मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — श्रीस्कान्दे माहात्म्यम्, अध्याय १

3
श्रीस्कान्दे माहात्म्यम् · 1

व्रजभूमिमाहात्म्यवर्णनम्

श्रीसच्चिदानन्दघन स्वरूपिणे कृष्णाय चानन्तसुखाभिवर्षिणे ।

विश्वोद्भवस्थाननिरोधहेतवे नुमो नु वयं भक्तिरसाप्तयेऽनिशम्

॥१॥

नैमिषे सूतमासीनं अभिवाद्य महामतिम् ।

कथामृतरसास्वाद कुशला ऋषयोऽब्रुवन्

॥२॥

ऋषयः ऊचुः

वज्रं श्रीमाथुरे देशे स्वपौत्रं हस्तिनापुरे ।

अभिषिच्य गते राज्ञि तौ कथं किंच चक्रतुः

॥३॥

सूत उवाच

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।

देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्

॥४॥

महापथं गते राज्ञि परीक्षित् पृथिवीपतिः ।

जगाम मथुरां विप्रा वज्रनाभदिदृक्षया

॥५॥

पितृव्यमागतं ज्ञात्वा वज्रः प्रेमपरिप्लुतः ।

अभिगम्याभिवाद्याथ निनाय निजमन्दिरम्

॥६॥

परिष्वज्य स तं वीरः कृष्णैकगतमानसः ।

रोहिण्याद्या हरेः पत्नीः ववन्दायतनागतः

॥७॥

ताभिः संमानितोऽत्यर्थं परीक्षित् पृथिवीपतिः ।

विश्रान्तः सुखमासीनो वज्रनाभमुवाच ह

॥८॥

परीक्षिदुवाच

तात त्वत्पितृभिः नूनं अस्मत् पितृपितामहाः ।

उद्धृता भूरिदुःखौघादहं च परिरक्षितः

॥९॥

न पारयाम्यहं तात साधु कृत्वोपकारतः ।

त्वामतः प्रार्थयाम्यङ्ग सुखं राज्येऽनुयुज्यताम्

॥१०॥

कोशसैन्यादिजा चिन्ता तथारिदमनादिजा ।

मनागपि न कार्या ए सुसेव्याः किन्तु मातरः

॥११॥

निवेद्य मयि कर्तव्यं सर्वाधिपरिवर्जनम् ।

श्रुत्वैतत् परमप्रीतो वज्रस्तं प्रत्युवाच ह

॥१२॥

वज्रनाभ उवाच

राज उचितमेतत्ते यदस्मासु प्रभाषसे ।

त्वत्पित्रोपकृतश्चाहं धनुर्विद्याप्रदानतः

॥१३॥

तस्मात् नाल्पापि मे चिन्ता क्षात्रं दृढमुपेयुषः ।

किन्त्वेका परमा चिन्ता तत्र किञ्चिद् विचार्यताम्

॥१४॥

माथुरे त्वभिषिक्तोऽपि स्थितोऽहं निर्जने वने ।

क्व गता वै प्रजात्रत्या अत्र राज्यं प्ररोचते

॥१५॥

इत्युक्तो विष्णुरातस्तु नदादीनां पुरोहितम् ।

शाण्डिल्यमाजुहावाशु वज्रसन्देहमुत्तये

॥१६॥

अथोटजं विहायाशु शाण्डिल्यः समुपागतः ।

पूजितो वज्रनाभेन निषसादासनोत्तमे

॥१७॥

उपोद्घातं विष्णुरातः चकाराशु ततस्त्वसौ ।

उवाच परमप्रीतस्तावुभौ परिसान्त्वयन्

॥१८॥

शाण्डिल्य उवाच

श्रृणुतं दत्तचित्तौ मे रहस्यं व्रजभूमिजम् ।

व्रजनं व्याप्तिरित्युक्त्या व्यापनाद् व्रज उच्यते

॥१९॥

गुणातीतं परं ब्रह्म व्यापकं व्रज उच्यते ।

सदानन्दं परं ज्योतिः मुक्तानां पदमव्ययम्

॥२०॥

तस्मिन् नन्दात्मजः कृष्णः सदानन्दाङ्गविग्रहः ।

आत्मारामस्चाप्तकामः प्रेमाक्तैरनुभूयते

॥२१॥

आत्मा तु राधिका तस्य तयैव रमणादसौ ।

आत्मारामतया प्राज्ञैः प्रोच्यते बूढवेदिभिः

॥२२॥

कामास्तु वाञ्छितास्तस्य गावो गोपाश्च गोपिकाः ।

नित्यां सर्वे विहाराद्या आप्तकामस्ततस्त्वयम्

॥२३॥

रहस्यं त्विदमेतस्य प्रकृतेः परमुच्यते ।

प्रकृत्या खेलतस्तस्य लीलान्यैरनुभूयते

॥२४॥

सर्गस्थित्यप्यया जत्र रजःसत्त्वतमोगुणैः ।

लीलैवं द्विविधा तस्य वास्तवी व्यावहारिकी

॥२५॥

वास्तवी तत्स्वसंवेद्या जीवानां व्यावहारिकी ।

आद्यां विना द्वितीया न द्वितीया नाद्यगा क्वचित्

॥२६॥

युवयोः गोचरेयं तु तल्लीला व्यावहारिकी ।

यत्र भूरादयो लोका भुवि माथुरमण्डलम्

॥२७॥

अत्रैव व्रजभूमिः सा यत्र तत्वं सुगोपितम् ।

भासते प्रेमपूर्णानां कदाचिदपि सर्वतः

॥२८॥

कदाचित् द्वापरस्यान्ते रहोलीलाधिकारिणः ।

समवेता यदात्र स्युः यथेदानीं तदा हरिः

॥२९॥

स्वैः सहावतरेत् स्वेषु समावेशार्थमीप्सिताः ।

तदा देवादयोऽप्यन्ये ऽवरन्ति समन्ततः

॥३०॥

सर्वेषां वाञ्छितं कृत्वा हरिरन्तर्हितोऽभवत् ।

तेनात्र त्रिविधा लोकाः स्थिताः पूर्वं न संशयः

॥३१॥

नित्यास्तल्लिप्सवश्चैव देवाद्याश्चेति भेदतः ।

देवाद्यास्तेषु कृष्णेन द्वारिकां प्रापिताः पुरा

॥३२॥

पुनर्मौसलमार्गेण स्वाधिकारेषु चापिताः ।

तल्लिप्सूंश्च सदा कृष्णः प्रेमानन्दैकरूपिणः

॥३३॥

विधाय स्वीयनित्येषु समावेशितवांस्तदा ।

नित्याः सर्वेऽप्ययोग्येषु दर्शनाभावतां गताः

॥३४॥

व्यावकारिकलीलास्थाः तत्र यन्नाधिकारिणः ।

पश्यन्त्यत्रागतास्तत्मात् निर्जनत्वं समन्ततः

॥३५॥

तस्माच्चिन्ता न ते कार्या वज्रनाभ मदाज्ञया ।

वासयात्र बहून् ग्रामान् संसिद्धिस्ते भविष्यति

॥३६॥

कृष्णलीलानुसारेण कृत्वा नामानि सर्वतः ।

त्वया वासयता ग्रामान् संसेव्या भूरियं परा

॥३७॥

गोवर्द्धने दीर्घपुरे मथुरायां महावने ।

नन्दिग्रामे बृहत्सानौ कार्या राज्यस्थितिस्त्वया

॥३८॥

नद्यद्रिद्रोणिकुण्डादि कुञ्जान् संसेवतस्तव ।

राज्ये प्रजाः सुसम्पन्नास्त्वं च प्रीतो भविष्यसि

॥३९॥

सच्चिदानन्दभूरेषा त्वया सेव्या प्रयत्नतः ।

तव कृष्णस्थलान्यत्र स्फुरन्तु मदनुग्रहात्

॥४०॥

वज्र संसेवनादस्य उद्धवस्त्वां मिलिष्यति ।

ततो रहस्यमेतस्मात् प्राप्स्यसि त्वं समातृकः

॥४१॥

एवमुक्त्वा तु शाण्डिल्यो गतः कृष्णमनुस्मरन् ।

विष्णूरातोऽथ वज्रश्च परां प्रीत्तिमवापतुः

॥४२॥

इति श्रीस्कान्दे महापुराण् एकशीतिसाहस्र्यां संहितायां द्वितीये वैष्णवखण्डे श्रीमद् भागवतमाहात्म्ये शाण्डील्योपदिष्ट व्रजभूमिमाहात्म्यवर्णनं नाम प्रथोमोऽध्यायः ॥ १ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु