मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — दशमस्कन्धः (पूर्वार्धः), अध्याय ४४

3
दशमस्कन्धः (पूर्वार्धः) · 44

चाणूरमुष्टिकादीनां मल्लानां निधनं कंसस्य वधश्च

श्रीशुक उवाच

( अनुष्टुप् ) एवं चर्चितसङ्कल्पो भगवान् मधुसूदनः ।

आससादाथ चणूरं मुष्टिकं रोहिणीसुतः

॥१॥

हस्ताभ्यां हस्तयोर्बद्ध्वा पद्भ्यामेव च पादयोः ।

विचकर्षतुरन्योन्यं प्रसह्य विजिगीषया

॥२॥

अरत्नी द्वे अरत्निभ्यां जानुभ्यां चैव जानुनी ।

शिरः शीर्ष्णोरसोरस्तौ अन्योन्यं अभिजघ्नतुः

॥३॥

परिभ्रामणविक्षेप परिरम्भावपातनैः ।

उत्सर्पणापसर्पणैः चान्योन्यं प्रत्यरुन्धताम्

॥४॥

उत्थापनैरुन्नयनैः चालनैः स्थापनैरपि ।

परस्परं जिगीषन्तौ अपचक्रतुरात्मनः

॥५॥

तद्बलाबलवद् युद्धं समेताः सर्वयोषितः ।

ऊचुः परस्परं राजन् सानुकम्पा वरूथशः

॥६॥

महानयं बताधर्म एषां राजसभासदाम् ।

ये बलाबलवद् युद्धं राज्ञोऽन्विच्छन्ति पश्यतः

॥७॥

क्व वज्रसारसर्वाङ्गौ मल्लौ शैलेन्द्रसन्निभौ ।

क्व चातिसुकुमाराङ्गौ किशोरौ नाप्तयौवनौ

॥८॥

धर्मव्यतिक्रमो ह्यस्य समाजस्य ध्रुवं भवेत् ।

यत्राधर्मः समुत्तिष्ठेत् न स्थेयं तत्र कर्हिचित्

॥९॥

न सभां प्रविशेत् प्राज्ञः सभ्यदोषान् अनुस्मरन् ।

अब्रुवन् विब्रुवन्नज्ञो नरः किल्बिषमश्नुते

॥१०॥

वल्गतः शत्रुमभितः कृष्णस्य वदनाम्बुजम् ।

वीक्ष्यतां श्रमवार्युप्तं पद्मकोशमिवाम्बुभिः

॥११॥

किं न पश्यत रामस्य मुखमाताम्रलोचनम् ।

मुष्टिकं प्रति सामर्षं हाससंरम्भशोभितम्

॥१२॥

( वसंततिलका ) पुण्या बत व्रजभुवो यदयं नृलिङ्ग गूढः पुराणपुरुषो वनचित्रमाल्यः ।

गाः पालयन्सहबलः क्वणयंश्च वेणुं विक्रीदयाञ्चति गिरित्ररमार्चिताङ्घ्रिः

॥१३॥

गोप्यस्तपः किमचरन् यदमुष्य रूपं लावण्यसारमसमोर्ध्वमनन्यसिद्धम् ।

दृग्भिः पिबन्त्यनुसवाभिनवं दुरापम् एकान्तधाम यशसः श्रीय ऐश्वरस्य

॥१४॥

या दोहनेऽवहनने मथनोपलेप प्रेङ्खेङ्खनार्भरुदितो-क्षणमार्जनादौ ।

गायन्ति चैनमनुरक्तधियोऽश्रुकण्ठ्यो धन्या व्रजस्त्रिय उरुक्रमचित्तयानाः

॥१५॥

प्रातर्व्रजाद् व्रजत आविशतश्च सायं गोभिः समं क्वणयतोऽस्य निशम्य वेणुम् ।

निर्गम्य तूर्णमबलाः पथि भूरिपुण्याः पश्यन्ति सस्मितमुखं सदयावलोकम्

॥१६॥

( अनुष्टुप् ) एवं प्रभाषमाणासु स्त्रीषु योगेश्वरो हरिः ।

शत्रुं हन्तुं मनश्चक्रे भगवान् भरतर्षभ

॥१७॥

सभयाः स्त्रीगिरः श्रुत्वा पुत्रस्नेहशुचाऽऽतुरौ ।

पितरौ अन्वतप्येतां पुत्रयोरबुधौ बलम्

॥१८॥

तैस्तैर्नियुद्धविधिभिः विविधैरच्युतेतरौ ।

युयुधाते यथान्योन्यं तथैव बलमुष्टिकौ

॥१९॥

भगवद्गात्रनिष्पातैः वज्रनीष्पेषनिष्ठुरैः ।

चाणूरो भज्यमानाङ्गो मुहुर्ग्लानिमवाप ह

॥२०॥

स श्येनवेग उत्पत्य मुष्टीकृत्य करावुभौ ।

भगवन्तं वासुदेवं क्रुद्धो वक्षस्यबाधत

॥२१॥

नाचलत् तत्प्रहारेण मालाहत इव द्विपः ।

बाह्वोर्निगृह्य चाणूरं बहुशो भ्रामयन् हरिः

॥२२॥

भूपृष्ठे पोथयामास तरसा क्षीण जीवितम् ।

विस्रस्ताकल्पकेशस्रग् इन्द्रध्वज इवापतत्

॥२३॥

तथैव मुष्टिकः पूर्वं स्वमुष्ट्याभिहतेन वै ।

बलभद्रेण बलिना तलेनाभिहतो भृशम्

॥२४॥

प्रवेपितः स रुधिरं उद्वमन् मुखतोऽर्दितः ।

व्यसुः पपातोर्व्युपस्थे वाताहत इवाङ्घ्रिपः

॥२५॥

ततः कूटमनुप्राप्तं रामः प्रहरतां वरः ।

अवधीत् लीलया राजन् सावज्ञं वाममुष्टिना

॥२६॥

तर्ह्येव हि शलः कृष्ण प्रपदाहतशीर्षकः ।

द्विधा विदीर्णस्तोशलक उभावपि निपेततुः

॥२७॥

चाणूरे मुष्टिके कूटे शले तोशलके हते ।

शेषाः प्रदुद्रुवुर्मल्लाः सर्वे प्राणपरीप्सवः

॥२८॥

गोपान् वयस्यान् आकृष्य तैः संसृज्य विजह्रतुः ।

वाद्यमानेषु तूर्येषु वल्गन्तौ रुतनूपुरौ

॥२९॥

जनाः प्रजहृषुः सर्वे कर्मणा रामकृष्णयोः ।

ऋते कंसं विप्रमुख्याः साधवः साधु साध्विति

॥३०॥

हतेषु मल्लवर्येषु विद्रुतेषु च भोजराट् ।

न्यवारयत् स्वतूर्याणि वाक्यं चेदमुवाच ह

॥३१॥

निःसारयत दुर्वृत्तौ वसुदेवात्मजौ पुरात् ।

धनं हरत गोपानां नन्दं बध्नीत दुर्मतिम्

॥३२॥

वसुदेवस्तु दुर्मेधा हन्यतामाश्वसत्तमः ।

उग्रसेनः पिता चापि सानुगः परपक्षगः

॥३३॥

एवं विकत्थमाने वै कंसे प्रकुपितोऽव्ययः ।

लघिम्नोत्पत्य तरसा मञ्चमुत्तुङ्गमारुहत्

॥३४॥

तं आविशन्तमालोक्य मृत्युमात्मन आसनात् ।

मनस्वी सहसोत्थाय जगृहे सोऽसिचर्मणी

॥३५॥

( मिश्र ) तं खड्गपाणिं विचरन्तमाशु श्येनं यथा दक्षिणसव्यमम्बरे ।

समग्रहीद् दुर्विषहोग्रतेजा यथोरगं तार्क्ष्यसुतः प्रसह्य

॥३६॥

प्रगृह्य केशेषु चलत्किरीतं निपात्य रङ्गोपरि तुङ्गमञ्चात् ।

तस्योपरिष्टात् स्वत्स्वयमब्जनाभः पपात विश्वाश्रय आत्मतन्त्रः

॥३७॥

तं सम्परेतं विचकर्ष भूमौ हरिर्यथेभं जगतो विपश्यतः ।

हा हेति शब्दः सुमहान् तदाभूद् उदीरितः सर्वजनैर्नरेन्द्र

॥३८॥

स नित्यदोद्विग्नधिया तमीश्वरं पिबन् वदन् वा विचरन् स्वपन्श्वसन् ।

ददर्श चक्रायुधमग्रतो यतः तदेव रूपं दुरवापमाप

॥३९॥

( अनुष्टुप् ) तस्यानुजा भ्रातरोऽष्टौ कंकन्यग्रोधकादयः ।

अभ्यधावन् अतिक्रुद्धा भ्रातुर्निर्वेशकारिणः

॥४०॥

तथातिरभसांस्तांस्तु संयत्तात् रोहिणीसुतः ।

अहन् परिघमुद्यम्य पशूनिव मृगाधिपः

॥४१॥

नेदुर्दुन्दुभयो व्योम्नि ब्रह्मेशाद्या विभूतयः ।

पुष्पैः किरन्तस्तं प्रीताः शशंसुर्ननृतुः स्त्रियः

॥४२॥

तेषां स्त्रियो महाराज सुहृन्मरणदुःखिताः ।

तत्राभीयुर्विनिघ्नन्त्यः शीर्षाण्यश्रुविलोचनाः

॥४३॥

शयानान् न्वीरशय्यायां पतीन् आलिङ्ग्य शोचतीः ।

विलेपुः सुस्वरं नार्यो विसृजन्त्यो मुहुः शुचः

॥४४॥

हा नाथ प्रिय धर्मज्ञ करुणानाथवत्सल ।

त्वया हतेन निहता वयं ते सगृहप्रजाः

॥४५॥

त्वया विरहिता पत्या पुरीयं पुरुषर्षभ ।

न शोभते वयमिव निवृत्तोत्सवमङ्गला

॥४६॥

अनागसां त्वं भूतानां कृतवान् द्रोहमुल्बणम् ।

तेनेमां भो दशां नीतो भूतध्रुक् को लभेत शम्

॥४७॥

सर्वेषामिह भूतानां एष हि प्रभवाप्ययः ।

गोप्ता च तदवध्यायी न क्वचित् सुखमेधते

॥४८॥

श्रीशुक उवाच

राजयोषित आश्वास्य भगवान् लोकभावनः ।

यामाहुर्लौकिकीं संस्थां हतानां समकारयत्

॥४९॥

मातरं पितरं चैव मोचयित्वाथ बन्धनात् ।

कृष्णरामौ ववन्दाते शिरसा स्पृश्य पादयोः

॥५०॥

देवकी वसुदेवश्च विज्ञाय जगदीश्वरौ ।

कृतसंवन्दनौ पुत्रौ सस्वजाते न शङ्कितौ

॥५१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कंसवधो नाम चतुर्चत्वारिंशोऽध्यायः ॥ ४४ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु