मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — सप्तमस्कन्धः, अध्याय ६

3
सप्तमस्कन्धः · 6

दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम्

श्रीमद्भागवत महापुराण सप्तमः स्कंधः - षष्ठोऽध्यायः दैत्यबालकेभ्यः प्रह्रादस्य उपदेशः -प्रह्लाद उवाच - (अनुष्टुप्) कौमार आचरेत्प्राज्ञो धर्मान् भागवतानिह ।

दुर्लभं मानुषं जन्म तदप्यध्रुवमर्थदम्

॥१॥

यथा हि पुरुषस्येह विष्णोः पादोपसर्पणम् ।

यदेष सर्वभूतानां प्रिय आत्मेश्वरः सुहृत्

॥२॥

सुखं ऐन्द्रियकं दैत्या देहयोगेन देहिनाम् ।

सर्वत्र लभ्यते दैवाद् यथा दुःखमयत्नतः

॥३॥

तत्प्रयासो न कर्तव्यो यत आयुर्व्ययः परम् ।

न तथा विन्दते क्षेमं मुकुन्दचरणाम्बुजम्

॥४॥

ततो यतेत कुशलः क्षेमाय भवमाश्रितः ।

शरीरं पौरुषं यावत् न विपद्येत पुष्कलम्

॥५॥

पुंसो वर्षशतं ह्यायुः तदर्धं चाजितात्मनः ।

निष्फलं यदसौ रात्र्यां शेतेऽन्धं प्रापितस्तमः

॥६॥

मुग्धस्य बाल्ये कौमारे क्रीडतो याति विंशतिः ।

जरया ग्रस्तदेहस्य यात्यकल्पस्य विंशतिः

॥७॥

दुरापूरेण कामेन मोहेन च बलीयसा ।

शेषं गृहेषु सक्तस्य प्रमत्तस्यापयाति हि

॥८॥

को गृहेषु पुमान्सक्तं आत्मानं अजितेन्द्रियः ।

स्नेहपाशैर्दृढैर्बद्धं उत्सहेत विमोचितुम्

॥९॥

को न्वर्थतृष्णां विसृजेत् प्राणेभ्योऽपि य ईप्सितः ।

यं क्रीणात्यसुभिः प्रेष्ठैः तस्करः सेवको वणिक्

॥१०॥

कथं प्रियाया अनुकम्पितायाः सङ्गं रहस्यं रुचिरांश्च मन्त्रान् ।

सुहृत्सु तत्स्नेहसितः शिशूनां कलाक्षराणामनुरक्तचित्तः

॥११॥

पुत्रान् स्मरंस्ता दुहितॄर्हृदय्या भ्रातॄन् स्वसॄर्वा पितरौ च दीनौ ।

गृहान् मनोज्ञोः उपरिच्छदांश्च वृत्तीश्च कुल्याः पशुभृत्यवर्गान्

॥१२॥

त्यजेत कोशस्कृदिवेहमानः कर्माणि लोभादवितृप्तकामः ।

औपस्थ्यजैह्वं बहुमन्यमानः कथं विरज्येत दुरन्तमोहः

॥१३॥

कुटुम्बपोषाय वियन् निजायुः न बुध्यतेऽर्थं विहतं प्रमत्तः ।

सर्वत्र तापत्रयदुःखितात्मा निर्विद्यते न स्वकुटुम्बरामः

॥१४॥

वित्तेषु नित्याभिनिविष्टचेता विद्वांश्च दोषं परवित्तहर्तुः ।

प्रेत्येह चाथाप्यजितेन्द्रियस्तद् अशान्तकामो हरते कुटुम्बी

॥१५॥

विद्वानपीत्थं दनुजाः कुटुम्बं पुष्णन् स्वलोकाय न कल्पते वै ।

यः स्वीयपारक्यविभिन्नभावः तमः प्रपद्येत यथा विमूढः

॥१६॥

यतो न कश्चित् क्व च कुत्रचिद् वा दीनः स्वमात्मानमलं समर्थः ।

विमोचितुं कामदृशां विहार क्रीडामृगो यन्निगडो विसर्गः

॥१७॥

ततो विदूरात् परिहृत्य दैत्या दैत्येषु सङ्गं विषयात्मकेषु ।

उपेत नारायणमादिदेवं स मुक्तसङ्गैः इषितोऽपवर्गः

॥१८॥

(अनुष्टुप्) न ह्यच्युतं प्रीणयतो बह्वायासोऽसुरात्मजाः ।

आत्मत्वात् सर्वभूतानां सिद्धत्वादिह सर्वतः

॥१९॥

परावरेषु भूतेषु ब्रह्मान्तस्थावरादिषु ।

भौतिकेषु विकारेषु भूतेष्वथ महत्सु च

॥२०॥

गुणेषु गुणसाम्ये च गुणव्यतिकरे तथा ।

एक एव परो ह्यात्मा भगवान् ईश्वरोऽव्ययः

॥२१॥

प्रत्यगात्मस्वरूपेण दृश्यरूपेण च स्वयम् ।

व्याप्यव्यापकनिर्देश्यो हि, अनिर्देश्योऽविकल्पितः

॥२२॥

केवलानुभवानन्द स्वरूपः परमेश्वरः ।

माययान्तर्हितैश्वर्य ईयते गुणसर्गया

॥२३॥

तस्मात्सर्वेषु भूतेषु दयां कुरुत सौहृदम् ।

आसुरं भावमुन्मुच्य यया तुष्यत्यधोक्षजः

॥२४॥

तुष्टे च तत्र किमलभ्यमनन्त आद्ये किं तैर्गुणव्यतिकरादिह ये स्वसिद्धाः ।

धर्मादयः किमगुणेन च काङ्क्षितेन सारंजुषां चरणयोरुपगायतां नः

॥२५॥

धर्मार्थकाम इति योऽभिहितस्त्रिवर्ग ईक्षा त्रयी नयदमौ विविधा च वार्ता ।

मन्ये तदेतदखिलं निगमस्य सत्यं स्वात्मार्पणं स्वसुहृदः परमस्य पुंसः

॥२६॥

ज्ञानं तदेतदमलं दुरवापमाह नारायणो नरसखः किल नारदाय ।

एकान्तिनां भगवतः तदकिञ्चनानां पादारविन्द रजसाऽऽप्लुतदेहिनां स्यात्

॥२७॥

(अनुष्टुप्) श्रुतं एतन्मया पूर्वं ज्ञानं विज्ञानसंयुतम् ।

धर्मं भागवतं शुद्धं नारदाद् देवदर्शनात्

॥२८॥

श्रीदैत्यपुत्रा ऊचुः

प्रह्राद त्वं वयं चापि नर्तेऽन्यं विद्महे गुरुम् ।

एताभ्यां गुरुपुत्राभ्यां बालानामपि हीश्वरौ

॥२९॥

बालस्यान्तःपुरस्थस्य महत्सङ्गो दुरन्वयः ।

छिन्धि नः संशयं सौम्य स्यात् चेत् विश्रम्भकारणम्

॥३०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां सप्तमस्कन्धे प्रह्रादचरिते षष्ठोऽध्यायः ॥ ६ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु