मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

प्रथमकाण्डम्, खण्डाः 351–360

3

वर्तमानप्रतिलेखे खण्डिका 353, 354, 355, 356, 357, 358, 359, 360 नोपलभ्यते।

खण्डिका 351

अतिरिक्तम् अनुबुध्यन्ते। अथ ब्रूयान् मानु वषट्कार इति। तान् सर्वाहुतो हुत्वाभ्युत्पूर्यानु वषट्कारे जुहुयात्। यद्य् उ भूयान् एवातिरिच्येत सहैव कलशेन प्रतितिष्ठेत्। यदि राजानम् अववर्षेत् इन्दुर् इन्दुम् अवागात् तस्य त इन्द्व् इन्द्रियावतो मधुमतो विचक्षणस्योपहूतस्योपहूतो भक्षयामि॥ वाग् जुषाणा सोमस्य तृप्यतु इति। तद् आहुः कृत्स्नं वा एतद् अमृतम् अन्नाद्यम् इमं लोकम् आगच्छति यद् आपः। कृत्स्नं वेदम् अमृतम् अन्नाद्याम् इमं लोकम् अगाद् इत्य् एव मन्यमानो भक्षयेत्। सैव तत्र प्रायश्चित्तिः॥ यदि चमसम् अभ्युपाकुर्युस् तम् उत्तरवर्गेणाभिप्रवृत्यासीत। राजा हैतद् ऋचा मिथुनीभवति। तम् अध्वर्युः प्रत्याकीर्य यन् नादायेयाद् यद्य् उ मार्त्विज्यस्याद्य एवैनं संप्रति धिष्ण्यस् स्यात् तं प्रतिसदसो ऽपियुत्य प्रयच्छेत्। तं मार्जयित्वा यद्विधा इतरे चमसास् तद्विधं कुर्युः। सैव तत्र प्रायश्चित्तिः

खण्डिका 352

यदि प्रातस्सवने कलशो दीर्येत विश्वेत् ता विष्णुर् आ भरत् इति वैष्णवीर् बृहतीर् माध्यंदिने कुर्युः। यदि माध्यंदिने सवने कलशो दीर्येत पवस्व वाजसातये इति वैष्णवीर् अनुष्टुभ आर्भवपवमाने कुर्युः। यदि तृतीयसवने कलशो दीर्येतोक्थ्यं कृत्वा यत् सोमम् इन्द्र विष्णवे इत्य् एतासु ब्रह्मसाम कुर्युः। छिद्रं वा एतद् यज्ञस्य यतः कलशो दीर्यते। तद् विष्णुनैव यज्ञेनोपयच्छान्त। तद् ध्य् अस्य सदेवं वषट्कारणिधनं साम भवति। उभौ वा एताव् अग्नी यद् इयं च वषट्कारश् च। साम्नैवास्यां समिद्धे हूयते॥ श्रायन्तीयं ब्रह्मसाम। सम् एवैनत् तच् छ्रीणन्ति। यज्ञायज्ञीयम् अनुष्टुप्सु प्रोहन्ति। वाग् वै यज्ञायज्ञीयं वाग् अनुष्टुप्। वाचैवैनत् तत् समृद्धयन्ति॥ वारवन्तीयम् अग्निष्टोमसाम। इन्द्रियं वै वीर्यं वारवन्तीयम्। इन्द्रियेणैवैनत् तद् वीर्ये समृद्धयन्ति। दीर्णस्य परिलाप्सेतापि। अथ उपस्थितम् इच्छेत्। स ब्रूयाद् अन्यं कलशम् आहरतेति। तद् उदीचीनदशं पवित्रं वितत्य शल्कम् अस्याथ राजानम् आनयेत्। अथाग्रयणस्य ग्रहस्याश्चोतयेत्। अथैकधनम्। एकं वा द्वौ वा यावद् अलं मन्येत। सैव तत्र प्रायश्चित्तिः