कोपान् मुसलधारावर्षं वर्षतीन्द्रे व्रजौकसां रक्षणार्थं गोवर्धनधारणम्
श्रीशुक उवाच
( अनुष्टुप् ) इन्द्रस्तदाऽऽत्मनः पूजां विज्ञाय विहतां नृप ।
गोपेभ्यः कृष्णनाथेभ्यो नन्दादिभ्यश्चुकोप ह
॥१॥गणं सांवर्तकं नाम मेघानां चान्तकारिणाम् ।
इन्द्रः प्रचोदयत् क्रुद्धो वाक्यं चाहेशमान्युत
॥२॥अहो श्रीमदमाहात्म्यं गोपानां काननौकसाम् ।
कृष्णं मर्त्यमुपाश्रित्य ये चक्रुर्देवहेलनम्
॥३॥यथादृढैः कर्ममयैः क्रतुभिर्नामनौनिभैः ।
विद्यां आन्वीक्षिकीं हित्वा तितीर्षन्ति भवार्णवम्
॥४॥वाचालं बालिशं स्तब्धं अज्ञं पण्डितमानिनम् ।
कृष्णं मर्त्यमुपाश्रित्य गोपा मे चक्रुरप्रियम्
॥५॥एषां श्रियावलिप्तानां कृष्णेनाध्मापितात्मनाम् ।
धुनुत श्रीमदस्तम्भं पशून् नयत सङ्क्षयम्
॥६॥अहं चैरावतं नागं आरुह्यानुव्रजे व्रजम् ।
मरुद्गणैर्महावेगैः नन्दगोष्ठजिघांसया
॥७॥श्रीशुक उवाच
इत्थं मघवताऽऽज्ञप्ता मेघा निर्मुक्तबन्धनाः ।
नन्दगोकुलमासारैः पीडयामासुरोजसा
॥८॥विद्योतमाना विद्युद्भिः स्तनन्तः स्तनयित्नुभिः ।
तीव्रैर्मरुद्गणैर्नुन्ना ववृषुर्जलशर्कराः
॥९॥स्थूणास्थूला वर्षधारा मुञ्चत्स्वभ्रेष्व-भीक्ष्णशः ।
जलौघैः प्लाव्यमाना भूः नादृश्यत नतोन्नतम्
॥१०॥अत्यासारातिवातेन पशवो जातवेपनाः ।
गोपा गोप्यश्च शीतार्ता गोविन्दं शरणं ययुः
॥११॥शिरः सुतांश्च कायेन प्रच्छाद्या सारपीडिताः ।
वेपमाना भगवतः पादमूलमुपाययुः
॥१२॥कृष्ण कृष्ण महाभाग त्वन्नाथं गोकुलं प्रभो ।
त्रातुमर्हसि देवान्नः कुपिताद् भक्तवत्सल
॥१३॥शिलावर्षानिपातेन हन्यमानमचेतनम् ।
निरीक्ष्य भगवान् मेने कुपितेन्द्रकृतं हरिः
॥१४॥अपर्त्त्वत्युल्बणं वर्षं अतिवातं शिलामयम् ।
स्वयागे विहतेऽस्माभिः इन्द्रो नाशाय वर्षति
॥१५॥तत्र प्रतिविधिं सम्यग् आत्मयोगेन साधये ।
लोकेशमानिनां मौढ्याद् हनिष्ये श्रीमदं तमः
॥१६॥न हि सद्भावयुक्तानां सुराणामीशविस्मयः ।
मत्तोऽसतां मानभङ्गः प्रशमायोपकल्पते
॥१७॥तस्मात् मच्छरणं गोष्ठं मन्नाथं मत्परिग्रहम् ।
गोपाये स्वात्मयोगेन सोऽयं मे व्रत आहितः
॥१८॥इत्युक्त्वैकेन हस्तेन कृत्वा गोवर्धनाचलम् ।
दधार लीलया कृष्णः छत्राकमिव बालकः
॥१९॥अथाह भगवान् गोपान् हेऽम्ब तात व्रजौकसः ।
यथोपजोषं विशत गिरिगर्तं सगोधनाः
॥२०॥न त्रास इह वः कार्यो मद्धस्ताद्रिनिपातने ।
वातवर्षभयेनालं तत्त्राणं विहितं हि वः
॥२१॥तथा निर्विविशुर्गर्तं कृष्णाश्वासितमानसः ।
यथावकाशं सधनाः सव्रजाः सोपजीविनः
॥२२॥क्षुत्तृड्व्यथां सुखापेक्षां हित्वा तैर्व्रजवासिभिः ।
वीक्ष्यमाणो दधावद्रिं सप्ताहं नाचलत् पदात्
॥२३॥कृष्णयोगानुभावं तं निशम्येन्द्रोऽतिविस्मितः ।
निःस्तम्भो भ्रष्टसङ्कल्पः स्वान् मेघान् संन्यवारयत्
॥२४॥खं व्यभ्रमुदितादित्यं वातवर्षं च दारुणम् ।
निशम्योपरतं गोपान् गोवर्धनधरोऽब्रवीत् ।
निर्यात त्यजत त्रासं गोपाः सस्त्रीधनार्भकाः ।
उपारतं वातवर्षं व्युदप्रायाश्च निम्नगाः
॥२६॥ततस्ते निर्ययुर्गोपाः स्वं स्वमादाय गोधनम् ।
शकटोढोपकरणं स्त्रीबालस्थविराः शनैः
॥२७॥भगवानपि तं शैलं स्वस्थाने पूर्ववत्प्रभुः ।
पश्यतां सर्वभूतानां स्थापयामास लीलया
॥२८॥( मिश्र ) तं प्रेमवेगान् निभृता व्रजौकसो यथा समीयुः परिरम्भणादिभिः ।
गोप्यश्च सस्नेहमपूजयन् मुदा दध्यक्षताद्भिर्युयुजुः सदाशिषः
॥२९॥( अनुष्टुप् ) यशोदा रोहिणी नन्दो रामश्च बलिनां वरः ।
कृष्णमालिङ्ग्य युयुजुः आशिषः स्नेहकातराः
॥३०॥दिवि देवगणाः सिद्धाः साध्या गन्धर्वचारणाः ।
तुष्टुवुर्मुमुचुस्तुष्टाः पुष्पवर्षाणि पार्थिव
॥३१॥शङ्खदुन्दुभयो नेदुर्दिवि देवप्रचोदिताः ।
जगुर्गन्धर्वपतयः तुंबुरुप्रमुखा नृप
॥३२॥( मिश्र ) ततोऽनुरक्तैः पशुपैः परिश्रितो राजन् स्वगोष्ठं सबलोऽव्रजद्धरिः ।
तथाविधान्यस्य कृतानि गोपिका गायन्त्य ईयुर्मुदिता हृदिस्पृशः
॥३३॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे पञ्चविंशोऽध्यायः ॥ २५ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु