मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — दशमस्कन्धः (पूर्वार्धः), अध्याय १७

3
दशमस्कन्धः (पूर्वार्धः) · 17

नागालयं रमणकं कस्मात् तत्याज कालियः

कालियस्य यमुनाह्रदे निवासस्य कारणवर्णनं ह्रदान्निर्गतेन श्रीकृष्णेन व्रजौकसां दावानलाद् रक्षणम् - ( अनुष्टुप् ) श्रीराजोवाच ।

नागालयं रमणकं कस्मात् तत्याज कालियः ।

कृतं किं वा सुपर्णस्य तेनैकेनासमञ्जसम्

॥१॥

श्रीशुक उवाच

उपहार्यैः सर्पजनैः मासि मासीह यो बलिः ।

वानस्पत्यो महाबाहो नागानां प्राङ्निरूपितः

॥२॥

स्वं स्वं भागं प्रयच्छन्ति नागाः पर्वणि पर्वणि ।

गोपीथायात्मनः सर्वे सुपर्णाय महात्मने

॥३॥

विषवीर्य मदाविष्टः काद्रवेयस्तु कालियः ।

कदर्थीकृत्य गरुडं स्वयं तं बुभुजे बलिम्

॥४॥

तच्छ्रुत्वा कुपितो राजन् भगवान् भगवत्प्रियः ।

विजिघांसुर्महावेगः कालियं समुपाद्रवत्

॥५॥

( मिश्र ) तमापतन्तं तरसा विषायुधः प्रत्यभ्ययाद् उच्छ्रितनैकमस्तकः ।

दद्भिः सुपर्णं व्यदशद् ददायुधः कराल जिह्रोच्छ्वसितोग्र लोचनः

॥६॥

तं तार्क्ष्यपुत्रः स निरस्य मन्युमान् प्रचण्डवेगो मधुसूदनासनः ।

पक्षेण सव्येन हिरण्यरोचिषा जघान कद्रुसुतमुग्रविक्रमः

॥७॥

( अनुष्टुप् ) सुपर्णपक्षाभिहतः कालियोऽतीव विह्वलः ।

ह्रदं विवेश कालिन्द्याः तदगम्यं दुरासदम्

॥८॥

तत्रैकदा जलचरं गरुडो भक्ष्यमीप्सितम् ।

निवारितः सौभरिणा प्रसह्य क्षुधितोऽहरत्

॥९॥

मीनान् सुदुःखितान् दृष्ट्वा दीनान् मीनपतौ हते ।

कृपया सौभरिः प्राह तत्रत्यक्षेममाचरन्

॥१०॥

अत्र प्रविश्य गरुडो यदि मत्स्यान् स खादति ।

सद्यः प्राणैर्वियुज्येत सत्यमेतद् ब्रवीम्यहम्

॥११॥

तं कालियः परं वेद नान्यः कश्चन लेलिहः ।

अवात्सीद् गरुडाद् भीतः कृष्णेन च विवासितः

॥१२॥

कृष्णं ह्रदाद् विनिष्क्रान्तं दिव्यस्रग् गन्धवाससम् ।

महामणिगणाकीर्णं जाम्बूनदपरिष्कृतम्

॥१३॥

उपलभ्योत्थिताः सर्वे लब्धप्राणा इवासवः ।

प्रमोदनिभृतात्मानो गोपाः प्रीत्याभिरेभिरे

॥१४॥

यशोदा रोहिणी नन्दो गोप्यो गोपाश्च कौरव ।

कृष्णं समेत्य लब्धेहा आसन् लब्धमनोरथा

॥१५॥

रामश्चाच्युतमालिङ्ग्य जहासास्यानुभाववित् ।

नगो गावो वृषा वत्सा लेभिरे परमां मुदम्

॥१६॥

नन्दं विप्राः समागत्य गुरवः सकलत्रकाः ।

ऊचुस्ते कालियग्रस्तो दिष्ट्या मुक्तस्तवात्मजः

॥१७॥

देहि दानं द्विजातीनां कृष्णनिर्मुक्तिहेतवे ।

नन्दः प्रीतमना राजन् गाः सुवर्णं तदादिशत्

॥१८॥

यशोदापि महाभागा नष्टलब्धप्रजा सती ।

परिष्वज्याङ्कमारोप्य मुमोचाश्रुकलां मुहुः

॥१९॥

तां रात्रिं तत्र राजेन्द्र क्षुत्तृड्भ्यां श्रमकर्षिताः ।

ऊषुर्व्रयौकसो गावः कालिन्द्या उपकूलतः

॥२०॥

तदा शुचिवनोद्भूतो दावाग्निः सर्वतो व्रजम् ।

सुप्तं निशीथ आवृत्य प्रदग्धुमुपचक्रमे

॥२१॥

तत उत्थाय सम्भ्रान्ता दह्यमाना व्रजौकसः ।

कृष्णं ययुस्ते शरणं मायामनुजमीश्वरम्

॥२२॥

कृष्ण कृष्ण महाभाग हे रामामितविक्रम ।

एष घोरतमो वह्निः तावकान् ग्रसते हि नः

॥२३॥

सुदुस्तरान्नः स्वान् पाहि कालाग्नेः सुहृदः प्रभो ।

न शक्नुमः त्वच्चरणं संत्यक्तुं अकुतोभयम्

॥२४॥

इत्थं स्वजनवैक्लव्यं निरीक्ष्य जगदीश्वरः ।

तं अग्निं अपिबत् तीव्रं अनंतोऽनन्त शक्तिधृक्

॥२५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे सप्तदशोऽध्यायः ॥ १७ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु