मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — एकादशस्कन्धः, अध्याय २६

3
एकादशस्कन्धः · 26

ऐलगीतम्

श्रीभगवानुवाच

( अनुष्टुप् ) मल्लक्षणमिमं कायं लब्ध्वा मद्धर्म आस्थितः ।

आनन्दं परमात्मानम् आत्मस्थं समुपैति माम्

॥१॥

गुणमय्या जीवयोन्या विमुक्तो ज्ञाननिष्ठया ।

गुणेषु मायामात्रेषु दृश्यमानेष्ववस्तुतः ।

वर्तमानोऽपि न पुमान् युज्यतेऽवस्तुभिर्गुणैः

॥२॥

सङ्गं न कुर्यादसतां शिश्नोदरतृपां क्वचित् ।

तस्यानुगस्तमस्यन्धे पतत्यन्धानुगान्धवत्

॥३॥

ऐलः सम्राडिमां गाथाम् अगायत बृहच्छ्रवाः ।

उर्वशीविरहान् मुह्यन् निर्विण्णः शोकसंयमे

॥४॥

त्यक्त्वाऽऽत्मानं व्रजन्तीं तां नग्न उन्मत्तवन्नृपः ।

विलपन् अन्वगाज्जाये घोरे तिष्ठेति विक्लवः

॥५॥

कामानतृप्तोऽनुजुषन् क्षुल्लकान् वर्षयामिनीः ।

न वेद यान्तीर्नायान्तीः उर्वश्याकृष्टचेतनः

॥६॥

ऐल उवाच

अहो मे मोहविस्तारः कामकश्मलचेतसः ।

देव्या गृहीतकण्ठस्य नायुःखण्डा इमे स्मृताः

॥७॥

नाहं वेदाभिनिर्मुक्तः सूर्यो वाभ्युदितोऽमुया ।

मूषितो वर्षपूगानां बताहानि गतान्युत

॥८॥

अहो मे आत्मसम्मोहो येनात्मा योषितां कृतः ।

क्रीडामृगश्चक्रवर्ती नरदेवशिखामणिः

॥९॥

सपरिच्छदमात्मानं हित्वा तृणमिवेश्वरम् ।

यान्तीं स्त्रियं चान्वगमं नग्न उन्मत्तवद् रुदन्

॥१०॥

कुतस्तस्यानुभावः स्यात् तेज ईशत्वमेव वा ।

योऽन्वगच्छं स्त्रियं यान्तीं खरवत् पादताडितः

॥११॥

किं विद्यया किं तपसा किं त्यागेन श्रुतेन वा ।

किं विविक्तेन मौनेन स्त्रीभिर्यस्य मनो हृतम्

॥१२॥

स्वार्थस्याकोविदं धिङ् मां मूर्खं पण्डितमानिनम् ।

योऽहमीश्वरतां प्राप्य स्त्रीभिर्गोखरवज्जितः

॥१३॥

सेवतो वर्षपूगान् मे उर्वश्या अधरासवम् ।

न तृप्यत्यात्मभूः कामो वह्निराहुतिभिर्यथा

॥१४॥

पुंश्चल्यापहृतं चित्तं को न्वन्यो मोचितुं प्रभुः ।

आत्मारामेश्वरमृते भगवन्तम् अधोक्षजम्

॥१५॥

बोधितस्यापि देव्या मे सूक्तवाक्येन दुर्मतेः ।

मनोगतो महामोहो नापयात्यजितात्मनः

॥१६॥

किमेतया नोऽपकृतं रज्ज्वा वा सर्पचेतसः ।

रज्जु स्वरूपाविदुषो योऽहं यदजितेन्द्रियः

॥१७॥

क्वायं मलीमसः कायो दौर्गन्ध्याद्यात्मकोऽशुचिः ।

क्व गुणाः सौमनस्याद्या ह्यध्यासोऽविद्यया कृतः

॥१८॥

पित्रोः किं स्वं नु भार्यायाः स्वामिनोऽग्नेः श्वगृध्रयोः ।

किमात्मनः किं सुहृदां इति यो नावसीयते

॥१९॥

तस्मिन् कलेवरेऽमेध्ये तुच्छनिष्ठे विषज्जते ।

अहो सुभद्रं सुनसं सुस्मितं च मुखं स्त्रियः

॥२०॥

त्वङ्मांसरुधिरस्नायु मेदोमज्जास्थिसंहतौ ।

विण्मूत्रपूये रमतां कृमीणां कियदन्तरम्

॥२१॥

अथापि नोपसज्जेत स्त्रीषु स्त्रैणेषु चार्थवित् ।

विषयेन्द्रियसंयोगान् मनः क्षुभ्यति नान्यथा

॥२२॥

अदृष्टाद् अश्रुताद्भावात् न भाव उपजायते ।

असम्प्रयुञ्जतः प्राणान् शाम्यति स्तिमितं मनः

॥२३॥

तस्मात्सङ्गो न कर्तव्यः स्त्रीषु स्त्रैणेषु चेन्द्रियैः ।

विदुषां चाप्यविस्रब्धः षड्वर्गः किमु मादृशाम्

॥२४॥

श्रीभगवानुवाच

( मिश्र ) एवं प्रगायन् नृपदेवदेवः स उर्वशीलोकमथो विहाय ।

आत्मानमात्मन्यवगम्य मां वै उपारमत् ज्ञानविधूतमोहः

॥२५॥

( अनुष्टुप् ) ततो दुःसङ्गमुत्सृज्य सत्सु सज्जेत बुद्धिमान् ।

सन्त एवास्य छिन्दन्ति मनोव्यासङ्गमुक्तिभिः

॥२६॥

सन्तोऽनपेक्षा मच्चित्ताः प्रशान्ताः समदर्शिनः ।

निर्ममा निरहङ्कारा निर्द्वन्द्वा निष्परिग्रहाः

॥२७॥

तेषु नित्यं महाभाग महाभागेषु मत्कथाः ।

सम्भवन्ति हिता नृणां जुषतां प्रपुनन्त्यघम्

॥२८॥

ता ये श्रृण्वन्ति गायन्ति ह्यनुमोदन्ति चादृताः ।

मत्पराः श्रद्दधानाश्च भक्तिं विन्दन्ति ते मयि

॥२९॥

भक्तिं लब्धवतः साधोः किमन्यद् अवशिष्यते ।

मय्यनन्तगुणे ब्रह्मण्यानन्दानुभवात्मनि

॥३०॥

यथोपश्रयमाणस्य भगवन्तं विभावसुम् ।

शीतं भयं तमोऽप्येति साधून् संसेवतस्तथा

॥३१॥

निमज्ज्योन्मज्जतां घोरे भवाब्धौ परमायनम् ।

सन्तो ब्रह्मविदः शान्ता नौर्दृढेवाप्सु मज्जताम्

॥३२॥

अन्नं हि प्राणिनां प्राण आर्तानां शरणं त्वहम् ।

धर्मो वित्तं नृणां प्रेत्य सन्तोऽर्वाग् बिभ्यतोऽरणम्

॥३३॥

सन्तो दिशन्ति चक्षूंषि बहिरर्कः समुत्थितः ।

देवता बान्धवाः सन्तः सन्त आत्माहमेव च

॥३४॥

वैतसेनस्ततोऽप्येवम् उर्वश्या लोकनिस्पृहः ।

मुक्तसङ्गो महीमेतम् आत्मारामश्चचार ह

॥३५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे षड्विंशोऽध्यायः ॥ २६ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु