विप्रमोक्षः
श्रीमद्भागवतमाहात्म्यम् - चतुर्थोऽध्यायः सप्ताहकथायां भगवतः प्रादुर्भावः, गोकर्णोपाख्यानारम्भश्च सूत उवाच ।
(अनुष्टुप्) अथ वैष्णवचित्तेषु दृष्ट्वा भक्तिं अलौकिकीम् ।
निजलोकं परित्यज्य भगवान् भक्तवत्सलः
॥१॥वनमाली घनश्यामः पीतवासा मनोहरः ।
काञ्चीकलापरुचिरो लसन् मुकुटकुण्डलः
॥२॥त्रिभङ्गललितश्चारु कौस्तुभेन विराजितः ।
कोटिमन्मथलावण्यो हरिचन्दनचर्चितः
॥३॥परमानन्द चिन्मूर्तिः मधुरो मुरलीधरः ।
आविवेश स्वभक्तानां हृदयानि अमलानि च
॥४॥वैकुण्ठवासिनो ये च वैष्णवा उद्धवादयः ।
तत्कथाश्रवणार्थं ते गूढरूपेण संस्थिताः
॥५॥तदा जयजयारावो रसपुष्टिरलौकिकी ।
चूर्णप्रसून वृष्टिश्च मुहुः शंखरवोऽप्यभूत्
॥६॥तत् सभासंस्थितानां च देहगेहात्मविस्मृतिः ।
दृष्ट्वा च तन्मयावस्थां नारदो वाक्यमब्रवीत्
॥७॥(वंशस्थ) अलौकिकोऽयं महिमा मुनीश्वराः सप्ताहजन्योऽद्य विलोकितो मया ।
मूढाः शठा ये पशुपक्षिणोऽत्र सर्वेऽपि निष्पापतमा भवन्ति
॥८॥(उपेंद्रवज्रा) अतो नृलोके ननु नास्ति किंचित् चित्तस्य शोधाय कलौ पवित्रम् ।
अघौघविध्वंसकरं तथैव कथासमानं भुवि नास्ति चान्यत्
॥९॥(इंद्रवज्रा) के के विशुद्ध्यन्ति वदन्तु मह्यं सप्ताहयज्ञेन कथामयेन ।
कृपालुभिर्लोकहितं विचार्य प्रकाशितः कोऽपि नवीनमार्गः
॥१०॥कुमारा ऊचुः
(वंशस्थ) ये मानवाः पापकृतस्तु सर्वदा सदा दुराचाररता विमार्गगाः ।
क्रोधाग्निदग्धाः कुटिलाश्च कामिनः सप्ताहयज्ञेन कलौ पुनन्ति ते
॥११॥सत्यन हीना पितृमातृदूषकाः तृष्णाकुलाचाश्रमधर्मवर्जिताः ।
ये दाम्भिका मत्सरिणोऽपि हिंसकाः सप्ताहयज्ञेन कलौ पुनन्ति ते
॥१२॥पञ्चोग्रपापात् छलछद्मकारिणः क्रूराः पिशाचा इव निर्दयाश्च ये ।
ब्रह्मस्वपुष्टा व्यभिचारकारिणः सप्ताहयज्ञेन कलौ पुनन्ति ते
॥१३॥कायेन वाचा मनसापि पातकं नित्यं प्रकुर्वन्ति शठा हठेन ये ।
परस्वपुष्टा मलिना दुराशयाः सप्ताहयज्ञेन कलौ पुनन्ति ते
॥१४॥(अनुष्टुप्) अत्र ते कीर्तयिष्याम इतिहासं पुरातनम् ।
यस्य श्रवणमात्रेण पापहानिः प्रजायते
॥१५॥तुंगभद्रातटे पूर्वं अभूत् पत्तनमुत्तमम् ।
यत्र वर्णाः स्वधर्मेण सत्यसत्कर्मतत्पराः
॥१६॥आत्मदेवः पुरे तस्मिन् सर्ववेद विशारदः ।
श्रौतस्मार्तेषु निष्णातो द्वितीय इव भास्करः
॥१७॥भिक्षुको वित्तवान् लोके तत्प्रिया धुन्धुली स्मृता ।
स्ववाक्यस्थापिका नित्यं सुन्दरी सुकुलोद्भवा
॥१८॥लोकवार्तारता क्रूरा प्रायशो बहुजल्पिका ।
शूरा च गृहकृत्येषु कृपणा कलहप्रिया
॥१९॥एवं निवसतोः प्रेम्णा दंपत्यो रममाणयोः ।
अर्थाः कामास्तयोरासन् न सुखाय गृहादिकम्
॥२०॥पश्चात् धर्माः समारब्धाः ताभ्यां संतानहेतवे ।
गोभूहिरण्यवासांसि दीनेभ्यो यच्छतः सदा
॥२१॥धनार्धं धर्ममार्गेण ताभ्यां नीतं तथापि च ।
न पुत्रो नापि वा पुत्री ततश्चिन्तातुरो भृशम्
॥२२॥एकदा स तु द्विजो दुःखाद् गृहं त्यक्त्वा वनं गतः ।
मध्याह्ने तृषितो जातः तडागं समुपेयिवान्
॥२३॥पीत्वा जलं निषण्णस्तु प्रजादुःखेन कर्शितः ।
मुहूर्तादपि तत्रैव संन्यासी कश्चित् आगतः
॥२४॥दृष्ट्वा पीतजलं तं तु विप्रो यातस्तदन्तिकम् ।
नत्वा च पादयोस्तस्य निःश्वसन् संस्थितः पुरः
॥२५॥यतिरुवाच
कथं रोदिषि विप्र त्वं का ते चिन्ता बलीयसी ।
वद त्वं सत्वरम् मह्यं स्वस्य दुःखस्य कारणम्
॥२६॥ब्राह्मण उवाच
किं ब्रवीमि ऋषे दुःखं पूर्वपापेन संचितम् ।
मदीयाः पूर्वजास्तोयं कवोष्णं उपभुञ्जते
॥२७॥मद्दत्तं नैव गृह्णन्ति प्रीत्या देवा द्विजातयः ।
प्रजादुःखेन शून्योऽहं प्राणान् त्यक्तुं इहागतः
॥२८॥धिक् जीवितं प्रजाहीनं धिक् गृहं च प्रजां विना ।
धिक् धनं चानपत्यस्य धिक्कुलं संततिं विना
॥२९॥पाल्यते या मया धेनुः सा वन्ध्या सर्वथा भवेत् ।
यो मया रोपितो वृक्षः सोऽपि वन्ध्यत्वमाश्रयेत्
॥३०॥यत्फलं मद्गृहायातं तच्च शीघ्रं विनश्यति ।
निर्भाग्यस्यानपत्यस्य किमतो जीवितेन मे
॥३१॥इत्युक्त्वा स रुरोदोच्चैः तत्पार्श्वं दुःखपीडितः ।
तदा तस्य यतेश्चित्ते करुणाभूत् गरीयसी
॥३२॥तद्भालाक्षरमालां च वाचमायास योगवान् ।
सर्वं ज्ञात्वा यतिः पश्चात् विप्रं ऊचे सविस्तरम्
॥३३॥यतिरुवाच
मुञ्च अज्ञानं प्रजारूपं बलिष्ठा कर्मणो गतिः ।
विवेकं तु समासाद्य त्यज संसारवासनाम्
॥३४॥श्रुणु विप्र मया तेऽद्य प्रारब्धं तु विलोकितम् ।
सप्तजन्मावधि तव पुत्रो नैव च नैव च
॥३५॥संततेः सगरो दुःखं अवाप अङ्गः पुरा तथा ।
रे मुञ्चाद्य कुटुम्बाशां संन्यासे सर्वथा सुखम्
॥३६॥ब्राह्मण उवाच
विवेकेन भवेत्किं मे पुत्रं देहि बलादपि ।
नो चेत् त्यजाम्यहं प्राणान् त्वदग्रे शोकमूर्छितः
॥३७॥पुत्रादिसुखहीनोऽयं संन्यासः शुष्क एव हि ।
गृहस्थः सरसो लोके पुत्रपौत्रसमन्वितः
॥३८॥इति विप्राग्रहं दृष्ट्वा प्राब्रवीत् स तपोधनः ।
चित्रकेतुर्गतः कष्टं विधिलेखविमार्जनात्
॥३९॥न यास्यसि सुखं पुत्रात् यथा दैवहतोद्यमः ।
अतो हठेन युक्तोऽसि ह्यर्थिनं किं वदाम्यहम्
॥४०॥तस्याग्रहं समालोक्य फलमेकं स दत्तवान् ।
इदं भक्षय पत्न्या त्वं ततः पुत्रो भविष्यति
॥४१॥सत्यं शौचं दया दानं एकभक्तं तु भोजनम् ।
वर्षावधि स्त्रिया कार्यं तेन पुत्रोऽतिनिर्मलः
॥४२॥एवमुक्त्वा ययौ योगी विप्रस्तु गृहमागतः ।
पत्न्याः पाणौ फलं दत्त्वा स्वयं यातस्तु कुत्रचित्
॥४३॥तरुणी कुटिला तस्य सख्यग्रे च रुरोद ह ।
अहो चिन्ता ममोत्पन्ना फलं चाहं न भक्ष्यये
॥४४॥फलभक्षेण गर्भः स्याद् गर्भेण उदरवृद्धिता ।
स्वल्पभक्षं ततोऽशक्तिः गृहकार्यं कथं भवेत्
॥४५॥दैवाद् धाटी व्रजेद्ग्रामे पलायेद्गर्भिणी कथम् ।
शुकवत् निवसेत् गर्भः तं कुक्षेः कथमुत्सृजेत्
॥४६॥तिर्यक् चेदागतो गर्भः तदा मे मरणं भवेत् ।
प्रसूतौ दारुणं दुःखं सुकुमारी कथं सहे
॥४७॥मन्दायां मयि सर्वस्वं ननान्दा संहरेत् तदा ।
सत्यशौचादिनियमो दुराराध्यः स दृश्यते
॥४८॥लालने पालने दुःखं प्रसूतायाश्च वर्तते ।
वन्ध्या वा विधवा नारी सुखिनी चेति मे मतिः
॥४९॥एवं कुतर्कयोगेन तत्फलं नैव भक्षितम् ।
पत्या पृष्टं फलं भुक्तं भुक्तं चेति तयेरितम्
॥५०॥एकदा भगिनी तस्याः तद्गृहः स्वेच्छयाऽऽगता ।
तदग्रे कथितं सर्वं चिन्तेयं महती हि मे
॥५१॥दुर्बला तेन दुःखेन ह्यनुजे करवाणि किम् ।
साब्रवीत् मम गर्भोस्ति तं दास्यामि प्रसूतितः
॥५२॥तावत्कालं सगर्भेव गुप्ता तिष्ठ गृहे सुखम् ।
वित्तं त्वं मत्पतेर्यच्छ स ते दास्यति बालकम्
॥५३॥षण्मासिको मृतो बाल इति लोको वदिष्यति ।
तं बालं पोषयिष्यामि नित्यमागत्य ते गृहे
॥५४॥फलमर्पय धेन्वै त्वं परीक्षार्थं तु साम्प्रतम् ।
तत् तद् आचरितं सर्वं तथैव स्त्रीस्वभावतः
॥५५॥अथ कालेन सा नारी प्रसूता बालकं तदा ।
आनीय जनको बालं रहस्ये धुन्धुलीं ददौ
॥५६॥तया च कथितं भर्त्रे प्रसूतः सुखमर्भकः ।
लोकस्य सुखमुत्पन्नं आत्मदेव प्रजोदयात्
॥५७॥ददौ दानं द्विजातिभ्यो जातकर्म विधाय च ।
गीतवादित्रघोषोऽभूत् तद्द्वारं मंगलं बहु
॥५८॥भर्तुरग्रेऽब्रवीत् वाक्यं स्तन्यं नास्ति कुचे मम ।
अन्यस्तन्येन निर्दुग्धा कथं पुष्णामि बालकम्
॥५९॥मत्स्वसुश्च प्रसूताया मृतो बालस्तु वर्तते ।
तामाकार्य गृहे रक्ष सा तेऽर्भं पोषयिष्यति
॥६०॥पतिना तत्कृतं सर्वं पुत्ररक्षणहेतवे ।
पुत्रस्य धुन्धुकारीति नाम मात्रा प्रतिष्ठितन्
॥६१॥त्रिमासे निर्गते चाथ सा धेनुः सुषुवेऽर्भकम् ।
सर्वांगसुन्दरं दिव्यं निर्मलं कनकप्रभम्
॥६२॥दृष्ट्वा प्रसन्नो विप्रस्तु संस्कारान् स्वयमादधे ।
मत्वाऽऽश्चर्यं जनाः सर्वे दिदृक्षार्थं समागताः
॥६३॥भाग्योदयोऽधुना जात आत्मदेवस्य पश्यत ।
धेन्वा बालः प्रसूतस्तु देवरूपीति कौतुकम्
॥६४॥न ज्ञातं तद्रहस्यं तु केनापि विधियोगतः ।
गोकर्णं तं सुतं दृष्ट्वा गोकर्णं नाम चाकरोत्
॥६५॥कियत्कालेन तौ जातौ तरुणौ तनयावुभौ ।
गोकर्णः पण्डितो ज्ञानी धुन्धुकारी महाखलः
॥६६॥स्नानशौचक्रियाहीनो दुर्भक्षी क्रोधवर्जितः ।
दुष्परिग्रहकर्ता च शवहस्तेन भोजनम्
॥६७॥चौरः सर्वजनद्वेषी परवेश्मप्रदीपकः ।
लालनायार्भकान् धृत्वा सद्यः कूपे न्यपातयत्
॥६८॥हिंसकः शस्त्रधारी च दीनान्धानां प्रपीडकः ।
चाण्डालाभिरतो नित्यं पाशहस्तः श्वसंगतः
॥६९॥तेन वेश्याकुसंगेन पित्र्यं वित्तं तु नाशितम् ।
एकदा पितरौ ताड्य पात्राणि स्वयमाहरत्
॥७०॥तत्पिता कृपणः प्रोच्चैः धनहीनो रुरोद ह ।
वध्यतवं तु समीचीनं कुपुत्रो दुःखदायकः
॥७१॥क्व तिष्ठामि क्व गच्छामि को मे दुःखं व्यपोहयेत् ।
प्राणान् त्यजामि दुःखेन हा कष्टं मम संस्थितम्
॥७२॥तदानीं तु समागत्य गोकर्णो ज्ञानसंयुतः ।
बोधयामास जनकं वैराग्यं परिदर्शयन्
॥७३॥असारः खलु संसारो दुःखरूपी विमोहकः ।
सुतः कस्य धनं कस्य स्नेहवान् ज्वलतेऽनिशम्
॥७४॥न चेन्द्रस्य सुखं किंचित् न सुखं चक्रवर्तिनः ।
सुखमस्ति विरक्तस्य मुनेः एकान्तजीविनः
॥७५॥मुञ्च अज्ञानं प्रजारूपं मोहतो नरके गतिः ।
निपतिष्यति देहोऽयं सर्वं त्यक्त्वा वनं व्रज
॥७६॥तद्वाक्यं तु समाकर्ण्य गन्तुकामः पिताब्रवीत् ।
किंकर्तव्यं वने तात तत्त्वं वद सविस्तरम्
॥७७॥अन्धकूपे स्नेहपाशे बद्धः पंगुरहं शठः ।
कर्मणा पतितो नूनं मामुद्धर दयानिधे
॥७८॥(वसंततिलका) देहेऽस्थिमांसरुधिरेऽभिमतिं त्यज त्वं जायासुतादिषु सदा ममतां विमुञ्च ।
पश्यानिशं जगदिदं क्षणभंगनिष्ठं वैराग्यरागरसिको भव भक्तिनिष्ठः
॥७९॥धर्म भजस्व सततं त्यज लोकधर्मान् सेवस्व साधुपुरुषान् जहि कामतृष्णाम् ।
अन्यस्य दोषगुणचिन्तनमाशु मुक्त्वा सेवाकथारसमहो नितरां पिब त्वम्
॥८०॥एवं सुतोक्तिवशतोऽपि गृहं विहाय यातो वनं स्थिरमतिर्गतषष्टिवर्षः ।
युक्तो हरेरनुदिनं परिचर्ययासौ श्रीकृष्णमाप नियतं दशमस्य पाठात्
॥८१॥इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये विप्रमोक्षो नाम चतुर्थोऽध्यायः ॥ ४ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु