विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः
कालियदमनम्-नागपत्नीकृतं नागकर्तृकं च भगवतः स्तवनं नागद्वारा ह्रदपरित्यागश्च - ( अनुष्टुप् ) श्रीशुक उवाच ।
विलोक्य दूषितां कृष्णां कृष्णः कृष्णाहिना विभुः ।
तस्या विशुद्धिमन्विच्छन्सर्पं तमुदवासयत्
॥१॥श्रीराजोवाच
कथमन्तर्जलेऽगाधे न्यगृह्णाद् भगवानहिम् ।
स वै बहुयुगावासं यथाऽऽसीद् विप्र कथ्यताम्
॥२॥ब्रह्मन्भगवतस्तस्य भूम्नः स्वच्छन्दवर्तिनः ।
गोपालोदारचरितं कस्तृप्येतामृतं जुषन्
॥३॥श्रीशुक उवाच
कालिन्द्यां कालियस्यासीद् ह्रदः कश्चिद् विषाग्निना ।
श्रप्यमाणपया यस्मिन् पतन्त्युपरिगाः खगाः
॥४॥विप्रुष्मता विषदोर्मि मारुतेनाभिमर्शिताः ।
म्रियन्ते तीरगा यस्य प्राणिनः स्थिरजङ्गमाः
॥५॥( वसंततिलका ) तं चण्डवेगविषवीर्यमवेक्ष्य तेन दुष्टां नदीं च खलसंयमनावतारः ।
कृष्णः कदम्बमधिरुह्य ततोऽतितुङ्गम् आस्फोट्य गाढरशनो न्यपतद् विषोदे
॥६॥सर्पह्रदः पुरुषसारनिपातवेग संक्षोभितोरगविषोच्छ्वसिताम्बुराशिः ।
पर्यक्प्लुतो विषकषायबिभीषणोर्मिः धावन् धनुःशतमनन्तबलस्य किं तत्
॥७॥तस्य ह्रदे विहरतो भुजदण्डघूर्ण वार्घोषमङ्ग वरवारणविक्रमस्य ।
आश्रुत्य तत् स्वसदनाभिभवं निरीक्ष्य चक्षुःश्रवाः समसरत् तदमृष्यमाणः
॥८॥तं प्रेक्षणीयसुकुमारघनावदातं श्रीवत्सपीतवसनं स्मितसुन्दरास्यम् ।
क्रीडन्तमप्रतिभयं कमलोदराङ्घ्रिं सन्दश्य मर्मसु रुषा भुजया चछाद
॥९॥तं नागभोगपरिवीतमदृष्टचेष्टम् आलोक्य तत्प्रियसखाः पशुपा भृशार्ताः ।
कृष्णेऽर्पितात्मसुहृदर्थकलत्रकामा दुःखानुशोकभयमूढधियो निपेतुः
॥१०॥( अनुष्टुप् ) गावो वृषा वत्सतर्यः क्रन्दमानाः सुदुःखिताः ।
कृष्णे न्यस्तेक्षणा भीता रुदत्य इव तस्थिरे
॥११॥अथ व्रजे महोत्पाताः त्रिविधा ह्यतिदारुणाः ।
उत्पेतुर्भुवि दिव्यात्मन् यासन्नभयशंसिनः
॥१२॥तानालक्ष्य भयोद्विग्ना गोपा नन्दपुरोगमाः ।
विना रामेण गाः कृष्णं ज्ञात्वा चारयितुं गतम्
॥१३॥तैर्दुर्निमित्तैर्निधनं मत्वा प्राप्तमतद् विदः ।
तत् प्राणास्तन्मनस्कास्ते दुःखशोकभयातुराः
॥१४॥आबालवृद्धवनिताः सर्वेऽङ्ग पशुवृत्तयः ।
निर्जग्मुर्गोकुलाद् दीनाः कृष्णदर्शनलालसाः
॥१५॥तांस्तथा कातरान् वीक्ष्य भगवान् माधवो बलः ।
प्रहस्य किञ्चिन्नोवाच प्रभावज्ञोऽनुजस्य सः ।
तेऽन्वेषमाणा दयितं कृष्णं सूचितया पदैः ।
भगवत् लक्षणैर्जग्मुः पदव्या यमुनातटम्
॥१७॥( इंद्रवंशा ) ते तत्र तत्राब्जयवाङ्कुशाशनि ध्वजोपपन्नानि पदानि विश्पतेः ।
मार्गे गवामन्यपदान्तरान्तरे निरीक्षमाणा ययुरङ्ग सत्वराः
॥१८॥( वसंततिलका ) अन्तर्ह्रदे भुजगभोगपरीतमारात् ।
कृष्णं निरीहमुपलभ्य जलाशयान्ते ।
गोपांश्च मूढधिषणान् परितः पशूंश्च संक्रन्दतः परमकश्मलमापुरार्ताः
॥१९॥गोप्योऽनुरक्तमनसो भगवत्यनन्ते ।
तत्सौहृदस्मितविलोकगिरः स्मरन्त्यः ।
ग्रस्तेऽहिना प्रियतमे भृशदुःखतप्ताः शून्यं प्रियव्यतिहृतं ददृशुस्त्रिलोकम्
॥२०॥ताः कृष्णमातरमपत्यमनुप्रविष्टां तुल्यव्यथाः समनुगृह्य शुचः स्रवन्त्यः ।
तास्ता व्रजप्रियकथाः कथयन्त्य आसन् कृष्णाननेऽर्पितदृशो मृतकप्रतीकाः
॥२१॥( अनुष्टुप् ) कृष्णप्राणान् निर्विशतो नन्दादीन् वीक्ष्य तं ह्रदम् ।
प्रत्यषेधत् स भगवान् रामः कृष्णानुभाववित्
॥२२॥( वसंततिलका ) इत्थं स्वगोकुलमनन्यगतिं निरीक्ष्य सस्त्रीकुमारमतिदुःखितमात्महेतोः ।
आज्ञाय मर्त्यपदवीमनुवर्तमानः स्थित्वा मुहूर्तमुदतिष्ठदुरङ्गबन्धात्
॥२३॥तत्प्रथ्यमानवपुषा व्यथितात्मभोगः त्यक्त्वोन्नमय्य कुपितः स्वफणान्भुजङ्गः ।
तस्थौ श्वसन् श्वसनरन्ध्रविषाम्बरीष स्तब्धेक्षणोल्मुकमुखो हरिमीक्षमाणः
॥२४॥तं जिह्वया द्विशिखया परिलेलिहानं द्वे सृक्किणी ह्यतिकरालविषाग्निदृष्टिम् ।
क्रीडन्नमुं परिससार यथा खगेन्द्रो बभ्राम सोऽप्यवसरं प्रसमीक्षमाणः
॥२५॥एवं परिभ्रमहतौजसमुन्नतांसम् आनम्य तत्पृथुशिरःस्वधिरूढ आद्यः ।
तन्मूर्धरत्ननिकरस्पर्शातिताम्र पादाम्बुजोऽखिलकलादिगुरुर्ननर्त
॥२६॥तं नर्तुमुद्यतमवेक्ष्य तदा तदीय गन्धर्वसिद्धमुनिचारणदेववध्वः ।
प्रीत्या मृदङ्गपणवानकवाद्यगीत पुष्पोपहारनुतिभिः सहसोपसेदुः
॥२७॥यद् यद् शिरो न नमतेऽङ्ग शतैकशीर्ष्णः तत्तन्ममर्द खरदण्डधरोऽङ्घ्रिपातैः ।
क्षीणायुषो भ्रमत उल्बणमास्यतोऽसृङ् नस्तो वमन् परमकश्मलमाप नागः
॥२८॥तस्याक्षिभिर्गरलमुद्वमतः शिरःसु यद् यत् समुन्नमति निःश्वसतो रुषोच्चैः ।
नृत्यन् पदानुनमयन् दमयां बभूव पुष्पैः प्रपूजित इवेह पुमान्पुराणः
॥२९॥तच्चित्रताण्डवविरुग्णफणातपत्रो रक्तं मुखैरुरु वमन् नृप भग्नगात्रः ।
स्मृत्वा चराचरगुरुं पुरुषं पुराणं नारायणं तमरणं मनसा जगाम
॥३०॥कृष्णस्य गर्भजगतोऽतिभरावसन्नं पार्ष्णिप्रहारपरिरुग्णफणातपत्रम् ।
दृष्ट्वाहिमाद्यमुपसेदुरमुष्य पत्न्य आर्ताः श्लथद्वसन भूषणकेशबन्धाः
॥३१॥तास्तं सुविग्नमनसोऽथ पुरस्कृतार्भाः कायं निधाय भुवि भूतपतिं प्रणेमुः ।
साध्व्यः कृताञ्जलिपुटाः शमलस्य भर्तुः मोक्षेप्सवः शरणदं शरणं प्रपन्नाः
॥३२॥नागपत्न्य ऊचुः
( इंद्रवज्रा ) न्याय्यो हि दण्डः कृतकिल्बिषेऽस्मिन् तवावतारः खलनिग्रहाय ।
रिपोः सुतानामपि तुल्यदृष्टेः धत्से दमं फलमेवानुशंसन्
॥३३॥( वंशस्था ) अनुग्रहोऽयं भवतः कृतो हि नो दण्डोऽसतां ते खलु कल्मषापहः ।
यद् दन्दशूकत्वममुष्य देहिनः क्रोधोऽपि तेऽनुग्रह एव सम्मतः
॥३४॥( उपेंद्रवज्रा ) तपः सुतप्तं किमनेन पूर्वं निरस्तमानेन च मानदेन ।
धर्मोऽथ वा सर्वजनानुकम्पया यतो भवांस्तुष्यति सर्वजीवः
॥३५॥( मिश्र ) कस्यानुभावोऽस्य न देव विद्महे तवाङ्घ्रिरेणु स्पर्शाधिकारः ।
यद्वाञ्छया श्रीर्ललनाचरत्तपो विहाय कामान् सुचिरं धृतव्रता
॥३६॥न नाकपृष्ठं न च सार्वभौमं न पारमेष्ठ्यं न रसाधिपत्यम् ।
न योगसिद्धीरपुनर्भवं वा वाञ्छन्ति यत्पादरजःप्रपन्नाः
॥३७॥तदेष नाथाप दुरापमन्यैः तमोजनिः क्रोधवशोऽप्यहीशः ।
संसारचक्रे भ्रमतः शरीरिणो यदिच्छतः स्याद् विभवः समक्षः
॥३८॥( अनुष्टुप् ) नमस्तुभ्यं भगवते पुरुषाय महात्मने ।
भूतावासाय भूताय पराय परमात्मने
॥३९॥ज्ञानविज्ञाननिधये ब्रह्मणेऽनन्तशक्तये ।
अगुणायाविकाराय नमस्तेऽप्राकृताय च
॥४०॥कालाय कालनाभाय कालावयवसाक्षिणे ।
विश्वाय तदुपद्रष्ट्रे तत्कर्त्रे विश्वहेतवे
॥४१॥भूतमात्रेन्द्रियप्राण मनोबुद्ध्याशयात्मने ।
त्रिगुणेनाभिमानेन गूढस्वात्मानुभूतये
॥४२॥नमोऽनन्ताय सूक्ष्माय कूटस्थाय विपश्चिते ।
नानावादानुरोधाय वाच्यवाचक शक्तये
॥४३॥नमः प्रमाणमूलाय कवये शास्त्रयोनये ।
प्रवृत्ताय निवृत्ताय निगमाय नमो नमः
॥४४॥नमः कृष्णाय रामाय वसुदेवसुताय च ।
प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः
॥४५॥नमो गुणप्रदीपाय गुणात्मच्छादनाय च ।
गुणवृत्त्युपलक्ष्याय गुणद्रष्टे स्वसंविदे
॥४६॥अव्याकृतविहाराय सर्वव्याकृतसिद्धये ।
हृषीकेश नमस्तेऽस्तु मुनये मौनशीलिने
॥४७॥परावरगतिज्ञाय सर्वाध्यक्षाय ते नमः ।
अविश्वाय च विश्वाय तद्द्रष्टेऽस्य च हेतवे
॥४८॥( मिश्र ) त्वं ह्यस्य जन्मस्थितिसंयमान् प्रभो गुणैरनीहोऽकृत कालशक्तिधृक् ।
तत्तत् स्वभावान् प्रतिबोधयन् सतः समीक्षयामोघविहार ईहसे
॥४९॥( इंद्रवंशा ) तस्यैव तेऽमूस्तनवस्त्रिलोक्यां शान्ता अशान्ता उत मूढयोनयः ।
शान्ताः प्रियास्ते ह्यधुनावितुं सतां स्थातुश्च ते धर्मपरीप्सयेहतः
॥५०॥( अनुष्टुप् ) अपराधः सकृद् भर्त्रा सोढव्यः स्वप्रजाकृतः ।
क्षन्तुमर्हसि शान्तात्मम् मूढस्य त्वामजानतः
॥५१॥अनुगृह्णीष्व भगवन् प्राणांस्त्यजति पन्नगः ।
स्त्रीणां नः साधुशोच्यानां पतिः प्राणः प्रदीयताम्
॥५२॥विधेहि ते किङ्करीणां अनुष्ठेयं तवाज्ञया ।
यच्छ्रद्धयानुतिष्ठन् वै मुच्यते सर्वतो भयात्
॥५३॥श्रीशुक उवाच
इत्थं स नागपत्नीभिः भगवान् समभिष्टुतः ।
मूर्च्छितं भग्नशिरसं विससर्जाङ्घ्रिकुट्टनैः
॥५४॥प्रतिलब्धेन्द्रियप्राणः कालियः शनकैर्हरिम् ।
कृच्छ्रात् समुच्छ्वसन् दीनः कृष्णं प्राह कृताञ्जलिः
॥५५॥कालिय उवाच
वयं खलाः सहोत्पत्त्या तमसा दीर्घमन्यवः ।
स्वभावो दुस्त्यजो नाथ लोकानां यदसद्ग्रहः
॥५६॥त्वया सृष्टमिदं विश्वं धातर्गुणविसर्जनम् ।
नानास्वभाववीर्यौजो योनिबीजाशयाकृति
॥५७॥वयं च तत्र भगवन् सर्पा जात्युरुमन्यवः ।
कथं त्यजामस्त्वन्मायां दुस्त्यजां मोहिताः स्वयम्
॥५८॥भवान् हि कारणं तत्र सर्वज्ञो जगदीश्वरः ।
अनुग्रहं निग्रहं वा मन्यसे तद् विधेहि नः
॥५९॥श्रीशुक उवाच
इत्याकर्ण्य वचः प्राह भगवान् कार्यमानुषः ।
नात्र स्थेयं त्वया सर्प समुद्रं याहि मा चिरम् ।
स्वज्ञात्यपत्यदाराढ्यो गोनृभिर्भुज्यतां नदी
॥६०॥य एतत् संस्मरेन् मर्त्यः तुभ्यं मदनुशासनम् ।
कीर्तयन् उभयोः सन्ध्योः न युष्मद् भयमाप्नुयात्
॥६१॥योऽस्मिन् स्नात्वा मदाक्रीडे देवादीन् तर्पयेज्जलैः ।
उपोष्य मां स्मरन्नर्चेत् सर्वपापैः प्रमुच्यते
॥६२॥द्वीपं रमणकं हित्वा ह्रदमेतमुपाश्रितः ।
यद् भयात्स सुपर्णस्त्वां नाद्यान्मत्पाद लाञ्छितम्
॥६३॥श्रीऋषिरुवाच
एवमुक्तो भगवता कृष्णेनाद्भुतकर्मणा ।
तं पूजयामास मुदा नागपत्न्यश्च सादरम्
॥६४॥दिव्याम्बरस्रङ् मणिभिः परार्ध्यैरपि भूषणैः ।
दिव्यगन्धानुलेपैश्च महत्योत्पलमालया
॥६५॥पूजयित्वा जगन्नाथं प्रसाद्य गरुडध्वजम् ।
ततः प्रीतोऽभ्यनुज्ञातः परिक्रम्याभिवन्द्य तम्
॥६६॥सकलत्रसुहृत्पुत्रो द्वीपमब्धेर्जगाम ह ।
तदैव सामृतजला यमुना निर्विषाभवत् ।
अनुग्रहाद् भगवतः क्रीडामानुषरूपिणः
॥६७॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे षोडशोऽध्यायः ॥ १६ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु