मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — माहात्म्यम् (पाद्मे), अध्याय १

3
माहात्म्यम् (पाद्मे) · 1

भक्तिनारदसमागमः

श्रीमद्भागवतमाहात्म्यम् - प्रथमोऽध्यायः नारदसनकादिसमागमः, नारदकर्तृकं भक्तिज्ञानवैराग्य वृत्तान्तनिवेदनं च - (अनुष्टुप्) सच्चिदानन्दरूपाय विश्वोत्पत्त्यादिहेतवे ।

तापत्रयविनाशाय श्रीकृष्णाय वयं नुमः

॥१॥

(वसंततिलका) यं प्रव्रजन्तमनुपेत्यमपेतकृत्यं द्वैपायनो विरहकातर आजुहाव ।

पुत्रेति तन्मयतया तरवोऽभिनेदुः तं सर्वभूतहृदयं मुनिमानतोऽस्मि

॥२॥

(अनुष्टुप्) नैमिषे सूतं आसीनं अभिवाद्य महामतिम् ।

कथामृत रसास्वाद कुशलः शौनकोऽब्रवीत्

॥३॥

शौनक उवाच

अज्ञानध्वान्तविध्वंस कोटिसूर्यसमप्रभ ।

सूताख्याहि कथासारं मम कर्णरसायनम्

॥४॥

भक्तिज्ञानविरागाप्तो विवेको वर्धते महान् ।

मायामोहनिरासश्च वैष्णवैः क्रियते कथम्

॥५॥

इह घोरे कलौ प्रायो जीवश्चासुरतां गतः ।

क्लेशाक्रान्तस्य तस्यैव शोधने किं परायणम्

॥६॥

श्रेयसां यद् भवेत् श्रेयः पावनानां च पावनम् ।

कृष्णप्राप्तिकरं शश्वत् साधनं तद्वदाधुना

॥७॥

चिन्तामणिर्लोकसुखं सुरद्रुः स्वर्गसंपदम् ।

प्रयच्छति गुरुः प्रीतो वैकुण्ठं योगिदुर्लभम्

॥८॥

सूत उवाच

प्रीतिः शौनक चित्ते ते ह्यतो वच्मि विचार्य च ।

सर्वसिद्धान्त निष्पन्नं संसरभयनाशनम्

॥९॥

भक्त्योघवर्धनं यच्च कृष्णसंतोषहेतुकम् ।

तदहं तेऽभिधास्यामि सावधानतया श्रृणु

॥१०॥

कालव्यालमुखाग्रास त्रासनिर्णाशहेतवे ।

श्रीमद्भागवतं शास्त्रं कलौ कीरेण भाषितम्

॥११॥

एतस्माद् अपरं किंचिद् मनःशुद्ध्यै न विद्यते ।

जन्मान्तरे भवेत् पुण्यं तदा भागवतं लभेत्

॥१२॥

परीक्षिते कथां वक्तुं सभायां संस्थिते शुके ।

सुधाकुंभं गृहीत्वैव देवास्तत्र समागमन्

॥१३॥

शुकं नत्वावदन् सर्वे स्वकार्यकुशलाः सुराः ।

कथासुधां प्रयच्छस्व गृहीत्वैव सुधां इमाम्

॥१४॥

एवं विनिमये जाते सुधा राज्ञा प्रपीयताम् ।

प्रपास्यामो वयं सर्वे श्रीमद्भागवतामृतम्

॥१५॥

क्व सुधा क्व कथा लोके क्व काचः क्व मणिर्महान् ।

ब्रह्मरातो विचार्यैवं तदा देवाञ्जहास ह

॥१६॥

अभक्तान् तांश्च विज्ञाय न ददौ स कथामृतम् ।

श्रीमद्भागवती वार्ता सुराणां अपि दुर्लभा

॥१७॥

राज्ञो मोक्षं तथा वीक्ष्य पुरा धातापि विस्मितः ।

सत्यलोक तुलां बद्ध्वा तोलयत् साधनान्यजः

॥१८॥

लघून्यन्यानि जातानि गौरवेण इदं महत् ।

तदा ऋषिगणाः सर्वे विस्मयं परमं ययुः

॥१९॥

मेनिरे भगवद्रूपं शास्त्रं भागवतं कलौ ।

पठनात् श्रवणात् सद्यो वैकुण्ठफलदायकम्

॥२०॥

सप्ताहेन श्रुतं चैतत् सर्वथा मुक्तिदायकम् ।

सनकाद्यैः पुरा प्रोक्तं नारदाय दयापरैः

॥२१॥

यद्यपि ब्रह्मसंबंधात् श्रुतमेतत् सुरर्षिणा ।

सप्ताहश्रवणविधिः कुमारैस्तस्य भाषितः

॥२२॥

शौनक उवाच

लोकविग्रहमुक्तस्य नारदस्यास्थिरस्य च ।

विधिश्रवे कुतः प्रीतिः संयोगः कुत्र तैः सह

॥२३॥

सूत उवाच

अत्र ते कीर्तयिष्यामि भक्तियुक्तं कथानकम् ।

शुकेन मम यत्प्रोक्तं रहः शिष्यं विचार्य च

॥२४॥

एकदा हि विशालायां चत्वार ऋषयोऽमलाः ।

सत्सङ्गार्थं समायाता ददृशुस्तत्र नारदम्

॥२५॥

कुमाराः ऊचुः

कथं ब्रह्मन् दीनमुखं कुतश्चिन्तातुरो भवान् ।

त्वरितं गम्यते कुत्र कुतश्चागमनं तव

॥२६॥

इदानीं शून्यचित्तोऽसि गतवित्तो यथा जनः ।

तवेदं मुक्तसङ्गस्य नोचितं वद कारणम्

॥२७॥

नारद उवाच

अहं तु पृथिवीं यातो ज्ञात्वा सर्वोत्तममिति ।

पुष्करं च प्रयागं च काशीं गोदावरीं तथा

॥२८॥

हरिक्षेत्रं कुरुक्षेत्रं श्रीरङ्गं सेतुबन्धनम् ।

एवमादिषु तीर्थेषु भ्रममाण इतस्ततः

॥२९॥

नापश्यं कुत्रचित् शर्म मनस्संतोषकारकम् ।

कलिनाधर्ममित्रेण धरेयं बाधिताधुना

॥३०॥

सत्यं नास्ति तपः शौचं दया दानं न विद्यते ।

उदरंभरिणो जीवा वराकाः कूटभाषिणः

॥३१॥

मन्दाः सुमन्दमतयो मन्दभाग्या हि उपद्रुताः ।

पाखण्डनिरताः संतो विरक्ताः सपरिग्रहाः

॥३२॥

तरुणीप्रभुता गेहे श्यालको बुद्धिदायकः ।

कन्याविक्रयिणो लोभाद् दंपतीनां च कल्कनम्

॥३३॥

आश्रमा यवनै रुद्धाः तीर्थानि सरितस्तथा ।

देवतायतनान्यत्र दुष्टैः नष्टानि भूरिशः

॥३४॥

न योगी नैव सिद्धो वा न ज्ञानी सत्क्रियो नरः ।

कलिदावानलेनाद्य साधनं भस्मतां गतम्

॥३५॥

अट्टशूला जनपदाः शिवशूला द्विजातयः ।

कामिन्यः केशशूलिन्यः संभवन्ति कलौ इह

॥३६॥

एवं पश्यन् कलेर्दोषान् पर्यटन् अवनीं अहम् ।

यामुनं तटमापन्नो यत्र लीला हरेरभूत्

॥३७॥

तत्राश्चर्यं मया दृष्टं श्रूयतां तन्मुनीश्वराः ।

एका तु तरुणी तत्र निषण्णा खिन्नमानसा

॥३८॥

वृद्धौ द्वौ पतितौ पार्श्वे निःश्वसन्तौ अचेतनौ ।

शुश्रूषन्ती प्रबोधन्ती रुदती च तयोः पुरः

॥३९॥

दशदिक्षु निरीक्षन्ती रक्षितारं निजं वपुः ।

वीज्यमाना शतस्त्रीभिः बोध्यमाना मुहुर्मुहुः

॥४०॥

दृष्ट्वा दुराद् गतः सोऽहं कौतुकेन तदन्तिकम् ।

मां दृष्ट्वा चोत्थिता बाला विह्वला चाब्रवीद् वचः

॥४१॥

बालोवाच

भो भोः साधो क्षणं तिष्ठ मच्चिन्तामपि नाशय ।

दर्शनं तव लोकस्य सर्वथाघहरं परम्

॥४२॥

बहुधा तव वाक्येन दुःखशान्तिर्भविष्यति ।

यदा भाग्यं भवेद् भूरि भवतो दर्शनं तदा

॥४३॥

नारद उवाच

कासि त्वं कौ इमौ चेमा नार्यः काः पद्मलोचनाः ।

वद देवि सविस्तारं स्वस्य दुःखस्य कारणम्

॥४४॥

बालोवाच

अहं भक्तिरिति ख्याता इमौ मे तनयौ मतौ ।

ज्ञानवैराग्य नामानौ कालयोगेन जर्जरौ

॥४५॥

गङ्गाद्या स्मरितश्चेमा मत्सेवार्थं समागताः ।

तथापि न च मे श्रेयः सेवितायाः सुरैरपि

॥४६॥

इदानीं श्रुणु मद्वार्तां सचित्तस्त्वं तपोधन ।

वार्ता मे वितताप्यस्ति तां श्रुत्वा सुखमावह

॥४७॥

उत्पन्ना द्रविडे साहं वृद्धिं कर्नाटके गता ।

क्वचित् क्वचित् महाराष्ट्रे गुर्जरे जीर्णतां गता

॥४८॥

तत्र घोर कलेर्योगात् पाखण्डैः खण्डिताङ्गका ।

दुर्बलाहं चिरं याता पुत्राभ्यां सह मन्दताम्

॥४९॥

वृन्दावनं पुनः प्राप्य नवीनेव सुरूपिणी ।

जाताहं उवती सम्यक् श्रेष्ठरूपा तु सांप्रतम्

॥५०॥

इमौ तु शयितौ अत्र सुतौ मे क्लिश्यतः श्रमात् ।

इदं स्थानं परित्यज्य विदेशं गम्यते मया

॥५१॥

जरठत्वं समायातौ तेन दुःखेन दुःखिता ।

साहं तु तरुणी कस्मात् सुतौ वृद्धौ इमौ कुतः

॥५२॥

त्रयाणां सहचारित्वात् वैपरीत्यं कुतः स्थितम् ।

घटते जरठा माता तरुणौ तनयौ इति

॥५३॥

अतः शोचामि चात्मानं विस्मयाविष्टमानसा ।

वद योगनिधे धीमन् कारणं चात्र किं भवेत्

॥५४॥

नारद उवाच

ज्ञानेनात्मनि पश्यामि सर्वं एतत् तवानघे ।

न विषादः त्वया कार्यो हरिः शं ते करिष्यति

॥५५॥

सूत उवाच

क्षणमात्रेण तज्ज्ञात्वा वाक्यं ऊचे मुनीश्वरः

॥५६॥

नारद उवाच

श्रुणुष्ववहिता बाले योगोऽयं दारुणा कलिः ।

तेन लुप्तः सदाचारो योगमार्गः तपांसि च

॥५७॥

जना अघासुरायन्ते शाठ्यदुष्कर्मकारिणः ।

इह सन्तो विषीदन्ति प्रहृष्यन्ति हि असाधवः ।

धत्ते धैर्यं तु यो धीमान् स धीरः पण्डितोऽथवा

॥५८॥

अस्पृश्यान् अवलोक्येयं शेषभारकरी धरा ।

वर्षे वर्षे क्रमात् जाता मंगलं नापि दृश्यते

॥५९॥

न त्वामपि सुतैः साकं कोऽपि पश्यति सांप्रतम् ।

उपेक्षितानुरागान्धैः जर्जरत्वेन संस्थिता

॥६०॥

वृन्दावनस्य संयोगात् पुनस्त्वं तरुणी नवा ।

धन्यं वृन्दावनं तेन भक्तिः नृत्यति यत्र च

॥६१॥

अत्रेमौ ग्राहकाभावात् न जरामपि मुञ्चतः ।

किञ्चित् आत्मसुखेनेह प्रसुप्तिः मन्यतेऽनयोः

॥६२॥

भक्तिरुवाच

कथं परीक्षिता राज्ञा स्थापितो ह्यशुचिः कलिः ।

प्रवृत्ते तु कलौ सर्वसारः कुत्र गतो महान्

॥६३॥

करुणापरेण हरिणापि अधर्म कथमीक्ष्यते ।

इमं मे संशयं छिन्धि त्वद्वाचा सुखितास्म्यहम्

॥६४॥

नारद उवाच

यदि पृष्टस्त्वया बाले प्रेमतः श्रवणं कुरु ।

सर्वं वक्ष्यामि ते भद्रे कश्मलं ते गमिष्यति

॥६५॥

यदा मुकुन्दो भगवान् क्ष्मां त्यक्त्वा स्वपदं गतः ।

तद्दिनात् कलिरायातः सर्वसाधनबाधकः

॥६६॥

दृष्टो दिग्विजये राज्ञा दीनवत् शरणं गतः ।

न मया मारणीयोऽयं सारंग इव सरभुक्

॥६७॥

यत्फलं नास्ति तपसा न योगेन समाधिना ।

तत्फलं लभते सम्यक् कलौ केशवकीर्तनात्

॥६८॥

एकाकारं कलिं दृष्ट्वा सारवत्सारनीरसम् ।

विष्णुरातः स्थापितवान् कलिजानां सुखाय च

॥६९॥

कुकर्माचरनात्सारः सर्वतो निर्गतोऽधुना ।

पदार्थाः संस्थिता भूमौ बीजहीनास्तुषा यथा

॥७०॥

विप्रैर्भागवती वार्ता गेहे गेहे जने जने ।

कारिता कणलोभेन कथासारस्ततो गतः

॥७१॥

अत्युग्रभूरिकर्माणो नास्तिका रौरवा जनाः ।

तेऽपि तिष्ठन्ति तीर्थेषु तीर्थसारस्ततो गतः

॥७२॥

कामक्रोध महालोभ तृष्णाव्याकुलचेतसः ।

तेऽपि तिष्ठन्ति तपसि तपःसारस्ततो गतः

॥७३॥

मनसश्चाजयात् लोभाद् दंभात् पाखण्डसंश्रयात् ।

शास्त्रान् अभ्यसनाच्चैव ध्यानयोगफलं गतम्

॥७४॥

पण्डितास्तु कलत्रेण रमन्ते महिषा इव ।

पुत्रस्योत्पादने दक्षा अदक्षा मुक्तिसाधने

॥७५॥

न हि वैष्णवता कुत्र संप्रदायपुरःसरा ।

एवं प्रलयतां प्राप्तो वस्तुसारः स्थले स्थले

॥७६॥

अयं तु युगधर्मो हि वर्तते कस्य दूषणम् ।

अतस्तु पुण्डरीकाक्षः सहते निकटे स्थितः

॥७७॥

सूत उवाच

इति तद्वचनं श्रुत्वा विस्मयं परमं गता ।

भक्तिरूचे वचो भूयः श्रूयतां तच्च शौनक

॥७८॥

भक्तिरुवाच

सुरर्षे त्वं हि धन्योऽसि मद्भाग्येन समागतः ।

साधूनां दर्शनं लोके सर्वसिद्धिकरं परम्

॥७९॥

(मालिनी) जयति जयति मायां यस्य कायाधवस्ते वचनरचनमेकं केवलं चाकलय्य ।

ध्रुवपदमपि यातो यत्कृपातो ध्रुवोऽयं सकलकुशलपात्रं ब्रह्मपुत्रं नतास्मि

॥८०॥

इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये भक्तिनारदसमागमो नाम प्रथमोऽध्यायः ॥ १ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु