मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

अष्टावक्रगीता — अध्यायः ४

3
अष्टावक्रगीता · अध्यायाः · 4

सम्प्रदायतः अष्टावक्रसम्बद्धम् — अष्टावक्रजनकसंवादः

अष्टावक्र उवाच॥

हन्तात्मज्ञानस्य धीरस्य खेलतो भोगलीलया।

न हि संसारवाहीकैर्मूढैः सह समानता

॥१॥

यत् पदं प्रेप्सवो दीनाः शक्राद्याः सर्वदेवताः।

अहो तत्र स्थितो योगी न हर्षमुपगच्छति

॥२॥

तज्ज्ञस्य पुण्यपापाभ्यां स्पर्शो ह्यन्तर्न जायते।

न ह्याकाशस्य धूमेन दृश्यमानापि सङ्गतिः

॥३॥

आत्मैवेदं जगत्सर्वं ज्ञातं येन महात्मना।

यदृच्छया वर्तमानं तं निषेद्धुं क्षमेत कः

॥४॥

आब्रह्मस्तंबपर्यन्ते भूतग्रामे चतुर्विधे।

विज्ञस्यैव हि सामर्थ्यमिच्छानिच्छाविवर्जने

॥५॥

आत्मानमद्वयं कश्चिज्जानाति जगदीश्वरं।

यद् वेत्ति तत्स कुरुते न भयं तस्य कुत्रचित्

॥६॥