयं स्वयम्भुवः

॥१॥

युधिष्ठिर उवाच

(अनुष्टुप्) भगवन् श्रोतुमिच्छामि नृणां धर्मं सनातनम् ।

वर्णाश्रमाचारयुतं यत् पुमान् विन्दते परम्

॥२॥

भवान् प्रजापतेः साक्षात् आत्मजः परमेष्ठिनः ।

सुतानां सम्मतो ब्रह्मन् तपोयोगसमाधिभिः

॥३॥

नारायणपरा विप्रा धर्मं गुह्यं परं विदुः ।

करुणाः साधवः शान्ताः त्वद्विधा न तथापरे

॥४॥

नारद उवाच

नत्वा भगवतेऽजाय लोकानां धर्महेतवे ।

वक्ष्ये सनातनं धर्मं नारायणमुखात् श्रुतम्

॥५॥

योऽवतीर्यात्मनोंऽशेन दाक्षायण्यां तु धर्मतः ।

लोकानां स्वस्तयेऽध्यास्ते तपो बदरिकाश्रमे

॥६॥

धर्ममूलं हि भगवान् सर्ववेदमयो हरिः ।

स्मृतं च तद्विदां राजन् येन चात्मा प्रसीदति

॥७॥

सत्यं दया तपः शौचं तितिक्षेक्षा शमो दमः ।

अहिंसा ब्रह्मचर्यं च त्यागः स्वाध्याय आर्जवम्

॥८॥

सन्तोषः समदृक् सेवा ग्राम्येहोपरमः शनैः ।

नृणां विपर्ययेहेक्षा मौनं आत्मविमर्शनम्

॥९॥

अन्नाद्यादेः संविभागो भूतेभ्यश्च यथार्हतः ।

तेष्वात्मदेवताबुद्धिः सुतरां नृषु पाण्डव

॥१०॥

श्रवणं कीर्तनं चास्य स्मरणं महतां गतेः ।

सेवेज्यावनतिर्दास्यं सख्यमात्म समर्पणम्

॥११॥

नृणामयं परो धर्मः सर्वेषां समुदाहृतः ।

त्रिंशत् लक्षणवान् राजन् सर्वात्मा येन तुष्यति

॥१२॥

संस्कारा यदविच्छिन्नाः स द्विजोऽजो जगाद यम् ।

इज्याध्ययनदानानि विहितानि द्विजन्मनाम् ।

जन्मकर्मावदातानां क्रियाश्चाश्रमचोदिताः

॥१३॥

विप्रस्याध्ययनादीनि षडन्यस्याप्रतिग्रहः ।

राज्ञो वृत्तिः प्रजागोप्तुः अविप्राद् वा करादिभिः

॥१४॥

वैश्यस्तु वार्तावृत्तिश्च नित्यं ब्रह्मकुलानुगः ।

शूद्रस्य द्विजशुश्रूषा वृत्तिश्च स्वामिनो भवेत्

॥१५॥

वार्ता विचित्रा शालीन यायावरशिलोञ्छनम् ।

विप्रवृत्तिश्चतुर्धेयं श्रेयसी चोत्तरोत्तरा

॥१६॥

जघन्यो नोत्तमां वृत्तिं अनापदि भजेन्नरः ।

ऋते राजन्यमापत्सु सर्वेषामपि सर्वशः

॥१७॥

ऋतां ऋताभ्यां जीवेत मृतेन प्रमृतेन वा ।

सत्यानृताभ्यां जीवेत न श्ववृत्त्या कदाचन

॥१८॥

ऋतमुञ्छशिलं प्रोक्तं अमृतं यद् अयाचितम् ।

मृतं तु नित्ययांच्या स्यात् प्रमृतं कर्षणं स्मृतम्

॥१९॥

सत्यानृतं च वाणिज्यं श्ववृत्तिर्नीचसेवनम् ।

वर्जयेत्तां सदा विप्रो राजन्यश्च जुगुप्सिताम् ।

सर्ववेदमयो विप्रः सर्वदेवमयो नृपः

॥२०॥

शमो दमस्तपः शौचं सन्तोषः क्षान्तिरार्जवम् ।

ज्ञानं दयाच्युतात्मत्वं सत्यं च ब्रह्मलक्षणम्

॥२१॥

शौर्यं वीर्यं धृतिस्तेजः त्याग आत्मजयः क्षमा ।

ब्रह्मण्यता प्रसादश्च सत्यं च क्षत्रलक्षणम्

॥२२॥

देवगुर्वच्युते भक्तिः त्रिवर्गपरिपोषणम् ।

आस्तिक्यं उद्यमो नित्यं नैपुण्यं वैश्यलक्षणम्

॥२३॥

शूद्रस्य सन्नतिः शौचं सेवा स्वामिन्यमायया ।

अमन्त्रयज्ञो ह्यस्तेयं सत्यं गोविप्र रक्षणम्

॥२४॥

स्त्रीणां च पतिदेवानां तत् शुश्रूषानुकूलता ।

तद्बन्धुष्वनुवृत्तिश्च नित्यं तद्व्रतधारणम्

॥२५॥

सम्मार्जनोपलेपाभ्यां गृहमण्डनवर्तनैः ।

स्वयं च मण्डिता नित्यं परिमृष्टपरिच्छदा

॥२६॥

कामैरुच्चावचैः साध्वी प्रश्रयेण दमेन च ।

वाक्यैः सत्यैः प्रियैः प्रेम्णा काले काले भजेत्पतिम्

॥२७॥

सन्तुष्टालोलुपा दक्षा धर्मज्ञा प्रियसत्यवाक् ।

अप्रमत्ता शुचिः स्निग्धा पतिं त्वपतितं भजेत्

॥२८॥

या पतिं हरिभावेन भजेत् श्रीरिव तत्परा ।

हर्यात्मना हरेर्लोके पत्या श्रीरिव मोदते

॥२९॥

वृत्तिः सङ्करजातीनां तत्तत्कुलकृता भवेत् ।

अचौराणां अपापानां अन्त्यजान्तेऽवसायिनाम्

॥३०॥

प्रायः स्वभावविहितो नृणां धर्मो युगे युगे ।

वेददृग्भिः स्मृतो राजन् प्रेत्य चेह च शर्मकृत्

॥३१॥

वृत्त्या स्वभावकृतया वर्तमानः स्वकर्मकृत् ।

हित्वा स्वभावजं कर्म शनैर्निर्गुणतामियात्

॥३२॥

उप्यमानं मुहुः क्षेत्रं स्वयं निर्वीर्यतामियात् ।

न कल्पते पुनः सूत्यै उप्तं बीजं च नश्यति

॥३३॥

एवं कामाशयं चित्तं कामानामतिसेवया ।

विरज्येत यथा राजन् अग्निवत् कामबिन्दुभिः

॥३४॥

यस्य यल्लक्षणं प्रोक्तं पुंसो वर्णाभिव्यञ्जकम् ।

यदन्यत्रापि दृश्येत तत्तेनैव विनिर्दिशेत्

॥३५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे युधिष्ठिरनारदसंवादे सदाचारनिर्णयो नाम एकादशोऽध्यायः ॥ ११ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु