मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

सद्दर्शनम्

Also spelled: Saddarshanam

सद्दर्शनम् — श्रीरमणमहर्षेः तमिळ्कृतेः गणपतिमुनिकृतः संस्कृतानुवादः; मङ्गलोपसंहारसहिताः चतुश्चत्वारिंशत् श्लोकाः।

3

श्रीरमणमहर्षेः तमिळ्कृतेः संस्कृतानुवादः — वासिष्ठगणपतिमुनिः

श्रीभगवद्रमणमहर्षि-विरचित-द्राविडग्रन्थस्य संस्कृतानुवादात्मकम्

मङ्गलम्

सत्प्रत्ययाः किं नु विहाय सन्तं

हृद्येष चिन्तारहितो हृदाख्यः ।

कथं स्मरामस्तममेयमेकं

तस्य स्मृतिस्तत्र दृढैव निष्ठा

॥१॥

मृत्युञ्जयं मृत्युभियाश्रिताना-

महंमतिर्मृत्युमुपैति पूर्वम् ।

अथ स्वभावादमृतेषु तेषु

कथं पुनर्मृत्युधियोऽवकाशः

॥२॥

ग्रन्थारम्भः

सर्वैर्निदानं जगतोऽहमश्च

वाच्यः प्रभुः कश्चिदपारशक्तिः ।

चित्रेऽत्र लोक्यं च विलोकिता च

पटः प्रकाशोऽप्यभवत्स एकः

॥३॥

तत्त्वग्रन्थमाला

आरभ्यते जीवजगत्परात्म-

तत्त्वाभिधानेन मतं समस्तम् ।

इदं त्रयं यावदहंमति स्यात्

सर्वोत्तमाऽहंमतिशून्यनिष्ठा

॥४॥

सत्यं मृषा वा चिदिदं जडं वा

दुःखं सुखं वेति मुधा विवादः ।

अदृष्टलोका निरहंप्रतीति-

र्निष्ठाऽविकल्पा परमाऽखिलेष्टा

॥५॥

सरूपबुद्धिर्जगतीश्वरे च

सरूपधीरात्मनि यावदस्ति ।

अरूपकात्मा यदि कः प्रपश्येत्

सा दृष्टिरेकाऽनवधिर्हि पूर्णा

॥६॥

यत्पञ्चकोशात्मकमस्ति देहं

तदन्तरा किं भुवनं चकास्ति ।

देहं विना पञ्चविधं तदेतत्

पश्यन्ति के वा भुवनं भणन्तु

॥७॥

शब्दादिरूपं भुवनं समस्तं

शब्दादिसत्तेन्द्रियवृत्तिभास्या ।

सत्तेन्द्रियाणां मनसो वशे स्यात्

मनोमयं तद्भुवनं वदामः

॥८॥

धिया सहोदेति धियास्तमेति

लोकस्ततो धीप्रविभास्य एषः ।

धीलोकजन्मक्षयधाम पूर्णं

सद्वस्तु जन्मक्षयशून्यमेकम्

॥९॥

भवन्तु सद्दर्शनसाधनानि

परस्य नामाकृतिभिः सपर्या ।

सद्वस्तुनि प्राप्तदात्मभावा

निष्ठैव सद्दर्शनमित्यवेहि

॥१०॥

द्वन्द्वानि सर्वाण्यखिलास्त्रिपुट्यः

किञ्चित्समाश्रित्य विभान्ति वस्तु ।

तन्मार्गणे स्याद्गलितं समस्तं

न पश्यतां सच्चलनं कदापि

॥११॥

विद्या कथं भाति न चेदविद्या

विद्यां विना किं प्रविभात्यविद्या ।

द्वयं च कस्येति विचार्य मूल-

स्वरूपनिष्ठा परमार्थविद्या

॥१२॥

बोद्धारमात्मानमजानतो यो

बोधः स किं स्यात्परमार्थबोधः ।

बोधस्य बोध्यस्य च संश्रयं स्वं

विजानतस्तद्द्वितयं विनश्येत्

॥१३॥

निद्रा न विद्या ग्रहणं न विद्या

गृह्णाति किञ्चिन्न यथार्थबोधे ।

निद्रापदार्थग्रहणेतरा स्यात्

चिदेव विद्या विलसन्त्यशून्या

॥१४॥

सत्यश्चिदात्मा विविधाकृतिश्चित्

सिध्येत्पृथक्सत्यचितो न भिन्ना ।

भूषाविकाराः किमु सन्ति सत्यं

विना सुवर्णं पृथगत्र लोके

॥१५॥

तद्युष्मदोरस्मदि सम्प्रतिष्ठा

तस्मिन् विनष्टेऽस्मदि मूलबोधात् ।

तद्युष्मदस्मन्मतिवर्जितैका

स्थितिर्ज्वलन्ती सहजात्मनः स्यात्

॥१६॥

भूतं भविष्यच्च भवत्स्वकाले

तद्वर्तमानस्य विहाय तत्त्वम् ।

हास्या न किं स्याद्गतभाविचर्चा

विनैकसङ्ख्यां गणनेव लोके

॥१७॥

क्व भाति दिक्कालकथा विनाऽस्मान्

दिक्काललीलेह वपुर्वयं चेत् ।

न क्वापि भामो न कदापि भामो

वयं तु सर्वत्र सदा च भामः

॥१८॥

देहात्मभावे ज्ञजडौ समाना-

वेकस्य देहे हृदि दीप्त आत्मा ।

आक्रम्य देहं च जगच्च पूर्णः

परस्य मेयं तनुमात्रमात्मा

॥१९॥

अज्ञस्य विज्ञस्य च विश्वमस्ति

पूर्वस्य दृश्यं जगदेव सत्यम् ।

परस्य दृश्याश्रयभूतमेकं

सत्यं प्रपूर्णं प्रविभात्यरूपम्

॥२०॥

विधेः प्रयत्नस्य च कोऽपि वाद-

स्तयोर्द्वयोर्मूलमजानतां स्यात् ।

विधेः प्रयत्नस्य च मूलवस्तु

सञ्जानतां नैव विधिर्न यत्नः

॥२१॥

यदीशितुर्वीक्षणमीक्षितार-

मवीक्ष्य तन्मानसिकेक्षणं स्यात् ।

न द्रष्टुरन्यः परमो हि तस्य

वीक्षा स्वमूले प्रविलीय निष्ठा

॥२२॥

आत्मानमीक्षेत परं प्रपश्ये-

दित्यागमोक्तेः सुलभो न भावः ।

नात्मैव दृश्यो यदि का कथेशे

स्वयं तदन्नीभवनं तदीक्षा

॥२३॥

धिये प्रकाशं परमो वितीर्य

स्वयं धियोऽन्तः प्रविभाति गुप्तः ।

धियं परावर्त्य धियोन्तरेऽत्र

संयोजनान्नेश्वरदृष्टिरन्या

॥२४॥

न वक्ति देहोऽहमिति प्रसुप्तौ

न कोऽपि नाभूवमिति प्रवक्ति ।

यत्रोदिते सर्वमुदेति तस्य

धियाऽहमः शोधय जन्मदेशम्

॥२५॥

देहो न जानाति सतो न जन्म

देहप्रमाणोऽन्य उदेति मध्ये ।

अहङ्कृतिग्रन्थिविबन्धसूक्ष्म-

शरीरचेतोभवजीवनामा

॥२६॥

रूपोद्भवो रूपततिप्रतिष्ठो

रूपाशनो धूतगृहीतरूपः ।

स्वयं विरूपः स्वविचारकाले

धावत्यहङ्कारपिशाच एषः

॥२७॥

भावेऽहमः सर्वमिदं विभाति

लयेऽहमो नैव विभाति किञ्चित्।

तस्मादहंरूपमिदं समस्तं

तन्मार्गणं सर्वजयाय मार्गः

॥२८॥

सत्या स्थितिर्नाहमुदेति यत्र

तच्चोदयस्थानगवेषणेन ।

विना न नश्येद्यदि तन्न नश्येत्

स्वात्मैक्यरूपा कथमस्तु निष्ठा

॥२९॥

कूपे यथा गाढजले तथान्त-

र्निमज्ज्य बुद्ध्या शितया नितान्तम् ।

प्राणं च वाचं च नियम्य चिन्वन्

विन्देन्निजाहङ्कृतिमूलरूपम्

॥३०॥

मौनेन मज्जन्मनसा स्वमूल-

चर्चैव सत्यात्मविचारणं स्यात् ।

एषोऽहमेतन्न मम स्वरूप-

मिति प्रमा सत्यविचारणाङ्गम्

॥३१॥

गवेषणात्प्राप्य हृदन्तरं तत्

पतेदहन्ता परिभुग्नशीर्षा ।

अथाहमन्यत्स्फुरति प्रकृष्टं

नाहङ्कृतिस्तत्परमेव पूर्णम्

॥३२॥

अहङ्कृतिं यो लसति ग्रसित्वा

किं तस्य कार्यं परिशिष्टमस्ति ।

किञ्चिद्विजानाति स नात्मनोऽन्यत्

तस्य स्थितिं भावयितुं क्षमः कः

॥३३॥

आह स्फुटं तत्त्वमसीति वेद-

स्तथाप्यसम्प्राप्य परात्मनिष्ठाम् ।

भूयो विचारो मतिदुर्बलत्वं

तत्सर्वदा स्वात्मतया हि भाति

॥३४॥

न वेद्म्यहं मामुत वेद्म्यहं मा-

मिति प्रवादो मनुजस्य हास्यः ।

दृग्दृश्यभेदात् किमयं द्विधात्मा

स्वात्मैकतायां हि धियां न भेदाः

॥३५॥

हृत्प्राप्य सद्धाम निजस्वरूपे

स्वभावसिद्धेऽनुपलभ्य निष्ठाम् ।

मायाविलासः सदसत्सरूप-

विरूपनानैकमुखप्रवादाः

॥३६॥

सिद्धस्य वित्तिः सत एव सिद्धिः

स्वप्नोपमानाः खलु सिद्धयोऽन्याः ।

स्वप्नः प्रबुद्धस्य कथं नु सत्यः

सति स्थितः किं पुनरेति मायाम्

॥३७॥

सोऽहंविचारो वपुरात्मभावे

साहाय्यकारी परमार्गणस्य ।

स्वात्मैक्यसिद्धौ स पुनर्निरर्थो

यथा नरत्वप्रमितिर्नरस्य

॥३८॥

द्वैतं विचारे परमार्थबोधे

त्वद्वैतमित्येष न साधुवादः ।

गवेषणात्प्राग्दशमे विनष्टे

पश्चाच्च लब्धे दशमत्वमेकम्

॥३९॥

करोमि कर्मेति नरो विजानन्

बाध्यो भवेत्कर्मफलं च भोक्तुम् ।

विचारधूता हृदि कर्तृता चेत्

कर्मत्रयं नश्यति सैव मुक्तिः

॥४०॥

बद्धत्वभावे सति मोक्षचिन्ता

बन्धस्तु कस्येति विचारणेन ।

सिद्धे स्वयं स्वात्मनि नित्यमुक्ते

क्व बन्धचिन्ता क्व च मोक्षचिन्ता

॥४१॥

रूपिण्यरूपिण्युभयात्मिका च

मुक्तिस्त्रिरूपेति विदो वदन्ति ।

इदं त्रयं या विविनक्त्यहन्धी-

स्तस्याः प्रणाशः परमार्थमुक्तिः

॥४२॥

सद्दर्शनं द्राविडवाङ्निबद्धं

महर्षिणा श्रीरमणेन शुद्धम् ।

प्रबन्धमुत्कृष्टममर्त्यवाण्या-

मनूद्य वासिष्ठमुनिर्व्यतानीत्

॥४३॥

सत्तत्त्वसारं सरलं दधाना

मुमुक्षुलोकाय मुदं ददाना ।

अमानुषश्रीरमणीयवाणी-

मयूखभित्तिर्मुनिवाग् विभाति

॥४४॥

॥ सद्दर्शनं समाप्तम्॥