मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — दशमस्कन्धः (पूर्वार्धः), अध्याय २३

3
दशमस्कन्धः (पूर्वार्धः) · 23

अन्नयाञ्चामिषेण यज्ञपत्नीषु अनुग्रहः

श्रीगोप ऊचुः

( अनुष्टुप् ) राम राम महाबाहो कृष्ण दुष्टनिबर्हण ।

एषा वै बाधते क्षुत् नः तच्छान्तिं कर्तुमर्हथः

॥१॥

श्रीशुक उवाच

इति विज्ञापितो गोपैः भगवान् देवकीसुतः ।

भक्ताया विप्रभार्यायाः प्रसीदन् इदमब्रवीत्

॥२॥

प्रयात देवयजनं ब्राह्मणा ब्रह्मवादिनः ।

सत्रं आङ्गिरसं नाम ह्यासते स्वर्गकाम्यया

॥३॥

तत्र गत्वौदनं गोपा याचतास्मद् विसर्जिताः ।

कीर्तयन्तो भगवत आर्यस्य मम चाभिधाम्

॥४॥

इत्यादिष्टा भगवता गत्वा याचन्त ते तथा ।

कृताञ्जलिपुटा विप्रान् दण्डवत् पतिता भुवि

॥५॥

हे भूमिदेवाः श्रृणुत कृष्णस्यादेशकारिणः ।

प्राप्ताञ्जानीत भद्रं वो गोपान् नो रामचोदितान्

॥६॥

( मिश्र ) गाश्चारयतौ अविदूर ओदनं रामाच्युतौ वो लषतो बुभुक्षितौ ।

तयोर्द्विजा ओदनमर्थिनोर्यदि श्रद्धा च वो यच्छत धर्मवित्तमाः

॥७॥

( अनुष्टुप् ) दीक्षायाः पशुसंस्थायाः सौत्रामण्याश्च सत्तमाः ।

अन्यत्र दीक्षितस्यापि नान्नमश्नन् हि दुष्यति

॥८॥

इति ते भगवद् याच्ञां शृण्वन्तोऽपि न शुश्रुवुः ।

क्षुद्राशा भूरिकर्माणो बालिशा वृद्धमानिनः

॥९॥

देशः कालः पृथग् द्रव्यं मंत्रतंत्रर्त्विजोऽग्नयः ।

देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः

॥१०॥

तं ब्रह्म परमं साक्षाद् भगवन्तं अधोक्षजम् ।

मनुष्यदृष्ट्या दुष्प्रज्ञा मर्त्यात्मानो न मेनिरे

॥११॥

न ते यदोमिति प्रोचुः न नेति च परन्तप ।

गोपा निराशाः प्रत्येत्य तथोचुः कृष्णरामयोः

॥१२॥

तदुपाकर्ण्य भगवान् प्रहस्य जगदीश्वरः ।

व्याजहार पुनर्गोपान् दर्शयँलौकिकीं गतिम्

॥१३॥

मां ज्ञापयत पत्नीभ्यः ससङ्कर्षणमागतम् ।

दास्यन्ति काममन्नं वः स्निग्धा मय्युषिता धिया

॥१४॥

गत्वाथ पत्नीशालायां दृष्ट्वासीनाः स्वलङ्कृताः ।

नत्वा द्विजसतीर्गोपाः प्रश्रिता इदमब्रुवन्

॥१५॥

नमो वो विप्रपत्नीभ्यो निबोधत वचांसि नः ।

इतोऽविदूरे चरता कृष्णेनेहेषिता वयम्

॥१६॥

गाश्चारयन् स गोपालैः सरामो दूरमागतः ।

बुभुक्षितस्य तस्यान्नं सानुगस्य प्रदीयताम्

॥१७॥

श्रुत्वाच्युतं उपायातं नित्यं तद्दर्शनोत्सुकाः ।

तत्कथाक्षिप्तमनसो बभूवुर्जातसम्भ्रमाः

॥१८॥

चतुर्विधं बहुगुणं अन्नमादाय भाजनैः ।

अभिसस्रुः प्रियं सर्वाः समुद्रमिव निम्नगाः

॥१९॥

निषिध्यमानाः पतिभिः भ्रातृभिर्बन्धुभिः सुतैः ।

भगवति उत्तमश्लोके दीर्घश्रुत धृताशयाः

॥२०॥

यमुनोपवनेऽशोक नवपल्लवमण्डिते ।

विचरन्तं वृतं गोपैः साग्रजं ददृशुः स्त्रियः

॥२१॥

( वसंततिलका ) श्यामं हिरण्यपरिधिं वनमाल्यबर्ह धातुप्रवालनटवेषमनव्रतांसे ।

विन्यस्तहस्तमितरेण धुनानमब्जं कर्णोत्पलालक कपोलमुखाब्जहासम्

॥२२॥

प्रायःश्रुतप्रियतमोदयकर्णपूरैः यस्मिन् निमग्नमनसः तं अथाक्षिरंध्रैः ।

अन्तः प्रवेश्य सुचिरं परिरभ्य तापं प्राज्ञं यथाभिमतयो विजहुर्नरेन्द्र

॥२३॥

( अनुष्टुप् ) तास्तथा त्यक्तसर्वाशाः प्राप्ता आत्मदिदृक्षया ।

विज्ञायाखिलदृग्द्रष्टा प्राह प्रहसिताननः

॥२४॥

स्वागतं वो महाभागा आस्यतां करवाम किम् ।

यन्नो दिदृक्षया प्राप्ता उपपन्नमिदं हि वः

॥२५॥

नन्वद्धा मयि कुर्वन्ति कुशलाः स्वार्थदर्शिनः ।

अहैतुक्यव्यवहितां भक्तिमात्मप्रिये यथा

॥२६॥

प्राणबुद्धिमनःस्वात्म दारापत्यधनादयः ।

यत्सम्पर्कात् प्रिया आसन् ततः को न्वपरः प्रियः

॥२७॥

तद् यात देवयजनं पतयो वो द्विजातयः ।

स्वसत्रं पारयिष्यन्ति युष्माभिर्गृहमेधिनः

॥२८॥

श्रीपत्न्य ऊचुः

( वसंततिलका ) मैवं विभोऽर्हति भवान्गदितुं नृशंसं सत्यं कुरुष्व निगमं तव पादमूलम् ।

प्राप्ता वयं तुलसिदाम पदावसृष्टं केशैर्निवोढुमतिलङ्घ्य समस्तबन्धून्

॥२९॥

गृह्णन्ति नो न पतयः पितरौ सुता वा न भ्रातृबन्धुसुहृदः कुत एव चान्ये ।

तस्माद् भवत्प्रपदयोः पतितात्मनां नो नान्या भवेद् गतिररिन्दम तद् विधेहि

॥३०॥

श्रीभगवानुवाच

पतयो नाभ्यसूयेरन् पितृभ्रातृसुतादयः ।

लोकाश्च वो मयोपेता देवा अप्यनुमन्वते

॥३१॥

( अनुष्टुप् ) न प्रीतयेऽनुरागाय ह्यङ्गसङ्गो नृणामिह ।

तन्मनो मयि युञ्जाना अचिरान् मामवाप्स्यथ

॥३२॥

श्रीशुक उवाच

इत्युक्ता द्विजपत्न्यस्ता यज्ञवाटं पुनर्गताः ।

ते चानसूयवः स्वाभिः स्त्रीभिः सत्रमपारयन्

॥३३॥

तत्रैका विधृता भर्त्रा भगवन्तं यथाश्रुतम् ।

हृदोपगुह्य विजहौ देहं कर्मानुबन्धनम्

॥३४॥

भगवानपि गोविन्दः तेनैवान्नेन गोपकान् ।

चतुर्विधेनाशयित्वा स्वयं च बुभुजे प्रभुः

॥३५॥

एवं लीलानरवपुः नृलोकमनुशीलयन् ।

रेमे गोगोपगोपीनां रमयन्रूपवाक्कृतैः

॥३६॥

अथानुस्मृत्य विप्रास्ते अन्वतप्यन् कृतागसः ।

यद् विश्वेश्वरयोर्याच्ञां अहन्म नृविडम्बयोः

॥३७॥

दृष्ट्वा स्त्रीणां भगवति कृष्णे भक्तिमलौकिकीम् ।

आत्मानं च तया हीनं अनुतप्ता व्यगर्हयन्

॥३८॥

धिग्जन्म नः त्रिवृत् विद्यां धिग् व्रतं धिग् बहुज्ञताम् ।

धिक्कुलं धिक् क्रियादाक्ष्यं विमुखा ये त्वधोक्षजे

॥३९॥

नूनं भगवतो माया योगिनामपि मोहिनी ।

यस् वयं गुरवो नृणां स्वार्थे मुह्यामहे द्विजाः

॥४०॥

अहो पश्यत नारीणां अपि कृष्णे जगद्गुरौ ।

दुरन्तभावं योऽविध्यन् मृत्युपाशान् गृहाभिधान्

॥४१॥

नासां द्विजातिसंस्कारो न निवासो गुरावपि ।

न तपो नात्ममीमांसा न शौचं न क्रियाः शुभाः

॥४२॥

तथापि ह्युत्तमःश्लोके कृष्णे योगेश्वरेश्वरे ।

भक्तिर्दृढा न चास्माकं संस्कारादिमतामपि

॥४३॥

ननु स्वार्थविमूढानां प्रमत्तानां गृहेहया ।

अहो नः स्मारयामास गोपवाक्यैः सतां गतिः

॥४४॥

अन्यथा पूर्णकामस्य कैवल्याद्यशिषां पतेः ।

ईशितव्यैः किमस्माभिः ईशस्यैतद् विडम्बनम्

॥४५॥

हित्वान्यान् भजते यं श्रीः पादस्पर्शाशया सकृत् ।

स्वात्मदोषापवर्गेण तद्याच्ञा जनमोहिनी

॥४६॥

देशः कालः पृथग्द्रव्यं मंत्रतंत्रर्त्विजोऽग्नयः ।

देवता यजमानश्च क्रतुर्धर्मश्च यन्मयः

॥४७॥

स एष भगवान् साक्षाद् विष्णुर्योगेश्वरेश्वरः ।

जातो यदुष्वित्याश्रृण्म ह्यपि मूढा न विद्महे

॥४८॥

अहो वयं धन्यतमा येषां नस्तादृशीः स्त्रियः ।

भक्त्या यासां मतिर्जाता अस्माकं निश्चला हरौ

॥४९॥

नमस्तुभ्यं भगवते कृष्णायाकुण्ठमेधसे ।

यन्मायामोहितधियो भ्रमामः कर्मवर्त्मसु

॥५०॥

स वै न आद्यः पुरुषः स्वमायामोहितात्मनाम् ।

अविज्ञतानुभावानां क्षन्तुमर्हत्यतिक्रमम्

॥५१॥

इति स्वाघमनुस्मृत्य कृष्णे ते कृतहेलनाः ।

दिदृक्षवोऽप्यच्युतयोः कंसाद्भीता न चाचलन्

॥५२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे त्रयोविंशोऽध्यायः ॥ २३ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु