मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — माहात्म्यम् (पाद्मे), अध्याय २

3
माहात्म्यम् (पाद्मे) · 2

कुमारनारदसंवादः

श्रीमद्भागवतमाहात्म्यम् - द्वितीयोऽध्यायः भक्तेः क्लेशनिवृत्तये नारदस्य उद्योगः नारद उवाच ।

(अनुष्टुप्) वृथा खेदयसे बाले अहो चिन्तातुरा कथम् ।

श्रीकृष्णचरणाम्भोजं स्मर दुःखं गमिष्यति

॥१॥

द्रौपदी च परित्राता येन कौरवकश्मलात् ।

पालिता गोपसुन्दर्यः स कृष्णः क्वापि नो गतः

॥२॥

त्वंतु भक्तिः प्रिया तस्य सततं प्राणतोऽधिका ।

त्वयाऽऽहूतस्तु भगवान् याति नीचगृहेष्वपि

॥३॥

सत्यादित्रियुगे बोध वैराग्यौ मुक्तिसाधकौ ।

कलौ तु केवला भक्तिः ब्रह्मसायुज्यकारिणी

॥४॥

इति निश्चित्य चिद्रूपः सद्रूपां त्वां ससर्ज ह ।

परमानन्दचिन्मूर्ति सुंदरीं कृष्णवल्लभाम्

॥५॥

बद्ध्वांजलिं त्वया पृष्टं किं करोमीति चैकदा ।

त्वां तदाऽऽज्ञापयत् कृष्णो मद्भक्तान् पोषयेति च

॥६॥

अंगीकृतं त्वया तद्वै प्रसन्नोऽभूत् हरिस्तदा ।

मुक्तिं दासीं ददौ तुभ्यं ज्ञानवैराग्यकौ इमौ

॥७॥

पोषणं स्वेन रूपेण वैकुण्ठे त्वं करोषि च ।

भूमौ भक्तविपोषाय छायारूपं त्वया कृतम्

॥८॥

मुक्तिं ज्ञानं विरक्तिं च सह कृत्वा गता भुवि ।

कृतादि द्वापरस्यान्तं महानन्देन संस्थिता

॥९॥

कलौ मुक्तिः क्षयं प्राप्ता पाखण्डामयपीडिता ।

त्वद् आज्ञया गता शीघ्रं वैकुण्ठं पुनरेव सा

॥१०॥

स्मृता त्वयापि चात्रैव मुक्तिरायाति याति च ।

पुत्रीकृत्य त्वयेमौ च पार्श्वे स्वस्यैव रक्षितौ

॥११॥

उपेक्षातः कलौ मन्दौ वृद्धौ जातौ सुतौ तव ।

तथापि चिन्तां मुञ्च त्वं उपायं चिन्तयाम्यहम्

॥१२॥

कलिना सदृशः कोऽपि युगो नास्ति वरानने ।

तस्मिन् त्वां स्थापयिष्यामि गेहे गेहे जने जने

॥१३॥

अन्यधर्मान् तिरस्कृत्य पुरस्कृत्य महोत्सवान् ।

तदा नाहं हरेर्दासो लोके त्वां न प्रवर्तये

॥१४॥

त्वद् अन्विताश्च ये जीवा भविष्यन्ति कलौ इह ।

पापिनोऽपि गमिष्यन्ति निर्भयं कृष्णमन्दिरम्

॥१५॥

येषां चित्ते वसेद्भक्तिः सर्वदा प्रेमरूपिणी ।

नते पश्यन्ति कीनाशं स्वप्नेऽप्यमलमूर्तयः

॥१६॥

न प्रेतो न पिशाचो वा राक्षसो वासुरोऽपि वा ।

भक्तियुक्तमनस्कानां स्पर्शने न प्रभुर्भवेत्

॥१७॥

न तपोभिर्न वेदैश्च न ज्ञानेनापि कर्मणा ।

हरिर्हि साध्यते भक्त्या प्रमाणं तत्र गोपिकाः

॥१८॥

नृणां जन्मसहस्रेण भक्तौ प्रीतिर्हि जायते ।

कलौ भक्तिः कलौ भक्तिः भक्त्या कृष्णः पुरः स्थितः

॥१९॥

भक्तिद्रोअकरा ये च ते सीदन्ति जगत्त्रये ।

दुर्वासा दुःखमापन्नः पुरा भक्तविनिन्दकः

॥२०॥

अलं व्रतैः अलं तीर्थैः अलं योगैरलं मखैः ।

अलं ज्ञानकथालापैः भक्तिरेकैव मुक्तिदा

॥२१॥

सूत उवाच

इति नारदनिर्णीतं स्वमायात्म्यं निशम्य सा ।

सर्वाङ्गपुष्टिसंयुक्ता नारदं वाक्यमव्रवीत्

॥२२॥

भक्तिरुवाच

अहो नारद धन्योऽसि प्रीतिस्ते मयि निश्चला ।

न कदाचिद् विमुञ्चामि चित्ते स्थास्यामि सर्वदा

॥२३॥

कृपालुना त्वया साधो मद्बाधा ध्वंसिता क्षणात् ।

पुत्रयोश्चेतना नास्ति ततो बोधय बोधय

॥२४॥

सूत उवाच

तस्या वचः समाकर्ण्य कारुण्यं नारदो गतः ।

तयोर्बोधनमारेभे कराग्रेण विमर्दयन्

॥२५॥

मुखं संयोज्य कर्णान्ते शब्दमुच्चैः समुच्चरन् ।

ज्ञान प्रबुध्यतां शीघ्रं रे वैराग्य प्रबुध्यताम्

॥२६॥

वेदवेदान्तघोषैश्च गीतापाठैर्मुहुर्मुहुः ।

बोध्यमानौ तदा तेन कथंचित् चोत्थितौ बलात्

॥२७॥

नेत्रैः अनवलोकन्तौ जृम्भन्तौ सालसावुभौ ।

बकवत्पलितौ प्रायः शुष्ककाष्ठसमाङ्गकौ

॥२८॥

क्षुत्क्षामौ तौ निरीक्ष्यैव पुनः स्वापपरायणौ ।

ऋषिश्चिन्तापरो जातः किं विधेयं मयेति च

॥२९॥

अहो निद्रा कथं याति वृद्धत्वं च महत्तरम् ।

चिन्तयन् इति गोविन्दं स्मारयामास भार्गव

॥३०॥

व्योमवाणी तदैवाभूत् मा ऋषे खिद्यतामिति ।

उद्यमः सफलस्तेऽयं भविष्यति न संशयः

॥३१॥

एतदर्थं तु सत्कर्म सुरर्षे त्वं समाचर ।

तत्ते कर्माभिधास्यन्ति साधवः साधुभूषणाः

॥३२॥

सत्कर्मणि कृते तस्मिन् सनिद्रा वृद्धतानयोः ।

गमिष्यति क्षणाद्भक्तिः सर्वतः प्रसरिष्यति

॥३३॥

इत्याकाशवचः स्पष्टं तत्सर्वैरपि विश्रुतम् ।

नारदो विस्मयं लेभे नेदं ज्ञातमिति ब्रुवन्

॥३४॥

नारद उवाच

अनयाऽऽकाशवाण्यापि गोप्यत्वेन निरूपितम् ।

किं वा तत्साधनं कार्यं येन कार्यं भवेत् तयोः

॥३५॥

क्व भविष्यन्ति सन्तस्ते कथं दास्यन्ति साधनम् ।

मयात्र किं प्रकर्तव्यं यदुक्तं व्योमभाषया

॥३६॥

सूत उवाच

तत्र द्वौ अपि संस्थाप्य निर्गतो नारदो मुनिः ।

तीर्थं तीर्थं विनिष्क्रम्य पृच्छन् मार्गे मुनीश्वरान्

॥३७॥

वृत्तान्तः श्रूयते सर्वैः किंचित् निश्चित्य नोच्यते ।

असाध्यं केचन प्रोचुः दुर्ज्ञेयमिति चापरे ।

मूकीभूतास्तथान्ये तु कियन्तस्तु पलायिताः

॥३८॥

हाहाकारो महानासीत् त्रैलोक्ये विस्मयावहः ।

वेदवेदान्तघोषैश्च गीतापाठैर्विबोधितम्

॥३९॥

भक्तिज्ञानविरागाणां नोदतिष्ठत् त्रिकं यदा उपायो नापरोऽस्तीति कर्णे कर्णेऽजपञ्जनाः

॥४०॥

योगिना नारदेनापि स्वयं न ज्ञायते तु यत् ।

तत्कथं शक्यते वक्तुं इतरैरिह मानुषैः

॥४१॥

एवं ऋषिगणैः पृष्टैः निर्णीयोक्तं दुरासदम्

॥४२॥

ततश्चिन्तातुरः सोऽथ बदरीवनमागतः ।

तपश्चरामि चात्रेति तदर्थं कृतनिश्चयः

॥४३॥

तावद् ददर्श पुरतः सनकादीन् मुनीश्वरान् ।

कोटिसूर्यसमाभासान् उवाच मुनिसत्तमः

॥४४॥

नारद उवाच

इदानीं भूरिभाग्येन भवद्भिः संगमोऽभवत् ।

कुमारा ब्रुवतां शीघ्रं कृपां कृत्वा ममोपरि

॥४५॥

भवन्तो योगिनः सर्वे बुद्धिमन्तो बहुश्रुताः ।

पञ्चहायनसंयुक्ताः पूर्वेषामपि पूर्वजाः

॥४६॥

सदा वैकुण्ठनिलया हरिकीर्तनतत्पराः ।

लीलामृतरसोन्मत्ताः कथामात्रैकजीविनः

॥४७॥

हरिः शरणमेव हि नित्यं येषां मुखे वचः ।

अथ कालसमादिष्टा जरा युष्मान्न बाधते

॥४८॥

येषां भ्रूभङ्गमात्रेण द्वारपालौ हरेः पुरा ।

भ्रूमौ निपतितौ सद्यो यत्कृपातः पुरं गतौ

॥४९॥

अहो भाग्यस्य योगेन दर्शनं भवतामिह ।

अनुग्रहस्तु कर्तव्यो मयि दीने दयापरैः

॥५०॥

अशरीरगिरोक्तं यत् तत्किं साधनमुच्यताम् ।

अनुष्ठेयं कथं तावत् प्रब्रुवन्तु सविस्तरम्

॥५१॥

भक्तिज्ञानविरागाणां सुखं उत्पद्यते कथम् ।

स्थापनं सर्ववर्णेषु प्रेमपूर्वं प्रयत्नतः

॥५२॥

कुमारा ऊचुः

मा चिन्तां कुरु देवर्षे हर्षं चित्ते समावह ।

उपायः सुखसाध्योऽत्र वर्तते पूर्व एव हि

॥५३॥

अहो नारद धन्योऽसि विरक्तानां शिरोमणिः ।

सदा श्रीकृष्णदासानां अग्रणीः योगभास्करः

॥५४॥

त्वयि चित्रं न मन्तव्यं भक्त्यर्थं अनुवर्तिनि ।

घटते कृष्णदासस्य भक्तेः संस्थापना सदा

॥५५॥

ऋषिर्बहवो लोके पन्थानः प्रकटीकृताः ।

श्रमसाध्याश्च ते सर्वे प्रायः स्वर्गफलप्रदाः

॥५६॥

वैकुण्ठसाधकं पन्थाः स तु गोप्यो हि वर्तते ।

तस्योपदेष्टा पुरुषः प्रायो भाग्येन लभ्यते

॥५७॥

सत्कर्म तव निर्दिष्टं व्योमवाचा तु यत्पुरा ।

तदुच्यते श्रृणुष्वाद्य स्थिरचित्तः प्रसन्नधीः

॥५८॥

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे ।

स्वाध्यायज्ञानयज्ञाश्च ते तु कर्मविसूचकाः

॥५९॥

सत्कर्मसूचको नूनं ज्ञानयज्ञः स्मृतो बुधैः ।

श्रीमद्भागवतालापः स तु गीतः शुकादिभिः

॥६०॥

भक्तिज्ञानविरागाणां तद्घोषेण बलं महत् ।

व्रजिष्यति द्वयोः कष्टं सुखं भक्तेर्भविष्यति

॥६१॥

प्रलयं हि गमिष्यन्ति श्रीमद्भागवतध्वनेः ।

कलेर्दोषा इमे सर्व सिंहशब्दाद् वृका इव

॥६२॥

ज्ञानवैराग्यसंयुक्ता भक्तिः प्रेमरसावहा ।

प्रतिगेहं प्रतिजनं ततः क्रीडां करिष्यति

॥६३॥

नारद उवाच

वेदवेदान्तघोषैश्च गीतापाठैः प्रबोधितम् ।

भक्तिज्ञानविरागाणां नोदतिष्ठत् त्रिकं यदा

॥६४॥

श्रीमद्भागवत आलापात् तत्कथं बोधमेष्यति ।

तत्कथासु तु वेदार्थः श्लोके श्लोके पदे पदे

॥६५॥

छिन्दन्तु संशयं ह्येनं भवन्तोऽमोघदर्शनाः ।

विलम्बो नात्र कर्तव्यः शरणागतवत्सलाः

॥६६॥

कुमारा ऊचुः

वेदोपनिषदां सारात् जाता भागवती कथा ।

अत्युत्तमा ततो भाति पृथग्भूता फलाकृतिः

॥६७॥

आमूलाग्रं रसस्तिष्ठन् नास्ते न स्वाद्यते यथा ।

सभूयः संपृथग्भूतः फले विश्वमनोहरः

॥६८॥

यथा दुग्धे स्थितं सर्पिः न स्वादायोपकल्पते ।

पृथग्भूतं हि तद्गव्यं देवानां रसवर्धनम्

॥६९॥

इक्षूणामपि मध्यान्तं शर्करा व्याप्य तिष्ठति ।

पृथग्भूता च सा मिष्टा तथा भागवती कथा

॥७०॥

इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ।

भक्तिज्ञानविरागाणां स्थापनाय प्रकाशितम्

॥७१॥

वेदान्तवेदसुस्नाते गीताया अपि कर्तरि ।

परितापवति व्यासे मुह्यत्यज्ञानसागरे

॥७२॥

तदा त्वया पुरा प्रोक्तं चतुःश्लोकसमन्वितम् ।

तदीयश्रवणात् सद्यो निर्बाधो बादरायणः

॥७३॥

तत्र ते विस्मयः केन यतः प्रश्नकरो भवान् ।

श्रीमद्भागवतं श्राव्य शोकदुःखविनाशनम्

॥७४॥

नारद उवाच

(वसंतितिलका) यद्दर्शनं च विनिहन्त्यशुभानि सद्यः श्रेयस्तनोति भवदुःखदवार्दितानाम् ।

निःशेषशेषमुखगीतकथैकपानाः प्रेमप्रकाशकृतये शरणं गतोऽस्मि

॥७५॥

भाग्योदयेन बहुजन्मसमर्जितेन सत्संगमं च लभते पुरुषो यदा वै ।

अज्ञानहेतुकृतमोहमदान्धकार नाशं विधाय हि तदोदयते विवेकः

॥७६॥

इति श्रीपद्मपुराणे उत्तरखण्डे श्रीमद्भागवतमाहात्म्ये कुमारनारदसंवादो नाम द्वितीयोऽध्यायः ॥ २ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु