सम्प्रदायतः अष्टावक्रसम्बद्धम् — अष्टावक्रजनकसंवादः
जनक उवाच॥
मय्यनंतमहांभोधौ विश्वपोत इतस्ततः।
भ्रमति स्वांतवातेन न ममास्त्यसहिष्णुता
॥१॥मय्यनंतमहांभोधौ जगद्वीचिः स्वभावतः।
उदेतु वास्तमायातु न मे वृद्धिर्न च क्षतिः
॥२॥मय्यनंतमहांभोधौ विश्वं नाम विकल्पना।
अतिशांतो निराकार एतदेवाहमास्थितः
॥३॥नात्मा भावेषु नो भावस्तत्रानन्ते निरंजने।
इत्यसक्तोऽस्पृहः शान्त एतदेवाहमास्तितः
॥४॥अहो चिन्मात्रमेवाहं इन्द्रजालोपमं जगत्।
इति मम कथं कुत्र हेयोपादेयकल्पना
॥५॥