मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — दशमस्कन्धः (पूर्वार्धः), अध्याय २०

3
दशमस्कन्धः (पूर्वार्धः) · 20

प्रावृड्वर्णनं शरद्वर्णनं च

श्रीशुक उवाच

( अनुष्टुप् ) तयोस्तदद्भुतं कर्म दावाग्नेर्मोक्षमात्मनः ।

गोपाः स्त्रीभ्यः समाचख्युः प्रलम्बवधमेव च

॥१॥

गोपवृद्धाश्च गोप्यश्च तदुपाकर्ण्य विस्मिताः ।

मेनिरे देवप्रवरौ कृष्णरामौ व्रजं गतौ

॥२॥

ततः प्रावर्तत प्रावृट् सर्वसत्त्वसमुद्भवा ।

विद्योतमानपरिधिः विस्फूर्जित नभस्तला

॥३॥

सान्द्रनीलाम्बुदैर्व्योम सविद्युत् स्तनयित्नुभिः ।

अस्पष्टज्योतिः आच्छन्नं ब्रह्मेव सगुणं बभौ

॥४॥

अष्टौ मासान् निपीतं यद् भूम्याश्चोदमयं वसु ।

स्वगोभिर्मोक्तुमारेभे पर्जन्यः काल आगते

॥५॥

तडिद्वन्तो महामेघाः चण्ड श्वसन वेपिताः ।

प्रीणनं जीवनं ह्यस्य मुमुचुः करुणा इव

॥६॥

तपःकृशा देवमीढा आसीद् वर्षीयसी मही ।

यथैव काम्यतपसः तनुः सम्प्राप्य तत्फलम्

॥७॥

निशामुखेषु खद्योताः तमसा भान्ति न ग्रहाः ।

यथा पापेन पाखण्डा न हि वेदाः कलौ युगे

॥८॥

श्रुत्वा पर्जन्यनिनदं मण्डुकाः व्यसृजन् गिरः ।

तूष्णीं शयानाः प्राग् यद्वद् ब्राह्मणा नियमात्यये

॥९॥

आसन् उत्पथवाहिन्यः क्षुद्रनद्योऽनुशुष्यतीः ।

पुंसो यथास्वतंत्रस्य देहद्रविण सम्पदः

॥१०॥

हरिता हरिभिः शष्पैः इन्द्रगोपैश्च लोहिता ।

उच्छिलीन्ध्रकृतच्छाया नृणां श्रीरिव भूरभूत्

॥११॥

क्षेत्राणि शष्यसम्पद्भिः कर्षकाणां मुदं ददुः ।

मानिनां उनुतापं वै दैवाधीनं अजानताम्

॥१२॥

जलस्थलौकसः सर्वे नववारिनिषेवया ।

अबिभ्रन् रुचिरं रूपं यथा हरिनिषेवया

॥१३॥

सरिद्भी सङ्गतः सिन्धुः चुक्षोभ श्वसनोर्मिमान् ।

अपक्वयोगिनश्चित्तं कामाक्तं गुणयुग् यथा

॥१४॥

गिरयो वर्षधाराभिः हन्यमाना न विव्यथुः ।

अभिभूयमाना व्यसनैः यथा अधोक्षजचेतसः

॥१५॥

मार्गा बभूवुः सन्दिग्धाः तृणैश्छन्ना ह्यसंस्कृताः ।

नाभ्यस्यमानाः श्रुतयो द्विजैः कालहता इव

॥१६॥

लोकबन्धुषु मेघेषु विद्युतश्चलसौहृदाः ।

स्थैर्यं न चक्रुः कामिन्यः पुरुषेषु गुणिष्विव

॥१७॥

धनुर्वियति माहेन्द्रं निर्गुणं च गुणिन्यभात् ।

व्यक्ते गुणव्यतिकरे अगुणवान् पुरुषो यथा

॥१८॥

न रराजोडुपश्छन्नः स्वज्योत्स्नाराजितैर्घनैः ।

अहंमत्या भासितया स्वभासा पुरुषो यथा

॥१९॥

मेघागमोत्सवा हृष्टाः प्रत्यनन्दन् शिखण्डिनः ।

गृहेषु तप्ता निर्विण्णा यथाच्युतजनागमे

॥२०॥

पीत्वापः पादपाः पद्भिः आसन्नानात्ममूर्तयः ।

प्राक् क्षामास्तपसा श्रान्ता यथा कामानुसेवया

॥२१॥

सरःस्वशान्तरोधःसु न्यूषुरङ्गापि सारसाः ।

गृहेष्वशान्तकृत्येषु ग्राम्या इव दुराशयाः

॥२२॥

जलौघैर्निरभिद्यन्त सेतवो वर्षतीश्वरे ।

पाषण्डिनामसद्वादैः वेदमार्गाः कलौ यथा

॥२३॥

व्यमुञ्चन् वान्वायुभिर्नुन्ना भूतेभ्योऽथामृतं घनाः ।

यथाऽऽशिषो विश्पतयः काले काले द्विजेरिताः

॥२४॥

एवं वनं तद् वर्षिष्ठं पक्वखर्जुर जम्बुमत् ।

गोगोपालैर्वृतो रन्तुं सबलः प्राविशद् हरिः

॥२५॥

धेनवो मन्दगामिन्य ऊधोभारेण भूयसा ।

ययुर्भगवताऽऽहूता द्रुतं प्रीत्या स्नुतस्तनीः

॥२६॥

वनौकसः प्रमुदिता वनराजीर्मधुच्युतः ।

जलधारा गिरेर्नादाद् आसन्ना ददृशे गुहाः

॥२७॥

क्वचिद् वनस्पतिक्रोडे गुहायां चाभिवर्षति ।

निर्विश्य भगवान् रेमे कन्दमूलफलाशनः

॥२८॥

दध्योदनं समानीतं शिलायां सलिलान्तिके ।

सम्भोजनीयैर्बुभुजे गोपैः सङ्कर्षणान्वितः

॥२९॥

शाद्वलोपरि संविश्य चर्वतो मीलितेक्षणान् ।

तृप्तान् वृषा वत्सतरान् गाश्च स्वोधोभरश्रमाः

॥३०॥

प्रावृट्श्रियं च तां वीक्ष्य सर्वभूतमुदावहाम् ।

भगवान् पूजयांचक्रे आत्मशक्त्युपबृंहिताम्

॥३१॥

एवं निवसतोस्तस्मिन् रामकेशवयोर्व्रजे ।

शरत् समभवद् व्यभ्रा स्वच्छाम्ब्वपरुषानिला

॥३२॥

शरदा नीरजोत्पत्त्या नीराणि प्रकृतिं ययुः ।

भ्रष्टानामिव चेतांसि पुनर्योगनिषेवया

॥३३॥

व्योम्नोऽब्भ्रं भूतशाबल्यं भुवः पङ्कमपां मलम् ।

शरत् जहाराश्रमिणां कृष्णे भक्तिर्यथाशुभम्

॥३४॥

सर्वस्वं जलदा हित्वा विरेजुः शुभ्रवर्चसः ।

यथा त्यक्तैषणाः शान्ता मुनयो मुक्तकिल्बिषाः

॥३५॥

गिरयो मुमुचुस्तोयं क्वचिन्न मुमुचुः शिवम् ।

यथा ज्ञानामृतं काले ज्ञानिनो ददते न वा

॥३६॥

नैवाविदन् क्षीयमाणं जलं गाधजलेचराः ।

यथाऽऽयुरन्वहं क्षय्यं नरा मूढाः कुटुम्बिनः

॥३७॥

गाधवारिचरास्तापं अविन्दन् शरदर्कजम् ।

यथा दरिद्रः कृपणः कुटुम्ब्यविजितेन्द्रियः

॥३८॥

शनैः शनैर्जहुः पङ्कं स्थलान्यामं च वीरुधः ।

यथाहंममतां धीराः शरीरादिष्वनात्मसु

॥३९॥

निश्चलाम्बुरभूत् तूष्णीं समुद्रः शरदागमे ।

आत्मनि उपरते सम्यङ् मुनिर्व्युपरतागमः

॥४०॥

केदारेभ्यस्त्वपोऽगृह्णन् कर्षका दृढसेतुभिः ।

यथा प्राणैः स्रवज्ज्ञानं तन्निरोधेन योगिनः

॥४१॥

शरदर्कांशुजांस्तापान् भूतानां उडुपोऽहरत् ।

देहाभिमानजं बोधो मुकुन्दो व्रजयोषिताम्

॥४२॥

खमशोभत निर्मेघं शरद् विमलतारकम् ।

सत्त्वयुक्तं यथा चित्तं शब्दब्रह्मार्थदर्शनम्

॥४३॥

अखण्डमण्डलो व्योम्नि रराजोडुगणैः शशी ।

यथा यदुपतिः कृष्णो वृष्णिचक्रावृतो भुवि

॥४४॥

आश्लिष्य समशीतोष्णं प्रसून वनमारुतम् ।

जनास्तापं जहुर्गोप्यो न कृष्णहृतचेतसः

॥४५॥

गावो मृगाः खगा नार्यः पुष्पिण्यः शरदाभवन् ।

अन्वीयमानाः स्ववृषैः फलैरीशक्रिया इव

॥४६॥

उदहृष्यन् वारिजानि सूर्योत्थाने कुमुद् विना ।

राज्ञा तु निर्भया लोका यथा दस्यून् विना नृप

॥४७॥

पुरग्रामेष्वाग्रयणैः इन्द्रियैश्च महोत्सवैः ।

बभौ भूः पक्वसस्याढ्या कलाभ्यां नितरां हरेः

॥४८॥

वणिङ्मुनि नृपस्नाता निर्गम्यार्थान् प्रपेदिरे ।

वर्षरुद्धा यथा सिद्धाः स्वपिण्डान् काल आगते

॥४९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे विंशोऽध्यायः ॥ २० ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु