मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — माहात्म्यम् (पाद्मे), अध्याय ६

3
माहात्म्यम् (पाद्मे) · 6

श्रवणविधिकथनम्

श्रीमद्भागवतमाहात्म्यम् - षष्ठोऽध्यायः श्रीमद्भागवत सप्ताहपारायणविधिः कुमारा ऊचुः ।

(अनुष्टुप्) अथ ते संप्रवक्ष्यामः सप्ताहश्रवणे विधिम् ।

सहायैर्वसुभिश्चैव प्रायः साध्यो विधिः स्मृतः

॥१॥

दैवज्ञं तु समाहूय मुहूर्तं पृच्छ्य यत्नतः ।

विवाहे यादृशं वित्तं तादृशं परिकल्पयेत्

॥२॥

नभस्य आश्विनोर्जौ च मार्गशीर्षः शुचिर्नभाः ।

एते मासाः कथारम्भे श्रोतॄणां मोक्षसूचकाः

॥३॥

मासानां विप्र हेयानि तानि त्याज्यानि सर्वथा ।

सहायाश्चेतरे तत्र कर्तव्याः सोद्यमाश्च ये

॥४॥

देशे देशे तथा सेयं वार्ता प्रेष्या प्रयत्नतः ।

भविष्यति कथा चात्र आगन्तव्यं कुटुम्बिभिः

॥५॥

दूरे हरिकथाः केचित् दूरे चाच्युतकीर्तनाः ।

स्त्रियः शूद्रादयो ये च तेषां बोधो यतो भवेत्

॥६॥

देशे देशे विरक्ता ये वैष्णवाः कीर्तनोत्सुकाः ।

तेष्वेव पत्रं प्रेष्यं च तल्लेखनं इतीरितम्

॥७॥

सतां समाजो भविता सप्तरात्रं सुदुर्लभः ।

अपूर्वरसरूपैव कथा चात्र भविष्यति

॥८॥

श्रीमद्भागवत पीयुष पानाय रसलम्पटाः ।

भवन्तश्च तथा शीघ्रं आयात प्रेमतत्पराः

॥९॥

नावकाशः कदाचित् चेत् दिनमात्रं तथापि तु ।

सर्वथाऽऽगमनं कार्यं क्षणोऽत्रैव सुदुर्लभः

॥१०॥

एवमाकारणं तेषां कर्तव्यं विनयेन च ।

आगन्तुकानां सर्वेषां वासस्थानानि कल्पयेत्

॥११॥

तीर्थे वापि वने वापि गृहे वा श्रवणं मतम् ।

विशाला वसुधा यत्र कर्तव्यं तत्कथास्थलम्

॥१२॥

शोधनं मार्जनं भूमेः लेपनं धातुमण्डनम् ।

गृहोपस्करमुद्ध्रुत्य गृहकोणे निवेशयेत्

॥१३॥

अर्वाक् पंचाहतो यत्नात् आस्तीर्णानि प्रमेलयेत् ।

कर्तव्यो मण्डपः प्रोच्चैः कदलीखण्डमण्डितः

॥१४॥

फलपुष्पदलैर्विष्वक् वितानेन विराजितः ।

चतुर्दिक्षु ध्वजारोपो बहुसम्पद्विराजितः

॥१५॥

ऊर्ध्वं सप्तैव लोकाश्च कल्पनीयाः सविस्तरम् ।

तेषु विप्रा विरक्ताश्च स्थापनीयाः प्रबोध्य च

॥१६॥

पूर्वं तेषां आसनानि कर्तव्यानि यथोत्तरम् ।

वक्तुश्चापि तदा दिव्यं आसनं परिकल्पयेत्

॥१७॥

उदङ्मुखो भवेद्वक्ता श्रोता वै प्राङ्मुखस्तदा ।

प्राङ्मुखश्चेत् भवेद्वक्ता श्रोता च उदङ्मुखस्तदा

॥१८॥

अथवा पूर्वदिग्ज्ञेया पूज्यपूजकमध्यतः ।

श्रोतॄणां आगमे प्रोक्ता देशकालादिकोविदैः

॥१९॥

विरक्तो वैष्णवो विप्रो वेदशास्त्रविशुद्धिकृत् ।

दृष्टान्तकुशलो धीरो वक्ता कार्योऽति निःस्पृह

॥२०॥

अनेकधर्मनिभ्रान्ताः स्त्रैणाः पाखण्डवादिनः ।

शुकशास्त्रकथोच्चारे त्याज्यास्ते यदि पण्डिताः

॥२१॥

वक्तुः पार्श्वे सहायार्थं अन्यः स्थाप्यस्तथाविधः ।

पण्डितः संशयच्छेत्ता लोकबोधनतत्परः

॥२२॥

वक्त्रा क्षौरं प्रकर्तव्यं दिनाद् अर्वाक् व्रताप्तये ।

अरुणोदयेऽसौ निर्वर्त्य शौचं स्नानं समाचरेत्

॥२३॥

नित्यं संक्षेपतः कृत्वा संध्याद्यं स्वं प्रयत्नतः ।

कथाविघ्नविघाताय गणनाथं प्रपूजयेत्

॥२४॥

पितॄन् संतर्प्य शुद्ध्यर्थं प्रायश्चित्तं समाचरेत् ।

मण्डलं च प्रकर्तव्यं तत्र स्थाप्यो हरिस्तथा

॥२५॥

कृष्णमुद्दिश्य मंत्रेण चरेत् पूजाविधिं क्रमात् ।

प्रदक्षिण नमस्कारान् पूजान्ते स्तुतिमाचरेत्

॥२६॥

संसारसागरे मग्नं दीनं मां करुणानिधे ।

कर्ममोहगृहीताङ्गं मामुद्धर भवार्णवात्

॥२७॥

श्रीमद्भागवतस्यापि ततः पूजा प्रयत्नतः ।

कर्तव्या विधिना प्रीत्या धूपदीपसमन्विता

॥२८॥

ततस्तु श्रीफलं धृत्वा नमस्कारं समाचरेत् ।

स्तुतिः प्रसन्नचित्तेन कर्तव्या केवलं तदा

॥२९॥

श्रीमद्भागवताख्योऽयं प्रत्यक्षः कृष्ण एव हि ।

स्वीकृतोऽसि मया नाथ मुक्त्यर्थं भवसागरे

॥३०॥

मनोरथो मदीयोऽयं सफलः सर्वथा त्वया ।

निर्विघ्नेनैव कर्तव्य दासोऽहं तव केशव

॥३१॥

एवं दीनवचः प्रोच्य वक्तारं चाथ पूजयेत् ।

सम्भूष्य वस्त्रभूषाभिः पूजान्ते तं च संस्तवेत्

॥३२॥

शुकरूप प्रबोधज्ञ सर्वशास्त्रविशारद ।

एतत्कथाप्रकाशेन मदज्ञानं विनाशय

॥३३॥

तदग्रे नियमः पश्चात् कर्तव्यः श्रेयसे मुदा ।

सप्तरात्रं यथाशक्त्या धारणीयः स एव हि

॥३४॥

वरणं पंचविप्राणां कथाभङ्गनिवृत्तये ।

कर्तव्यं तैः हरेर्जाप्यं द्वादशाक्षरविद्यया

॥३५॥

ब्राह्मणान् वैष्णवान् चान्यान् तथा कीर्तनकारिणः ।

नत्वा संपूज्य दत्ताज्ञः स्वयं आसनमाविशेत्

॥३६॥

लोकवित्तधनागार पुत्रचिन्तां व्युदस्य च ।

कथाचित्तः शुद्धमतिः स लभेत्फलमुत्तमम्

॥३७॥

आसूर्योदयमारभ्य सार्धत्रिप्रहरान्तकम् ।

वाचनीया कथा सम्यक् धीरकण्ठं सुधीमता

॥३८॥

कथाविरामः कर्तव्यो मध्याह्ने घटिकाद्वयं ।

तत्कथामनु कार्यं वै कीर्तनं वैष्णवैस्तदा

॥३९॥

मलमूत्रजयार्थं हि लघ्वाहारः सुखावहः ।

हविष्यान्नेन कर्तव्यो हि, एकवारं कथार्थिना

॥४०॥

उपोष्य सप्तरात्रं वै शक्तिश्चेत् श्रुणुयात् तदा ।

घृतपानं पयःपानं कृत्वा वै श्रृणुयात् सुखम्

॥४१॥

फलाहारेण वा भाव्यं एकभुक्तेन वा पुनः ।

सुखसाध्यं भवेद् यत्तु कर्तव्यं श्रवणाय तत्

॥४२॥

भोजनं तु वरं मन्ये कथाश्रवणकारकम् ।

नोपवासो वरः प्रोक्तः कथाविघ्नकरो यदि

॥४३॥

सप्ताहव्रतिनां पुंसां नियमान् श्रुणु नारद ।

विष्णुदीक्षाविहीनानां नाधिकारः कथाश्रवे

॥४४॥

ब्रह्मचर्यमधः सुप्तिः पत्रावल्यां च भोजनम् ।

कथासमाप्तौ भुक्तिं च कुर्यात् नित्यं कथाव्रती

॥४५॥

द्विदलं मधु तैलं च गरिष्ठान्नं तथैव च ।

भावदुष्टं पर्युषितं जह्यात् नित्यं कथाव्रती

॥४६॥

कामं क्रोधं मदं मानं मत्सरं लोभमेव च ।

दम्भ मोहं तथा द्वेषं दूरयेच्च कथाव्रती

॥४७॥

वेदवैष्णवविप्राणां गुरुगोव्रतिनां तथा ।

स्त्रीराजमहतां निन्दां वर्जयेत् यः कथाव्रती

॥४८॥

रजस्वला अन्त्यज म्लेच्छ पतित व्रात्यकैस्तथा ।

द्विजद्विड् वेदबाह्यैश्च न वदेत् यः कथाव्रती

॥४९॥

सत्यं शौचं दयां मौनं आर्जवं विनयं तथा ।

उदारमानसं तद्वत् एवं कुर्यात् कथाव्रती

॥५०॥

दरिद्रश्च क्षयी रोगी निर्भाग्यः पापकर्मवान् ।

अनपत्यो मोक्षकामः श्रुणुयाच्च कथामिमाम्

॥५१॥

अपुष्पा काकवन्ध्या च वन्ध्या या च मृतार्भका ।

स्रवत् गर्भा च या नारी तया श्राव्या प्रयत्नतः

॥५२॥

एतेषु विधिना श्रावे तदक्षयतरं भवेत् ।

अत्युत्तमा कथा दिव्या कोटियज्ञफलप्रदा

॥५३॥

एवं कृत्वा व्रतविधिं उद्यापनं अथाचरेत् ।

जन्माष्टमी व्रतमिव कर्तव्यं फलकांक्षिभिः

॥५४॥

अकिंचनेषु भक्तेषु प्रायो नोद्यापनाग्रहः ।

श्रवणेनैव पूतास्ते निष्कामा वैष्णवा यतः

॥५५॥

एवं नगाहयज्ञेऽस्मिन् समाप्ते श्रोतृभिस्तदा ।

पुस्तकस्य च वक्तुश्च पूजा कार्यातिभक्तितः

॥५६॥

प्रसादतुलसीमाला श्रोतृभ्यश्चाथ दीयताम् ।

मृदंगतालललितं कर्तव्यं कीर्तनं ततः

॥५७॥

जयशब्दं नमःशब्दं शंखशब्दं च कारयेत् ।

विप्रेभ्यो याचकेभ्यश्च वित्तं अन्नं च दीयताम्

॥५८॥

विरक्तश्चेत् भवेत् श्रोता गीता वाद्या परेऽहनि ।

गृहस्थश्चेत् तदा होमः कर्तव्यः कर्मशान्तये

॥५९॥

प्रतिश्लोकं तु जुहुयात् विधिना दशमस्य च ।

पायसं मधु सर्पिश्च तिलान् आदिकसंयुतम्

॥६०॥

अथवा हवनं कुर्याद् गायत्र्या सुसमाहितः ।

तन्मयत्वात् पुराणस्य परमस्य च तत्त्वतः

॥६१॥

होमाशक्तौ बुधो हौम्यं दद्यात् तत्फल सिद्धये ।

नानाच्छिद्रनिरोधार्थं न्यूनताधिकतानयोः

॥६२॥

दोषयोः प्रशमार्थं च पठेत् नामसहस्रकम् ।

तेन स्यात् सफलं सर्वं नास्त्यस्मादधिकं यतः

॥६३॥

द्वादश ब्राह्मणान् पश्चात् भोजयेत् मधुपायसैः ।

दद्यात् सुवर्णं धेनुं च व्रतपूर्णत्वहेतवे

॥६४॥

शक्तौ पलत्रयमितं स्वर्णसिंहं विधाय च ।

तत्रास्य पुस्तकं स्थाप्यं लिखितं ललिताक्षरम्

॥६५॥

संपूज्य आवाहनाद्यैः तद् उपचारैः सदक्षिणम् ।

वस्त्रभूषण गन्धाद्यैः पूजिताय यतात्मने

॥६६॥

आचार्याय सुधीर्दत्त्वा मुक्तः स्याद् भवबंधनैः ।

एवं कृते विधाने च सर्वपापनिवारणे

॥६७॥

फलदं स्यात् पुराणं तु श्रीमद्भागवतं शुभम् ।

धर्मकामार्थमोक्षाणां साधनं स्यात् न संशयः

॥६८॥

कुमारा ऊचुः

इति ते कथितं सर्वं किं भूयः श्रोतुमिच्छसि ।

श्रीमद्भागवतेनैव भुक्तिमुक्ति करे स्थिते

॥६९॥

सूत उवाच

इत्युक्त्वा ते महात्मानः प्रोचुर्भागवतीं कथाम् ।

सर्वपापहरां पुण्यां भुक्तिमुक्तिप्रदायिनीम्

॥७०॥

श्रृण्वतां सर्वभूतानां सप्ताहं नियतात्मनाम् ।

यथाविधि ततो देवं तुष्टुवुः पुरुषोत्तमम्

॥७१॥

तदन्ते ज्ञानवैराग्य-भक्तीनां पुष्टता परा ।

तारुण्यं परमं चाभूत् सर्वभूतमनोहरम्

॥७२॥

नारदश्च कृतार्थोऽभूत् सिद्धे स्वीये मनोरथे ।

पुलकीकृतसर्वाङ्ग परमानन्दसम्भृतः

॥७३॥

एवं कथां समाकर्ण्य नारदो भगवत्प्रियः ।

प्रेमगद्गदया वाचा तानुवाच कृताञलिः

॥७४॥

नारद उवाच

धन्योस्मि अनुगृहितोऽस्मि भवद्भिः करुणापरैः ।

अद्य मे भगवान् लब्धः सर्वपापहरो हरिः

॥७५॥

श्रवणं सर्वधर्मेभ्यो वरं मन्ये तपोधनाः ।

वैकुण्ठस्थो यतः कृष्णः श्रवणाद् यस्य लभ्यते

॥७६॥

सूत उवाच

एवं ब्रुवति वै तत्र नारदे वैष्णवोत्तमे ।

परिभ्रमन् समायातः शुको योगेश्वरास्तदा

॥७७॥

(वंशस्थ) तत्राययौ षोडशवार्षिकस्तदा व्यासात्मजो ज्ञानमहाब्धिचन्द्रमाः ।

कथावसाने निजलाभपूर्णः प्रेम्णा पठन् भागवतं शनैः शनैः

॥७८॥

(इंद्रवंशा) दृष्ट्वा सदस्याः परमोरुतेजसं सद्यः समुत्थाय ददुर्महासनम् ।

प्रीत्या सुरर्षिस्तमपूजयत् सुखं स्थितोऽवदत् संश्रृणुतामलां गिरम्

॥७९॥

श्रीशुक उवाच

(द्रुतविलंबित) निगमकल्पतरोर्गलितं फलं शुकमुखात् अमृतद्रवसंयुतम् ।

पिबत भागवतं रसमालयं मुहुरको रसिका भुवि भावुकाः

॥८०॥

(शार्दूलविक्रीडित) धर्मप्रोज्झितकैतवोऽत्र परमो निर्मत्सराणां सतां वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनम् ।

श्रीमद्भागवते महामुनिकृते किं वा परैरीश्वरः सद्यो हृद्यवरुध्यतेऽत्र कृतिभिः शुश्रूषुभिस्तत्क्षणात्

॥८१॥

श्रीमद्भागवतं पुराणतिलकं यद्वैष्णवानां धनं यस्मिन् पारमहंस्यमेवममलं ज्ञानं परं गीयते ।

यत्र ज्ञानविरागभक्तिसहितं नैष्कर्म्यमाविष्कृतं तत् श्रुण्वन् प्रपठन् विचारणपरो भक्त्या विमुच्येन्नरः

॥८२॥

(अनुष्टुप्) स्वर्गे सत्ये च कैलासे वैकुण्ठे नास्त्ययं रसः ।

अतः पिबन्तु सद्भाग्या मा मा मुञ्चत कर्हिचित्

॥८३॥

सूत उवाच

(इंद्रवंशा) एवं ब्रुवाणे सति बादरायणौ मध्ये सभायां हरिराविरासीत् ।

प्रह्रादबल्युद्धवफाल्गुनादिभिः वृत्तं सुरर्षिस्तमपूजयच्च तान्

॥८४॥

दृष्ट्वा प्रसन्नं महदासने हरिं ते चक्रिरे कीर्तनमग्रतस्तदा ।

भवो भवान्या कमलासनस्तु तत्रागमत् कीर्तनदर्शनाय

॥८५॥

(स्रग्धरा) प्रह्रादस्तालधारी तरलगतितया चोद्धवः कांस्यधारी वीणाधारी सुरर्षि स्वरकुशलतया रागकर्तार्जुनोऽभूत् ।

इन्द्रोऽवादीन्मृदङ्गं जय जय सुकराः कीर्तने ते कुमारा यत्राग्रे भववक्ता सरसरचनया व्यासपुत्रो बभूव

॥८६॥

(उपेंद्रवज्रा) ननर्त मध्ये त्रिकमेव तत्र भक्त्यादिकानां नटवत्सुतेजसाम् ।

अलौलिकं कीर्तनमेतदीक्ष्य हरिः प्रसन्नोऽपि वचोऽब्रवीत् तत्

॥८७॥

(इंद्रवज्रा) मत्तो वरं भाववृताद्वृणुध्वं प्रीतः कथाकीर्तनतोऽस्मि साम्प्रतम् ।

श्रुत्वेति तद्वाक्यमतिप्रसन्नाः प्रेमार्द्रचित्ता हरिमूचिरे ते

॥८८॥

(उपेंद्रवज्रा) नगाहगाथासु च सर्वभक्तैः एभिस्त्वया भाव्यमिति प्रयत्नात् ।

मनोरथोऽयं परिपूरनीयः तथेति चोक्त्वान्तरधीयताच्युतः

॥८९॥

(वंशस्थ) ततोऽनमत्तत् चरणेषु नारदः तथा शुकादीनपि तापसांश्च ।

अथ प्रहृष्टाः परिनष्टमोहाः सर्व ययुः पीतकथामृतास्ते

॥९०॥

(इंद्रवज्रा) भक्तिः सुताभ्यां सह रक्षिता सा शास्त्रे स्वकीयेऽपि तदा शुकेन ।

अतो हरिर्भागवतस्य सेवनात् चित्तं समायाति हि वैष्णवानाम्

॥९१॥

दारिद्र्यदुःखज्वरदाहितानां मायापिशाचीपरिमर्दितानाम् संसारसिन्धौ परिपातितानां क्षेमाय वै भागवतं प्रगर्जति

॥९२॥

शौनक उवाच

(अनुष्टुप्) शुकेनोक्तं कदा राज्ञे गोकर्णेन कदा पुनः ।

सुरर्षये कदा ब्राह्मैः छिन्धि मे संशयं त्विमम्

॥९३॥

सूत उवाच

आकृष्णनिर्गमात् त्रिंशत् वर्षाधिकगते कलौ ।

नवमीतो नभस्ये च कथारंभं शुकोऽकरोत्

॥९४॥

परीक्षित् श्रवणान्ते च कलौ वर्षशतद्वये ।

शुद्धे शुचौ नवम्यां च धेनुजोऽकथयत्कथाम्

॥९५॥

तस्मादपि कलौ प्राप्ते त्रिंशत् वर्षगते सति ।

ऊचुरूर्जे सिते पक्षे नवम्यां ब्रह्मणः सुताः

॥९६॥

इत्येत्तते समाख्यातं यत्पृष्टोऽहं त्वयानघ ।

कलौ भागवती वार्ता भवरोगविनाशिनी

॥९७॥

(वसंततिलका) कृष्णप्रियं सकलकल्मषनाशनं च मुक्त्येकहेतुमिह भक्तिविलासकारि सन्तः कथानकमिदं पिबतादरेण लोके हि तीर्थपरिशीलनसेवया किम्

॥९८॥

(अपरवक्त्र) स्वपुरुषमपि वीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले ।

परिहर भगवत्कथासु मत्तान् प्रभुरहमन्युनृणां न वैष्णवानाम्

॥९९॥

(शिखरिणी) असारे संसारे विषयविषसङ्गाकुलधियः क्षणार्धं क्षेमार्थं पिबत शुकगाथातुलसुधाम् ।

किमर्थं व्यर्थं भो व्रजथ कुपथे कुत्सितकथे परीक्षित्साक्षी यत् श्रवणगतमुक्त्युक्तिकथने

॥१००॥

(अनुष्टुप्) रसप्रवाहसंस्थेन श्रीशुकेनेरिता कथा ।

कण्ठे संबध्यते येन स वैकुण्ठप्रभुर्भवेत्

॥१०१॥

(मालिनी) इति च परमगुह्यं सर्वसिद्धान्तसिद्धं सपदि निगदितं ते शास्त्रपुञ्जं विलोक्य ।

जगति शुककथातो निर्मलं नास्ति किञ्चित् पिब परसुखहेतोर्द्वादशस्कन्धसारम्

॥१०२॥

(प्रहर्षिणी) एतां यो नियततया श्रृणोति भक्त्या यश्चैनां कथयति शुद्धवैष्णवाग्रे ।

तौ सम्यक् विधिकरणात्फलं लभेते याथार्थ्यान्न हि भुवने किमप्यसाध्यम्

॥१०३॥

इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये श्रवणविधिकथनं नाम षष्टोऽध्यायः ॥ ६ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु