मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — दशमस्कन्धः (पूर्वार्धः), अध्याय ४३

3
दशमस्कन्धः (पूर्वार्धः) · 43

कुवलयापीडवधः

कुवलयापीडवधः; भगवतो मल्लशाखायां प्रवेशः; चाणूरेणसह संवादश्च - श्रीशुक उवाच ।

( अनुष्टुप् ) अथ कृष्णश्च रामश्च कृतशौचौ परन्तप ।

मल्लदुन्दुभिनिर्घोषं श्रुत्वा द्रष्टुमुपेयतुः

॥१॥

रङ्गद्वारं समासाद्य तस्मिन् नागमवस्थितम् ।

अपश्यत्कुवलयापीडं कृष्णोऽम्बष्ठप्रचोदितम्

॥२॥

बद्ध्वा परिकरं शौरिः समुह्य कुटिलालकान् ।

उवाच हस्तिपं वाचा मेघनादगभीरया

॥३॥

अम्बष्ठाम्बष्ठ मार्गं नौ देह्यपक्रम मा चिरम् ।

नो चेत्सकुञ्जरं त्वाद्य नयामि यमसादनम्

॥४॥

एवं निर्भर्त्सितोऽम्बष्ठः कुपितः कोपितं गजम् ।

चोदयामास कृष्णाय कालान्तक यमोपमम्

॥५॥

करीन्द्रस्तमभिद्रुत्य करेण तरसाग्रहीत् ।

कराद् विगलितः सोऽमुं निहत्याङ्घ्रिष्वलीयत

॥६॥

सङ्क्रुद्धस्तमचक्षाणो घ्राणदृष्टिः स केशवम् ।

परामृशत् पुष्करेण स प्रसह्य विनिर्गतः

॥७॥

पुच्छे प्रगृह्यातिबलं धनुषः पञ्चविंशतिम् ।

विचकर्ष यथा नागं सुपर्ण इव लीलया

॥८॥

स पर्यावर्तमानेन सव्यदक्षिणतोऽच्युतः ।

बभ्राम भ्राम्यमाणेन गोवत्सेनेव बालकः

॥९॥

ततोऽभिमखमभ्येत्य पाणिनाऽऽहत्य वारणम् ।

प्राद्रवन् पातयामास स्पृश्यमानः पदे पदे

॥१०॥

स धावन् क्रीडया भूमौ पतित्वा सहसोत्थितः ।

तं मत्वा पतितं क्रुद्धो दन्ताभ्यां सोऽहनत् क्षितिम्

॥११॥

स्वविक्रमे प्रतिहते कुंजरेन्द्रोऽत्यमर्षितः ।

चोद्यमानो महामात्रैः कृष्णमभ्यद्रवद् रुषा

॥१२॥

तमापतन्तमासाद्य भगवान् मधुसूदनः ।

निगृह्य पाणिना हस्तं पातयामास भूतले

॥१३॥

पतितस्य पदाऽऽक्रम्य मृगेन्द्र इव लीलया ।

दन्तमुत्पाट्य तेनेभं हस्तिपांश्चाहनद्धरिः

॥१४॥

मृतकं द्विपमुत्सृज्य दन्तपाणिः समाविशत् ।

अंसन्यस्तविषाणोऽसृङ् मदबिन्दुभिरङ्कितः ।

विरूढस्वेदकणिका वदनाम्बुरुहो बभौ

॥१५॥

वृतौ गोपैः कतिपयैः बलदेवजनार्दनौ ।

रङ्गं विविशतू राजन् गजदन्तवरायुधौ

॥१६॥

( शार्दूलविक्रीडित ) मल्लानामशनिर्नृणां नरवरः स्त्रीणां स्मरो मूर्तिमान् ।

गोपानां स्वजनोऽसतां क्षितिभुजां शास्ता स्वपित्रोः शिशुः ।

मृत्युर्भोजपतेर्विराडविदुषां तत्त्वं परं योगिनां ।

वृष्णीनां परदेवतेति विदितो रङ्गं गतः साग्रजः

॥१७॥

( अनुष्टुप् ) हतं कुवलयापीडं दृष्ट्वा तावपि दुर्जयौ ।

कंसो मनस्व्यपि तदा भृशमुद्विविजे नृप

॥१८॥

( मिश्र ) तौ रेजतू रङ्गगतौ महाभुजौ विचित्रवेषाभरणस्रगम्बरौ ।

यथा नटावुत्तमवेषधारिणौ मनः क्षिपन्तौ प्रभया निरीक्षताम्

॥१९॥

निरीक्ष्य तावुत्तमपूरुषौ जना मञ्चस्थिता नागरराष्ट्रका नृप ।

प्रहर्षवेगोत्कलितेक्षणाननाः पपुर्न तृप्ता नयनैस्तदाननम्

॥२०॥

( अनुष्टुप् ) पिबन्त इव चक्षुर्भ्यां लिहन्त इव जिह्वया ।

जिघ्रन्त इव नासाभ्यां श्लिष्यन्त इव बाहुभिः

॥२१॥

ऊचुः परस्परं ते वै यथादृष्टं यथाश्रुतम् ।

तद् रूपगुणमाधुर्य प्रागल्भ्यस्मारिता इव

॥२२॥

एतौ भगवतः साक्षात् हरेर्नारायणस्य हि ।

अवतीर्णाविहांशेन वसुदेवस्य वेश्मनि

॥२३॥

एष वै किल देवक्यां जातो नीतश्च गोकुलम् ।

कालमेतं वसन् गूढो ववृधे नन्दवेश्मनि

॥२४॥

पूतनानेन नीतान्तं चक्रवातश्च दानवः ।

अर्जुनौ गुह्यकः केशी धेनुकोऽन्ये च तद्विधाः

॥२५॥

गावः सपाला एतेन दावाग्नेः परिमोचिताः ।

कालियो दमितः सर्प इन्द्रश्च विमदः कृतः

॥२६॥

सप्ताहमेकहस्तेन धृतोऽद्रिप्रवरोऽमुना ।

वर्षवाताशनिभ्यश्च परित्रातं च गोकुलम्

॥२७॥

गोप्योऽस्य नित्यमुदित हसितप्रेक्षणं मुखम् ।

पश्यन्त्यो विविधांस्तापान् तरन्ति स्माश्रमं मुदा

॥२८॥

वदन्त्यनेन वंशोऽयं यदोः सुबहुविश्रुतः ।

श्रियं यशो महत्वं च लप्स्यते परिरक्षितः

॥२९॥

अयं चास्याग्रजः श्रीमान् रामः कमललोचनः ।

प्रलम्बो निहतो येन वत्सको ये बकादयः

॥३०॥

जनेष्वेवं ब्रुवाणेषु तूर्येषु निनदत्सु च ।

कृष्णरामौ समाभाष्य चाणूरो वाक्यमब्रवीत्

॥३१॥

हे नन्दसूनो हे राम भवन्तौ वीरसंमतौ ।

नियुद्धकुशलौ श्रुत्वा राज्ञाऽऽहूतौ दिदृक्षुणा

॥३२॥

प्रियं राज्ञः प्रकुर्वत्यः श्रेयो विन्दन्ति वै प्रजाः ।

मनसा कर्मणा वाचा विपरीत मतोऽन्यथा

॥३३॥

नित्यं प्रमुदिता गोपा वत्सपाला यथा स्फुटम् ।

वनेषु मल्लयुद्धेन क्रीडन्तश्चारयन्ति गाः

॥३४॥

तस्माद् राज्ञः प्रियं यूयं वयं च करवाम हे ।

भूतानि नः प्रसीदन्ति सर्वभूतमयो नृपः

॥३५॥

तन्निशम्याब्रवीत् कृष्णो देशकालोचितं वचः ।

नियुद्धमात्मनोऽभीष्टं मन्यमानोऽभिनन्द्य च

॥३६॥

प्रजा भोजपतेरस्य वयं चापि वनेचराः ।

करवाम प्रियं नित्यं तन्नः परमनुग्रहः

॥३७॥

बाला वयं तुल्यबलैः क्रीडिष्यामो यथोचितम् ।

भवेन्नियुद्धं माधर्मः स्पृशेन्मल्ल सभासदः

॥३८॥

चाणूर उवाच

न बालो न किशोरस्त्वं बलश्च बलिनां वरः ।

लीलयेभो हतो येन सहस्रद्विपसत्त्वभृत्

॥३९॥

तस्माद् भवद्भ्यां बलिभिः योद्धव्यं नानयोऽत्र वै ।

मयि विक्रम वार्ष्णेय बलेन सह मुष्टिकः

॥४०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे कुवलयापीडवधो नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु