मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — दशमस्कन्धः (पूर्वार्धः), अध्याय ३३

3
दशमस्कन्धः (पूर्वार्धः) · 33

रासक्रीडावर्णनम्

महारासवर्णनं; परीक्षित्कृत शंकायाः शुकद्वारा समाधानं च - श्रीशुक उवाच ।

( अनुष्टुप् ) इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः ।

जहुर्विरहजं तापं तदङ्गोपचिताशिषः

॥१॥

तत्रारभत गोविन्दो रासक्रीडामनुव्रतैः ।

स्त्रीरत्नैरन्वितः प्रीतैः अन्योन्याबद्धबाहुभिः

॥२॥

रासोत्सवः सम्प्रवृत्तो गोपीमण्डलमण्डितः ।

योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर्द्वयोः

॥३॥

प्रविष्टेन गृहीतानां कण्ठे स्वनिकटं स्त्रियः ।

यं मन्येरन् नभस्तावद् विमानशतसङ्कुलम्

॥४॥

दिवौकसां सदाराणां औत्सुक्यापहृतात्मनाम् ।

ततो दुन्दुभयो नेदुः निपेतुः पुष्पवृष्टयः ।

जगुर्गन्धर्वपतयः सस्त्रीकास्तद् यशोऽमलम्

॥५॥

वलयानां नूपुराणां किङ्किणीनां च योषिताम् ।

सप्रियाणामभूत् शब्दः तुमुलो रासमण्डले

॥६॥

तत्रातिशुशुभे ताभिः भगवान् देवकीसुतः ।

मध्ये मणीनां हैमानां महामरकतो यथा

॥७॥

( शार्दूलविक्रीडित ) पादन्यासैर्भुजविधुतिभिः सस्मितैर्भ्रूविलासैः ।

भज्यन्मध्यैश्चलकुचपटैः कुण्डलैर्गण्डलोलैः ।

स्विद्यन्मुख्यः कवररसना ग्रन्थयः कृष्णवध्वो ।

गायन्त्यस्तं तडित इव ता मेघचक्रे विरेजुः

॥८॥

( अनुष्टुप् ) उच्चैर्जगुर्नृत्यमाना रक्तकण्ठ्यो रतिप्रियाः ।

कृष्णाभिमर्शमुदिता यद्गीतेनेदमावृतम्

॥९॥

काचित् समं मुकुन्देन स्वरजातीरमिश्रिताः ।

उन्निन्ये पूजिता तेन प्रीयता साधु साध्विति ।

तदेव ध्रुवमुन्निन्ये तस्यै मानं च बह्वदात्

॥१०॥

काचिद् रासपरिश्रान्ता पार्श्वस्थस्य गदाभृतः ।

जग्राह बाहुना स्कन्धं श्लथद्वलयमल्लिका

॥११॥

तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम् ।

चन्दनालिप्तमाघ्राय हृष्टरोमा चुचुम्ब ह

॥१२॥

कस्याश्चित् नाट्यविक्षिप्त कुण्डलत्विषमण्डितम् ।

गण्डं गण्डे सन्दधत्याः अदात्ताम्बूलचर्वितम्

॥१३॥

नृत्यती गायती काचित् कूजन् नूपुरमेखला ।

पार्श्वस्थाच्युतहस्ताब्जं श्रान्ताधात् स्तनयोः शिवम्

॥१४॥

गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्तवल्लभम् ।

गृहीतकण्ठ्यस्तद्दोर्भ्यां गायन्त्यस्तं विजह्रिरे

॥१५॥

( वसंततिलका ) कर्णोत्पलालकविटङ्ककपोलघर्म वक्त्रश्रियो वलयनूपुरघोषवाद्यैः ।

गोप्यः समं भगवता ननृतुः स्वकेश स्रस्तस्रजो भ्रमरगायकरासगोष्ठ्याम्

॥१६॥

( मिश्र ) एवं परिष्वङ्गकराभिमर्श स्निग्धेक्षणोद्दामविलासहासैः ।

रेमे रमेशो व्रजसुन्दरीभिः यथार्भकः स्वप्रतिबिम्बविभ्रमः

॥१७॥

तदङ्गसङ्गप्रमुदाकुलेन्द्रियाः केशान् दूकूलं कुचपट्टिकां वा ।

नाञ्जः प्रतिव्योढुमलं व्रजस्त्रियो विस्रस्तमालाभरणाः कुरूद्वह

॥१८॥

( अनुष्टुप् ) कृष्णविक्रीडितं वीक्ष्य मुमुहुः खेचरस्त्रियः ।

कामार्दिताः शशाङ्कश्च सगणो विस्मितोऽभवत्

॥१९॥

कृत्वा तावन्तमात्मानं यावतीर्गोपयोषितः ।

रेमे स भगवान् ताभिः आत्मारामोऽपि लीलया

॥२०॥

तासां अतिविहारेण श्रान्तानां वदनानि सः ।

प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना

॥२१॥

( वसंततिलका ) गोप्यः स्फुरत्पुरटकुण्डलकुन्तलत्विड् गण्डश्रिया सुधितहासनिरीक्षणेन ।

मानं दधत्य ऋषभस्य जगुः कृतानि पुण्यानि तत्कररुहस्पर्शप्रमोदाः

॥२२॥

ताभिर्युतः श्रममपोहितुमङ्गसङ्ग घृष्टस्रजः स कुचकुङ्कुमरञ्जितायाः ।

गन्धर्वपालिभिरनुद्रुत आविशद् वा श्रान्तो गजीभिरिभराडिव भिन्नसेतुः

॥२३॥

सोऽम्भस्यलं युवतिभिः परिषिच्यमानः प्रेम्णेक्षितः प्रहसतीभिरितस्ततोऽङ्ग ।

वैमानिकैः कुसुमवर्षिभिरीड्यमानो रेमे स्वयं स्वरतिरत्र गजेन्द्रलीलः

॥२४॥

( मिश्र ) ततश्च कृष्णोपवने जलस्थल प्रसूनगन्धानिलजुष्टदिक्तटे ।

चचार भृङ्गप्रमदागणावृतो यथा मदच्युद् द्विरदः करेणुभिः

॥२५॥

एवं शशाङ्कांशुविराजिता निशाः स सत्यकामोऽनुरताबलागणः ।

सिषेव आत्मन्यवरुद्धसौरतः सर्वाः शरत्काव्यकथारसाश्रयाः

॥२६॥

श्रीपरीक्षिदुवाच

( अनुष्टुप् ) संस्थापनाय धर्मस्य प्रशमायेतरस्य च ।

अवतीर्णो हि भगवानंन् अंशेन जगदीश्वरः

॥२७॥

स कथं धर्मसेतूनां वक्ता कर्ताभिरक्षिता ।

प्रतीपमाचरद् ब्रह्मन् परदाराभिमर्शनम्

॥२८॥

आप्तकामो यदुपतिः कृतवान् वै जुगुप्सितम् ।

किमभिप्राय एतन्नः संशयं छिन्धि सुव्रत

॥२९॥

श्रीशुक उवाच

धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम् ।

तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा

॥३०॥

नैतत्समाचरेज्जातु मनसापि ह्यनीश्वरः ।

विनश्यत्याचरन्मौढ्याद् यथारुद्रोऽब्धिजं विषम्

॥३१॥

ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् ।

तेषां यत् स्ववचोयुक्तं बुद्धिमांस्तत् समाचरेत्

॥३२॥

कुशलाचरितेनैषां इह स्वार्थो न विद्यते ।

विपर्ययेण वानर्थो निरहङ्कारिणां प्रभो

॥३३॥

किमुताखिलसत्त्वानां तिर्यङ् मर्त्यदिवौकसाम् ।

ईशितुश्चेशितव्यानां कुशलाकुशलान्वयः

॥३४॥

( वसंततिलका ) यत्पादपङ्कजपरागनिषेवतृप्ता योगप्रभावविधुताखिलकर्मबन्धाः ।

स्वैरं चरन्ति मुनयोऽपि न नह्यमानाः तस्येच्छयाऽऽत्तवपुषः कुत एव बन्धः

॥३५॥

( अनुष्टुप् ) गोपीनां तत्पतीनां च सर्वेषामेव देहिनाम् ।

योऽन्तश्चरति सोऽध्यक्षः क्रीडनेनेह देहभाक्

॥३६॥

अनुग्रहाय भूतानां मानुषं देहमास्थितः ।

भजते तादृशीः क्रीड याः श्रुत्वा तत्परो भवेत्

॥३७॥

नासूयन् खलु कृष्णाय मोहितास्तस्य मायया ।

मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः

॥३८॥

ब्रह्मरात्र उपावृत्ते वासुदेवानुमोदिताः ।

अनिच्छन्त्यो ययुर्गोप्यः स्वगृहान् भगवत्प्रियाः

॥३९॥

( वसंततिलका ) विक्रीडितं व्रजवधूभिरिदं च विष्णोः श्रद्धान्वितोऽनुश्रृणुयादथ वर्णयेद्यः ।

भक्तिं परां भगवति प्रतिलभ्य कामं हृद्रोगमाश्वपहिनोत्यचिरेण धीरः

॥४०॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडावर्णनं नाम त्रयोत्रिंशोऽध्यायः ॥ ३३ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु