मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

अष्टावक्रगीता — अध्यायः ९

3
अष्टावक्रगीता · अध्यायाः · 9

सम्प्रदायतः अष्टावक्रसम्बद्धम् — अष्टावक्रजनकसंवादः

अष्टावक्र उवाच॥

कृताकृते च द्वन्द्वानि कदा शान्तानि कस्य वा।

एवं ज्ञात्वेह निर्वेदाद् भव त्यागपरोऽव्रती

॥१॥

कस्यापि तात धन्यस्य लोकचेष्टावलोकनात्।

जीवितेच्छा बुभुक्षा च बुभुत्सोपशमः गताः

॥२॥

अनित्यं सर्वमेवेदं तापत्रयदूषितं।

असरं निन्दितं हेयमिति निश्चित्य शाम्यति

॥३॥

कोऽसौ कालो वयः किं वा यत्र द्वन्द्वानि नो नृणां।

तान्युपेक्ष्य यथाप्राप्तवर्ती सिद्धिमवाप्नुयात्

॥४॥

ना मतं महर्षीणां साधूनां योगिनां तथा।

दृष्ट्वा निर्वेदमापन्नः को न शाम्यति मानवः

॥५॥

कृत्वा मूर्तिपरिज्ञानं चैतन्यस्य न किं गुरुः।

निर्वेदसमतायुक्त्या यस्तारयति संसृतेः

॥६॥

पश्य भूतविकारांस्त्वं भूतमात्रान् यथार्थतः।

तत्क्षणाद् बन्धनिर्मुक्तः स्वरूपस्थो भविष्यसि

॥७॥

वासना एव संसार इति सर्वा विमुंच ताः।

तत्त्यागो वासनात्यागात्स्थितिरद्य यथा तथा

॥८॥