कुरुरादि सप्तगुरूणां वर्णनम्, अवधूतोपाख्यानसमाप्तिश्च
श्रीब्राह्मण उवाच
( अनुष्टुप् ) परिग्रहो हि दुःखाय यद् यत् प्रियतमं नृणाम् ।
अनन्तं सुखमाप्नोति तद् विद्वान् यस्त्वकिञ्चनः
॥१॥सामिषं कुररं जघ्नुः बलिनो ये निरामिषाः ।
तदामिषं परित्यज्य स सुखं समविन्दत
॥२॥न मे मानापमानौ स्तो न चिन्ता गेहपुत्रिणाम् ।
आत्मक्रीड आत्मरतिः विचरामीह बालवत्
॥३॥द्वावेव चिन्तया मुक्तौ परमानन्द आप्लुतौ ।
यो विमुग्धो जडो बालो यो गुणेभ्यः परं गतः
॥४॥क्वचित् कुमारी त्वात्मानं वृणानान् गृहमागतान् ।
स्वयं तान् अर्हयामास क्वापि यातेषु बन्धुषु
॥५॥तेषम् अभ्यवहारार्थं शालीन् रहसि पार्थिव ।
अवघ्नन्त्याः प्रकोष्ठस्थाः चक्रुः शङ्खाः स्वनं महत्
॥६॥सा तत् जुगुप्सितं मत्वा महती व्रीडिता ततः ।
बभञ्जैकैकशः शङ्खान् द्वौ द्वौ पाण्योरशेषयत्
॥७॥उभयोरप्यभूद् घोषो ह्यवघ्नन्त्याः स्म शंखयोः ।
तत्राप्येकं निरभिदद् एकस्मात् नाभवद् ध्वनिः
॥८॥अन्वशिक्षमिमं तस्या उपदेशमरिन्दम ।
लोकान् अनुचरन् एतान् लोकतत्त्वविवित्सया
॥९॥वासे बहूनां कलहो भवेत् वार्ता द्वयोरपि ।
एक एव चरेत् तस्मात् कुमार्या इव कङ्कणः
॥१०॥मन एकत्र संयुञ्ज्यात् जितश्वासो जितासनः ।
वैराग्याभ्यासयोगेन ध्रियमाणमतन्द्रितः
॥११॥( मिश्र ) यस्मिन्मनो लब्धपदं यदेतत् शनैः शनैः मुञ्चति कर्मरेणून् ।
सत्त्वेन वृद्धेन रजस्तमश्च विधूय निर्वाणमुपैत्यनिन्धनम्
॥१२॥( उपेंद्रवज्रा ) तदैवमात्मन्यवरुद्धचित्तो न वेद किञ्चिद् बहिरन्तरं वा ।
यथेषुकारो नृपतिं व्रजन्तं इषौ गतात्मा न ददर्श पार्श्वे
॥१३॥( अनुष्टुप् ) एकचार्यनिकेतः स्याद् , अप्रमत्तो गुहाशयः ।
अलक्ष्यमाण आचारैः मुनिरेकोऽल्पभाषणः
॥१४॥गृहारम्भोऽतिदुःखाय विफलश्चाध्रुवात्मनः ।
सर्पः परकृतं वेश्म प्रविश्य सुखमेधते
॥१५॥एको नारायणो देवः पूर्वसृष्टं स्वमायया ।
संहृत्य कालकलया कल्पान्त इदमीश्वरः
॥१६॥एक एवाद्वितीयोऽभूत् आत्माधारोऽखिलाश्रयः ।
कालेनात्मानुभावेन साम्यं नीतासु शक्तिषु ।
सत्त्वादिष्वादिपुरुषः प्रधानपुरुषेश्वरः
॥१७॥परावराणां परम, आस्ते कैवल्यसंज्ञितः ।
केवलानुभवानन्द सन्दोहो निरुपाधिकः
॥१८॥केवलात्मानुभावेन स्वमायां त्रिगुणात्मिकाम् ।
सङ्क्षोभयन् सृजत्यादौ तया सूत्रमरिन्दम
॥१९॥तामाहुः त्रिगुणव्यक्तिं सृजन्तीं विश्वतोमुखम् ।
यस्मिन् प्रोतम् इदं विश्वं येन संसरते पुमान्
॥२०॥यथोर्णनाभिः हृदयाद् ऊर्णां सन्तत्य वक्त्रतः ।
तया विहृत्य भूयस्तां ग्रसत्येवं महेश्वरः
॥२१॥यत्र यत्र मनो देही धारयेत् सकलं धिया ।
स्नेहाद् द्वेषाद् भयाद् वापि याति तत् तत्स्वरूपताम्
॥२२॥कीटः पेशस्कृतं ध्यायन् कुड्यां तेन प्रवेशितः ।
याति तत्सात्मतां राजन् पूर्वरूपमसन्त्यजन्
॥२३॥एवं गुरुभ्य एतेभ्य एषा मे शिक्षिता मतिः ।
स्वात्मोपशिक्षितां बुद्धिं श्रृणु मे वदतः प्रभो
॥२४॥( वसंततिलका ) देहो गुरुर्मम विरक्तिविवेकहेतुः बिभ्रत् स्म सत्त्वनिधनं सततार्त्युदर्कम् ।
तत्त्वान्यनेन विमृशामि यथा तथापि पारक्यमित्यवसितो विचराम्यसङ्गः
॥२५॥जायात्मजार्थपशुभृत्यगृहाप्तवर्गान् पुष्णाति यत्प्रियचिकीर्षुतया वितन्वन् ।
स्वान्ते सकृच्छ्रमवरुद्धधनः स देहः सृष्ट्वास्य बीजमवसीदति वृक्षधर्मा
॥२६॥जिह्वैकतोऽमुमपकर्षति कर्हि तर्षा शिश्नोऽन्यतस्त्वगुदरं श्रवणं कुतश्चित् ।
घ्राणोऽन्यतश्चपलदृक् क्व च कर्मशक्तिः बह्व्यः सपत्न्य इव गेहपतिं लुनन्ति
॥२७॥सृष्ट्वा पुराणि विविधान्यजयाऽऽत्मशक्त्या वृक्षान् सरीसृप पशून् खगदंशमत्स्यान् ।
तैस्तैरतुष्टहृदयः पुरुषं विधाय ।
ब्रह्मावलोकधिषणं मुदमाप देवः
॥२८॥लब्ध्वा सुदुर्लभमिदं बहुसंभवान्ते मानुष्यमर्थदमनित्यमपीह धीरः ।
तूर्णं यतेत न पतेदनुमृत्यु यावन् निःश्रेयसाय विषयः खलु सर्वतः स्यात्
॥२९॥( अनुष्टुप् ) एवं सञ्जातवैराग्यो विज्ञानालोक आत्मनि ।
विचरामि महीमेतां मुक्तसङ्गोऽनहङ्कृतिः
॥३०॥न ह्येकस्मात् गुरोर्ज्ञानं सुस्थिरं स्यात् सुपुष्कलम् ।
ब्रह्मैतदद्वितीयं वै गीयते बहुधर्षिभिः
॥३१॥श्रीभगवानुवाच
इत्युक्त्वा स यदुं विप्रः तमामन्त्र्य गभीरधीः ।
वन्दितोऽभ्यर्थितो राज्ञा ययौ प्रीतो यथागतम्
॥३२॥अवधूतवचः श्रुत्वा पूर्वेषां नः स पूर्वजः ।
सर्वसङ्गविनिर्मुक्तः समचित्तो बभूव ह
॥३३॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां एकादशस्कन्धे नवमोऽध्यायः ॥ ९ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु