मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

प्रथमकाण्डम्, खण्डाः 81–90

3

वर्तमानप्रतिलेखे खण्डिका 85, 86, 87, 88, 89, 90 नोपलभ्यते।

खण्डिका 81

स यत् प्रथमम् अपाहन् सा कृष्णाविर् अभवत्। यद् द्वितीयम् अपाहन् सा धूम्राविर् अभवत्। यत् तृतीयम् अपाहन् सा फाल्गुन्य् अविर् अभवत्। स यं कामयेत पापीयान् स्याद् इति कृष्णम् अस्य पवित्रे ऽप्यस्येत् पापीयान् एव भवति। अथ यं कामयेत नार्वाङ् न परस् स्याद् इति धूम्रम् अस्य पवित्रे ऽप्यस्येन् नैवार्वाङ् न परो भवति। अथ यं कामयेत श्रेयान् स्याद् रुचम् अश्नुवीतेति फाल्गुनम् अस्य पवित्रं कुर्याच् छ्रेयान् एव भवति रुचम् अश्नुते॥ अस्ति हि तत्राप्य् आदित्यस्य न्यक्तम्। तद् अन्तरेषे अवहृत्य संमार्ष्टि वसवस् त्वा संमृजन्तु गायत्रेण छन्दसा॥ रुद्रास् त्वा संमृजन्तु त्रैष्टुभेन छन्दसा॥ आदित्यास् त्वा संमृजन्तु जागतेन छन्दसा इति॥ तद् उदीचीनदशं पवित्रवत्या वितनोति पवित्रं ते विततं ब्रह्मणस् पते इति समष्ट्यै। तपोष् पवित्रं विततं दिवस् पदे इति स्वर्गकामस्य। अरूरुचद् उषसः पृश्निर् अग्रयुः इति प्रजाकामस्य। सर्वाभिर् एव वितनुयाद् एतेषां सर्वेषां कामानाम् उपाप्त्यै॥ राजानम् आनयति। तम् अभिमन्त्रयते स पवस्व सुधामा देवानाम् अभि प्रियाणि धाम॥ त्रिर् देवेभ्यो ऽपवथास् त्रिर् आदित्येभ्यस् त्रिर् अङ्गिरोभ्यः। येन तुर्येण ब्रह्मणा बृहस्पतये ऽपवथास् तेन मह्यं पवस्व॥ स नः पवस्व शं गवे शं जनाय शम् अर्वते। शं राजन्न् ओषधीभ्यः॥ इति। शम् एवोद्गात्रे भवति शं यजमानाय शं प्रजाभ्यः॥ अध्वर्युर् आग्रायणं ग्रहं गृह्नन् हिंकरोति। तद् एव हिंकृतं भवति। अथोद्गात्रैकर्चो गायत्रं गायति उच्चा ते जातम् अन्धसा इति। स उदित्येवेतो देवेभ्यो हव्यं वहति दिवि सद् भूम्य् आ ददे इत्य् अमुतो वृष्टिम् आच्यावयति। ताव् इमौ लोकौ सवासिनौ करोति। ताव् अस्मै कामं पिन्वाते। कामम् अस्मा इमौ लोकौ पिन्वाते य एवं वेद

खण्डिका 82

क्रूरम् इव वा एतद् यज्ञस्य कुर्वन्ति यद् धविर्धाने ग्रावभिस् सोमं राजानं हत्वा बहिष्पवमानं सर्पन्ति। का तस्य प्रायश्चित्तिर् इत्य् आहुर् अप उपस्पृशेयुः। आपो वै सर्वस्य शान्तिः। अद्भिर् एवैनत् तच् छमयन्ति। वाग् वा एतस्मा अग्रे ऽध्वने ऽतन्द्रायत बहिष्पवमानं सर्पन्ती। तां प्रजापतिर् अब्रवीद् भागधेयं ते करोम्य् अथ सर्पेति। बहिष्पवमानं सर्प्स्यन् होमं जुहुयात् जुष्टो वाचो भूयासं जुष्टो वाचस्पत्युः॥ देवि वाग् यत् ते वाचो मधुमत् तस्मिन् मा धाः॥ स्वाहा सरस्वत्यै इति। यत् सरस्वत्यै स्वाहा इति जुहुयाद् वाचं सरस्वतीं स्वाहाकारेण परिगृह्णीयात्। अथ यत् स्वाहा सरस्वत्यै इति जुहोति वाचं तद् उत्तरां स्वाहाकाराद् दधाति। तया परिगृहीतया यज्ञं तनुते। वाचा ह्य् ऊर्ध्वो यज्ञस् तायते। वेकुरा नामासि प्रेषिता दिव्याय कर्मणे शिवा नस् सुयमा भव। सत्याशीर् यजमानाय स्वाहा इति वा जुहुयात्। वाग् वै वेकुरा। ब्रह्म वाक्। ब्रह्मण एवं तद् वाचे होमं हुत्वा सर्पति नार्तिम् आर्छति

खण्डिका 83

अरण्यम् इव वा एते यन्ति ये बहिष्पवमानं सर्पन्ति। तान् ईश्वरो रक्षो वा हन्तोर् अन्या वा नंष्ट्रा। अथ द्वितीयां जुहोति सूर्यो मा देवो दिव्येभ्यो रक्षोभ्यः पातु वात आन्तरिक्षेभ्यो ऽग्निः पार्थिवेभ्यस् स्वाहा इति। य एवैषां लोकानाम् अधिपतयस् तेभ्य एवैतद् आत्मानं परिदाय सर्पति नार्तिम् आर्छति॥ प्रजापतिर् यद् यज्ञम् असृजत तं हविर्धान एवासृजत। स सृष्ट उदङ् प्राद्रवत्। तम् एतद् अत्राप्त्वास्तुवन्। यत्रैतद् उद्ञ्चयित्वा बहिष्पवमानेन स्तुवन्ति यज्ञम् एवैतद् आप्त्वा स्तुवन्ति॥ यो वै दैव्यं वाजिनं वेद वाजी भवति। यज्ञो वाव दैव्यो वाजी। य इन् नु मानुषं वाजिनम् अशान्तम् असंमृष्टम् आरोहति तम् इन् नु स हिनस्ति वा प्र वा क्षिणोति। अथ किं यो दैव्यं वाजिनम् अशान्तम् असंमृष्टम् आरोहात्

खण्डिका 84

अध्वर्युः प्रस्तरं हरन् सर्पति। तम् अनुमन्त्रयते एतद् अहं दैव्यं वाजिनं संमाज्मि इति। संसृष्टम् एवैनं शान्तम् आरोहति नार्तिम् आर्छति॥ देवक्षेत्रं वा एषो ऽध्यवस्यति यस् सोमस्योद्गायति। य इन् नु मानुषाय क्षेत्रपतये प्रोच्यावस्यति तम् इन् नु स हिनस्ति वा प्र वा यापयति। अथ किं यो दैव्याय क्षेत्रपतये प्रोच्यावस्यात्। सोमोद्गायोद्गाय सोम इत्य् आह। सोमो वै देवानां क्षेत्रपतिः। सोमायैव तद् देवानां क्षेत्रपतये प्रोच्योद्गायति नार्तिम् आर्छति। मह्यं तेजसे मह्यं ब्रह्मवर्चसाय मह्यम् अन्नाद्याय मह्यं भूम्ने मह्यं पुष्टयै मह्यं प्रजननाय प्रजानां भूम्ने प्रजानां पुष्टयै प्रजानां प्रजननाय सोमस्य राज्ञो राज्याय मम ग्रामणेयाय इति॥ ग्रावो ह स्माह मैत्रेयः किं मम एकस्मा आगास्यामि किम् एकस्मा इति। एतेन ह स्म वै स तद् आह सोमोद्गायोद्गाय सोमेदम् अमुष्मा इदम् अमुष्मै इति। ते ह स्मास्मै कामास् समृध्यन्ते॥ देवपाशा वा एते वितायन्ते यद् धिष्ण्या अग्नयो विह्नियन्ते। तान् यो विद्वान् अभ्यवैति देवपाशान् प्रतिमुञ्चते। एषा वै यज्ञस्य द्वार् यद् अन्तराग्नीध्रं च चात्वालं च। तयाभ्यवेयात्। तयोदेयात्। धा वै नाम वेदिः। ताम् अभ्यवयन् ब्रूयात् धा असि सुधां मे धेहि॥ आयुष्मन्तस् त्वद् वर्चस्वन्त उद्गेष्म इति। न देवपाशान् प्रतिमुञ्चते नार्तिम् आर्छति