मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

अहल्याकृत-रामस्तोत्रम्

Also spelled: Ahalyakrita-Ramastotram · Ahalyakritha-Ramasthothram

3

पारम्परिकम्

अहल्योवाच

अहो कृतार्थाऽस्मि जगन्निवास ते

पादाब्जसंलग्नरजःकणादहम् ।

स्पृशामि यत्पद्मजशङ्करादिभिः

विमृग्यते रन्धितमानसैः सदा ॥

॥१॥

अहो विचित्रं तव राम चेष्टितं

मनुष्यभावेन विमोहितं जगत् ।

चलस्यजस्रं चरणादिवर्जितः

सम्पूर्ण आनन्दमयोऽतिमायिकः ॥

॥२॥

यत्पादपङ्कजपरागपवित्रगात्रा

भागीरथी भवविरिञ्चिमुखान् पुनाति ।

साक्षात् स एव मम दृग्विषयो यदाऽऽस्ते

किं वर्ण्यते मम पुराकृतभागधेयम् ॥

॥३॥

मर्त्यावतारे मनुजाकृतिं हरिं

रामाभिधेयं रमणीयदेहिनम् ।

धनुर्धरं पद्मविशाललोचनं

भजामि नित्यं न परान् भजिष्ये ॥

॥४॥

यत्पादपङ्कजरजः श्रुतिभिर्विमृग्यं

यन्नाभिपङ्कजभवः कमलासनश्च ।

यन्नामसाररसिको भगवान् पुरारिः

तं रामचन्द्रमनिशं हृदि भावयामि ॥

॥५॥

यस्यावतारचरितानि विरिञ्चिलोके

गायन्ति नारदमुखा भवपद्मजाद्याः ।

आनन्दजाश्रुपरिषिक्तकुचाग्रसीमा

वागीश्वरी च तमहं शरणं प्रपद्ये ॥

॥६॥

सोऽयं परात्मा पुरुषः पुराणः

एकः स्वयञ्ज्योतिरनन्त आद्यः ।

मायातनुं लोकविमोहनीयां

धत्ते परानुग्रह एष रामः ॥

॥७॥

अयं हि विश्वोद्भवसंयमानाम्

एकः स्वमायागुणबिम्बितो यः ।

विरिञ्चिविष्ण्वीश्वरनामभेदान्

धत्ते स्वतन्त्रः परिपूर्ण आत्मा ॥

॥८॥

नमोऽस्तु ते राम तवाङ्घ्रिपङ्कजं

श्रिया धृतं वक्षसि लालितं प्रियात् ।

आक्रान्तमेकेन जगत्त्रयं पुरा

ध्येयं मुनीन्द्रैरभिमानवर्जितैः ॥

॥९॥

जगतामादिभूतस्त्वं जगत् त्वं जगदाश्रयः ।

सर्वभूतेष्वसंयुक्त एको भाति भवान् परः ॥

॥१०॥

ओङ्कारवाच्यस्त्वं राम वाचामविषयः पुमान् ।

वाच्यवाचकभेदेन भवानेव जगन्मयः ॥

॥११॥

कार्यकारणकर्तृत्वफलसाधनभेदतः ।

एको विभासि राम त्वं मायया बहुरूपया ॥

॥१२॥

त्वन्मायामोहितधियस्त्वां न जानन्ति तत्त्वतः ।

मानुषं त्वाऽभिमन्यन्ते मायिनं परमेश्वरम् ॥

॥१३॥

आकाशवत् त्वं सर्वत्र बहिरन्तर्गतोऽमलः ।

असङ्गो ह्यचलो नित्यः शुद्धो बुद्धः सदव्ययः ॥

॥१४॥

योषिन्मूढाऽहमज्ञा ते तत्त्वं जाने कथं विभो ।

तस्मात् ते शतशो राम नमस्कुर्यामनन्यधीः ॥

॥१५॥

देव मे यत्रकुत्रापि स्थिताया अपि सर्वदा ।

त्वत्पादकमले सक्ता भक्तिरेव सदाऽस्तु मे ॥

॥१६॥

नमस्ते पुरुषाध्यक्ष नमस्ते भक्तवत्सल ।

नमस्तेऽस्तु हृषीकेश नारायण नमोऽस्तु ते ॥

॥१७॥

भवभयहरमेकं भानुकोटिप्रकाशं

करधृतशरचापं कालमेघावभासम् ।

कनकरुचिरवस्त्रं रत्नवत्कुण्डलाढ्यं

कमलविशदनेत्रं सानुजं राममीडे ॥

॥१८॥

स्तुत्वैवं पुरुषं साक्षाद् राघवं पुरतः स्थितम् ।

परिक्रम्य प्रणम्याऽऽशु साऽनुज्ञाता ययौ पतिम् ॥

॥१९॥

अहल्यया कृतं स्तोत्रं यः पठेद् भक्तिसंयुतः ।

स मुच्यतेऽखिलैः पापैः परं ब्रह्माधिगच्छति ॥

॥२०॥

पुत्राद्यर्थे पठेद् भक्त्या रामं हृदि निधाय च ।

संवत्सरेण लभते वन्ध्या अपि सुपुत्रकम् ॥

॥२१॥

सर्वान् कामानवाप्नोति रामचन्द्रप्रसादतः ॥

॥२२॥

ब्रह्मघ्नो गुरुतल्पगोऽपि पुरुषः स्तेयी सुरापोऽपि वा

मातृभ्रातृविहिंसकोऽपि सततं भोगैकबद्धातुरः ।

नित्यं स्तोत्रमिदं जपन् रघुपतिं भक्त्या हृदिस्थं स्मरन्

ध्यायन् मुक्तिमुपैति किं पुनरसौ स्वाचारयुक्तो नरः ॥

॥२३॥

इति श्रीमदध्यात्मरामायणे श्री-अहल्याविरचितं श्री-रामचन्द्रस्तोत्रं सम्पूर्णम्