श्रीमद् भागवतस्य वक्तृश्रोतॄणां लक्षणानि, भागवतश्रवणस्य फलं विधिश्च
ऋषयः ऊचुः
साधु सूत चिरं जीव चिरमेवं प्रशाधि नः ।
श्रीभागवमाहात्म्यं अपूर्वं त्वन् मुखाच्छ्रुतम्
॥१॥तत्स्वरूपं प्रमाणं च विधिं च श्रवणे वद ।
तद्वक्तुर्लक्षणं सूत श्रोतुश्चापि वदाधुना
॥२॥सूत उवाच
श्रीमद् भागवतस्याथ श्रीमद्भगवतः सदा ।
स्वरूपमेकमेवास्ति सच्चिदानन्दलक्षणम्
॥३॥श्रीकृष्णासक्तभक्तानां तन्माधुर्यप्रकाशकम् ।
समुज्जृम्भति यद्वाक्यं विद्धि भागवतं हि तत्
॥४॥ज्ञानविज्ञान भक्त्यङ्ग चतुष्टयपरं वचः ।
मायामर्दनदक्षं च विद्धि भागवतं च तत्
॥५॥प्रमाणं तस्य को वेद ह्यनन्तस्याक्षरात्मनः ।
ब्रह्मणे हरिणा तद्दिक् चतुःश्लोक्या प्रदर्शिता
॥६॥तदानन्त्यावगाहेन स्वेप्सितावहनक्षमाः ।
ते एव सन्ति भो विप्रा ब्रह्मविष्णुशिवादयः
॥७॥मितबुद्ध्यादिवृत्तीनां मनुष्याणां हिताय च ।
परीक्षिच्छुकसंवादो योऽसौ व्यासेन कीर्तितः
॥८॥ग्रन्थोऽष्टादशसाहस्रो योऽसौ भागवताभिधः ।
कलिग्राहगृहीतानां स एव परमाश्रयः
॥९॥श्रोतारोऽथ निरूप्यन्ते श्रीमद् विष्णुकथाश्रयाः ।
प्रवरा अवराश्चेति श्रोतारो द्विविधा पताः
॥१०॥प्रवराश्चातको हंसः शुको मीनादयस्तथा ।
अवरा वृकभूरुण्डवृषोष्ट्राद्याः प्रकीर्तिताः
॥११॥अखिलोपेक्षया यस्तु कृष्णशास्त्रश्रुतौ व्रती ।
सः चातको यथाम्भोदमुक्ते पाथसि चातकः
॥१२॥हंसः स्यात् सारमादत्ते यः श्रोता विविधाच्छ्रुतात् ।
दुग्धेनैक्यं गतात्तोयाद् यथा हंसोऽमलं पयः
॥१३॥शुकः सुष्ठु मितं वक्ति व्यासम् श्रोतॄंश्च हर्षयन् ।
सुपाठितः शुको यद्वत् शिक्षकं पार्श्वगानपि
॥१४॥शब्दं नानिमिषो जातु करोत्यास्वादयन् रसम् ।
श्रोता स्निग्धो भवेन्मीनो मीनः क्षीरनिधौ यथा
॥१५॥यस्तुदन् रसिकान् श्रोतॄन् व्रौत्यज्ञो वृको हि सः ।
वेणुस्वनरसासक्तान् वृकोऽरण्ये मृगान् हथा
॥१६॥भूरुण्डः शिक्षयेदन्यात् श्रुत्वा न स्वयमाचरेत् ।
यथा हिमवतः श्रृंगे भूरुण्डाखो विहंगमः
॥१७॥सर्वं श्रुतमुपादत्ते सारासारान्धधीर्वृषः ।
स्वादुद्राक्षां खलिं चापि निर्विशेषं यथा वृषः
॥१८॥स उष्ट्रो मधुरं मुञ्चन् विपरीते रमेत यः ।
यथा निम्बं चरत्युष्ट्रो हित्वाम्रमपि तद्युतम्
॥१९॥अन्येऽपि बहवो भेदा द्वयोर्भृङ्गखरादयः ।
विज्ञेयास्तत्तदाचारैः तत्तत्प्रकृतिसम्भवैः
॥२०॥यः स्थित्वाभिमुखं प्रणम्य विधिवत् त्यक्तान्यवादो हरेः ।
लीलाः श्रोतुमभीप्सतेऽतिनिपुणो नम्रोऽथ कॢपाञ्जलिः ।
शिष्यो विश्वसितोऽनुचिन्तनपरः प्रश्नेऽनुरक्तः शुचिः ।
नित्यं कृष्णजनप्रियो निगदितः श्रोता स वै वक्तृभिः
॥२१॥भावगन्मतिरनपेक्षः सुहृदो दीनेषु स्मानुकम्पो यः ।
बहुधा बोधनचतुरो वक्ता सम्मानितो मुनिभिः
॥२२॥अथ भारतभृस्थाने श्रीभागवतसेवने ।
विधिं श्रृणुत भो विप्रा येन स्यात् सुखसन्ततिः
॥२३॥राजसं सत्त्विकं चापि तामसं निर्गुणं तथा ।
चतुर्विधं तु विज्ञेयं श्रीभागवतसेवनम्
॥२४॥सप्ताहं यज्ञवद् यत्तु सश्रमं सत्वरं मुदा ।
सेवितं राजसं तत्तु बहुपूजादिशोभनम्
॥२५॥मासेन ऋतुना वापि श्रवणं स्वादसंयुतम् ।
सात्त्विकं यदनायासं समस्तानन्दवर्धनम्
॥२६॥तामसं यत्तु वर्षेण सालसं श्रद्धया युतम् ।
विस्मृतिस्मृतिसंयुक्तं सेवनं तच्च सौख्यदम्
॥२७॥वर्षमासदिनानां तु विमुच्य नियमाग्रहम् ।
सर्वदा प्रेमभक्त्यैव सेवनं निर्गुणं मतम्
॥२८॥पारीक्षितेऽपि संवादे निर्गुणं तत् प्रकीर्तितम् ।
तत्र सप्तदिनाख्यानं तदायुर्दिनसंखय्या
॥२९॥अन्यत्र त्रिगुणं चापि निर्गुणं च यथेच्छया यथा कथञ्चित् कर्तव्यं सेवनं भगवच्छ्रुतेः
॥३०॥ये श्रीकृष्णविहारैक भजनास्वादलोलुपाः ।
मुक्तावपि निराकाङ्क्षाः तेषां भागवतं धनम्
॥३१॥येऽपि संसारसन्तापनिर्विण्णा मोक्षकाङ्क्षिणः ।
तेषां भवौषधं चैतत् कलौ सेव्यं प्रयत्नतः
॥३२॥ये चापि विषयारामाः सांसारिकसुखस्पृहाः ।
तेषां तु कर्म मार्गेण या सिद्धिः साधुना कलौ
॥३३॥सामर्थ्यधनविज्ञानाभावादत्यन्तदुर्लभा ।
तस्मात्तैरपि संसेव्या श्रीमद्भागवती कथा
॥३४॥धनं पुत्रांस्तथा दारान् वाहनादि यशो गृहान् ।
असापत्न्यं च राज्यं च दद्यात् भागवती कथा
॥३५॥इह लोके वरान् भुक्त्वा भोगान् वै मनसेप्सितान् ।
श्रीभागवतसंगेन यात्यन्ते श्रीहरेः पदम्
॥३६॥यत्र भागवती वार्ता ये च तच्छ्रवणे रताः ।
तेषां संसेवनं कुर्याद् देहेन च धनेन च
॥३७॥तदनुग्रहतोऽस्यापि श्रीभागवतसेवनम् ।
श्रीकृष्णव्यतिरिक्तं यत्तत् सर्वं धनसंज्ञितम्
॥३८॥कृष्णार्थीति धनार्थीति श्रोता वक्ता द्विधा मतः ।
यथा वक्ता तथा श्रोता तत्र सौख्यं विवर्धते
॥३९॥उभयोर्वैपरीत्ये तु रसाभासे फलच्युतिः ।
किन्तु कृष्णार्थिनां सिद्धिः विलम्बेनापि जायते
॥४०॥धनार्थिनस्तु संसिद्धिः विधिसंपूर्णतावशात् ।
कृष्णार्थिनोऽगुणस्यापि प्रेमैव विधिरुत्तमः
॥४१॥आसमाप्ति सकामेन कर्त्तव्यो हि विधिः स्वयम् ।
स्नातो नित्यक्रियां कृत्वा प्राश्य पादोदकं हरेः
॥४२॥पुस्तकं च गुरुं चैव पूजयित्वोपचारतः ।
ब्रूयाद् वा श्रृणुयाद् वापि श्रीमद्भागवतं मुदा
॥४३॥पयसा वा हविषेण मौनं भोजमाचरेत् ।
ब्रह्मचर्यमधःसुप्तिं क्रोधलोभादिवर्जनम्
॥४४॥कथान्ते कीर्तनं नित्यं समाप्तौ जागरं चरेत् ।
ब्रह्मणान् भोजयित्वा तु दक्षिणाभिः प्रतोषयेत्
॥४५॥गुरवे वस्त्रभूषादि दत्त्वा गां च समर्पयेत् ।
एवं कृते विधाने तु लभते वाञ्छितं फलम्
॥४६॥दारागारसुतान् राज्यं धनादि च यदीप्सितम् ।
परंतु शोभते नात्र सकामत्वं विडम्बनम्
॥४७॥कृष्णप्राप्तिकरं शश्वत् प्रेमानन्दफलप्रदम् ।
श्रीमद्भागवतं शास्त्रं कलौ कीरेण भाषितम्
॥४८॥इति श्रीस्कान्दे महापुराण् एकशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीमद् भागवतमाहात्म्ये भागवत श्रोतृवक्तृ लक्षणविधिनिरूपणं नाम चतुर्थोऽध्यायः ॥ ४ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु