मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — एकादशस्कन्धः, अध्याय १३

3
एकादशस्कन्धः · 13

भगवता हंसरूपेण ब्रह्मणे ज्ञानोपदेशः

श्रीभगवानुवाच

( अनुष्टुप् ) सत्त्वं रजस्तम इति गुणा बुद्धेर्न च आत्मनः ।

सत्त्वेनान्यतमौ हन्यात् सत्त्वं सत्त्वेन चैव हि

॥१॥

सत्त्वात् धर्मो भवेद् वृद्धात् पुंसो मद्भक्तिलक्षणः ।

सात्त्विकोपासया सत्त्वं ततो धर्मः प्रवर्तते

॥२॥

धर्मो रजस्तमो हन्यात् सत्त्ववृद्धिः अनुत्तमः ।

आशु नश्यति तन्मूलो ह्यधर्म उभये हते

॥३॥

आगमोपः प्रजा देशः कालः कर्म च जन्म च ।

ध्यानं मंत्रोऽथ संस्कारो दशैते गुणहेतवः

॥४॥

तत् तत् सात्त्विकमेवैषां यद् यद् वृद्धाः प्रचक्षते ।

निन्दन्ति तामसं तत्तद् राजसं तद् उपेक्षितम्

॥५॥

सात्त्विकान्येव सेवेत पुमान् सत्त्वविवृद्धये ।

ततो धर्मस्ततो ज्ञानं यावत् स्मृतिरपोहनम्

॥६॥

वेणुसङ्घर्षजो वह्निः दग्ध्वा शाम्यति तद्वनम् ।

एवं गुणव्यत्ययजो, देहः शाम्यति तत्क्रियः

॥७॥

श्रीउद्धव उवाच

विदन्ति मर्त्याः प्रायेण विषयान् पदमापदाम् ।

तथापि भुञ्जते कृष्ण तत्कथं श्वखराजवत्

॥८॥

श्रीभगवानुवाच

अहमित्यन्यथा बुद्धिः प्रमत्तस्य यथा हृदि ।

उत्सर्पति रजो घोरं ततो वैकारिकं मनः

॥९॥

रजोयुक्तस्य मनसः सङ्कल्पः सविकल्पकः ।

ततः कामो गुणध्यानाद् दुःसहः स्याद् हि दुर्मतेः

॥१०॥

करोति कामवशगः कर्माण्यविजितेन्द्रियः ।

दुःखोदर्काणि संपश्यन् रजोवेग विमोहितः

॥११॥

रजस्तमोभ्यां यदपि विद्वान् विक्षिप्तधीः पुनः ।

अतंद्रितो मनो युञ्जन् दोषदृष्टिर्न सज्जते

॥१२॥

अप्रमत्तोऽनुयुञ्जीत मनो मय्यर्पयन् शनैः ।

अनिर्विण्णो यथाकालं जितश्वासो जितासनः

॥१३॥

एतावान् योग आदिष्टो मच्छिष्यैः सनकादिभिः ।

सर्वतो मन आकृष्य मय्यद्धाऽऽवेश्यते यथा

॥१४॥

श्रीउद्धव उवाच

यदा त्वं सनकादिभ्यो येन रूपेण केशव ।

योगमादिष्टवानेतद् रूपमिच्छामि वेदितुम्

॥१५॥

श्रीभगवानुवाच

पुत्रा हिरण्यगर्भस्य मानसाः सनकादयः ।

पप्रच्छुः पितरं सूक्ष्मां योगस्यैकान्तिकीं गतिम्

॥१६॥

सनकादय ऊचुः

गुणेष्वाविशते चेतो गुणाश्चेतसि च प्रभो ।

कथमन्योन्य संत्यागो मुमुक्षोः अतितितीर्षोः

॥१७॥

श्रीभगवानुवाच

एवं पृष्टो महादेवः स्वयंभूः भूतभावनः ।

ध्यायमानः प्रश्नबीजं नाभ्यपद्यत कर्मधीः

॥१८॥

स मामचिन्तयद् देवः प्रश्नपारतितीर्षया ।

तस्याहं हंसरूपेण सकाशमगमं तदा

॥१९॥

दृष्ट्वा मां त उपव्रज्य कृत्वा पादाभिवन्दनम् ।

ब्रह्मामग्रतः कृत्वा पप्रच्छुः को भवान् इति

॥२०॥

इत्यहं मुनिभिः पृष्टः तत्त्वजिज्ञासुभिस्तदा ।

यदवोचमहं तेभ्यः तद् उद्धव निबोध मे

॥२१॥

वस्तुनो यद्यनानात्वमात्मनः प्रश्न ईदृशः ।

कथं घटेत वो विप्रा वक्तुर्वा मे क आश्रयः

॥२२॥

पञ्चात्मकेषु भूतेषु समानेषु च वस्तुतः ।

को भवानिति वः प्रश्नो वाचारम्भो ह्यनर्थकः

॥२३॥

मनसा वचसा दृष्ट्या गृह्यतेऽन्यैः अपीन्द्रियैः ।

अहमेव न मत्तोऽन्यत् इति बुध्यध्वमञ्जसा

॥२४॥

गुणेषु आविशते चेतो गुणाश्चेतसि च प्रजाः ।

जीवस्य देह उभयं गुणाश्चेतो मदात्मनः

॥२५॥

गुणेषु च आविशत् चित्तमभीक्ष्णं गुणसेवया ।

गुणाश्च चित्तप्रभवा मद्रूप उभयं त्यजेत्

॥२६॥

जाग्रत् स्वप्नः सुषुप्तं च, गुणतो बुद्धिवृत्तयः ।

तासां विलक्षणो जीवः साक्षित्वेन विनिश्चितः

॥२७॥

यर्हि संसृतिबन्धोऽयं आत्मनो गुणवृत्तिदः ।

मयि तुर्ये स्थितो जह्यात् त्यागः तद् गुणचेतसाम्

॥२८॥

अहङ्कारकृतं बन्धं आत्मनोऽर्थविपर्ययम् ।

विद्वान् निर्विद्य संसारचिन्तां तुर्ये स्थितः त्यजेत्

॥२९॥

यावत् नानार्थधीः पुंसो, न निवर्तेत युक्तिभिः ।

जागर्ति अपि स्वपन् अज्ञः स्वप्ने जागरणं यथा

॥३०॥

असत्त्वाद् आत्मनोऽन्येषां भावानां तत्कृता भिदा ।

गतयो हेतवश्चास्य मृषा स्वप्नदृशो यथा

॥३१॥

( वसंततिलका ) यो जागरे बहिरनुक्षणधर्मिणोऽर्थान् भुङ्क्ते समस्तकरणैहृदि तत्सदृक्षान् ।

स्वप्ने सुषुप्त उपसंहरते स एकः स्मृत्यन्वयात् त्रिगुणवृत्तिदृगिन्द्रियेशः

॥३२॥

एवं विमृश्य गुणतो मनसः त्र्यवस्था ।

मन्मायया मयि कृता इति निश्चितार्थाः ।

संछिद्य हार्दमनुमानसदुक्तितीक्ष्ण ।

ज्ञानासिना भजत माखिलसंशयाधिम्

॥३३॥

ईक्षेत विभ्रममिदं मनसो विलासं ।

दृष्टं विनष्टमतिलोलमलातचक्रम् ।

विज्ञानमेकं उरुधेव विभाति माया ।

स्वप्नः त्रिधा गुणविसर्गकृतो विकल्पः

॥३४॥

दृष्टिं ततः प्रतिनिवर्त्य निवृत्ततृष्णः ।

तूष्णीं भवेत् निजसुखानुभवो निरीहः ।

संदृश्यते क्व च यदीदमवस्तुबुद्ध्या ।

त्यक्तं भ्रमाय न भवेत् स्मृतिरानिपातात्

॥३५॥

देहं च नश्वरमवस्थितमुत्थितं वा ।

सिद्धो न पश्यति यतोऽध्यगमत् स्वरूपम् ।

दैवाद्-अपेतमथ दैववशाद् उपेतं ।

वासो यथा परिकृतं मदिरा-मदान्धः

॥३६॥

देहोऽपि दैववशगः खलु कर्म यावत् ।

स्वारंभकं प्रतिसमीक्षत एव सासुः ।

तं सप्रपञ्चमधिरूढसमाधियोगः ।

स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः

॥३७॥

( अनुष्टुप् ) मयैतदुक्तं वो विप्रा गुह्यं यत् साङ्ख्ययोगयोः ।

जानीत माऽऽगतं यज्ञं युष्मद्-धर्मविवक्षया

॥३८॥

अहं योगस्य साङ्ख्यस्य सत्यस्यर्तस्य तेजसः ।

परायणं द्विजश्रेष्ठाः श्रियः कीर्तेः दमस्य च

॥३९॥

मां भजन्ति गुणाः सर्वे निर्गुणं निरपेक्षकम् ।

सुहृदं प्रियमात्मानं साम्यासङ्गादयोगुणाः

॥४०॥

इति मे छिन्नसन्देहा मुनयः सनकादयः ।

सभाजयित्वा परया भक्त्यागृणत संस्तवैः

॥४१॥

तैरहं पूजितः सम्यक् संस्तुतः परमर्षिभिः ।

प्रत्येयाय स्वकं धाम पश्यतः परमेष्ठिनः

॥४२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे त्रयोदशोऽध्यायः ॥ १३ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु