नागालयं रमणकं कस्मात् तत्याज कालियः
कालियस्य यमुनाह्रदे निवासस्य कारणवर्णनं ह्रदान्निर्गतेन श्रीकृष्णेन व्रजौकसां दावानलाद् रक्षणम् - ( अनुष्टुप् ) श्रीराजोवाच ।
नागालयं रमणकं कस्मात् तत्याज कालियः ।
कृतं किं वा सुपर्णस्य तेनैकेनासमञ्जसम्
॥१॥श्रीशुक उवाच
उपहार्यैः सर्पजनैः मासि मासीह यो बलिः ।
वानस्पत्यो महाबाहो नागानां प्राङ्निरूपितः
॥२॥स्वं स्वं भागं प्रयच्छन्ति नागाः पर्वणि पर्वणि ।
गोपीथायात्मनः सर्वे सुपर्णाय महात्मने
॥३॥विषवीर्य मदाविष्टः काद्रवेयस्तु कालियः ।
कदर्थीकृत्य गरुडं स्वयं तं बुभुजे बलिम्
॥४॥तच्छ्रुत्वा कुपितो राजन् भगवान् भगवत्प्रियः ।
विजिघांसुर्महावेगः कालियं समुपाद्रवत्
॥५॥( मिश्र ) तमापतन्तं तरसा विषायुधः प्रत्यभ्ययाद् उच्छ्रितनैकमस्तकः ।
दद्भिः सुपर्णं व्यदशद् ददायुधः कराल जिह्रोच्छ्वसितोग्र लोचनः
॥६॥तं तार्क्ष्यपुत्रः स निरस्य मन्युमान् प्रचण्डवेगो मधुसूदनासनः ।
पक्षेण सव्येन हिरण्यरोचिषा जघान कद्रुसुतमुग्रविक्रमः
॥७॥( अनुष्टुप् ) सुपर्णपक्षाभिहतः कालियोऽतीव विह्वलः ।
ह्रदं विवेश कालिन्द्याः तदगम्यं दुरासदम्
॥८॥तत्रैकदा जलचरं गरुडो भक्ष्यमीप्सितम् ।
निवारितः सौभरिणा प्रसह्य क्षुधितोऽहरत्
॥९॥मीनान् सुदुःखितान् दृष्ट्वा दीनान् मीनपतौ हते ।
कृपया सौभरिः प्राह तत्रत्यक्षेममाचरन्
॥१०॥अत्र प्रविश्य गरुडो यदि मत्स्यान् स खादति ।
सद्यः प्राणैर्वियुज्येत सत्यमेतद् ब्रवीम्यहम्
॥११॥तं कालियः परं वेद नान्यः कश्चन लेलिहः ।
अवात्सीद् गरुडाद् भीतः कृष्णेन च विवासितः
॥१२॥कृष्णं ह्रदाद् विनिष्क्रान्तं दिव्यस्रग् गन्धवाससम् ।
महामणिगणाकीर्णं जाम्बूनदपरिष्कृतम्
॥१३॥उपलभ्योत्थिताः सर्वे लब्धप्राणा इवासवः ।
प्रमोदनिभृतात्मानो गोपाः प्रीत्याभिरेभिरे
॥१४॥यशोदा रोहिणी नन्दो गोप्यो गोपाश्च कौरव ।
कृष्णं समेत्य लब्धेहा आसन् लब्धमनोरथा
॥१५॥रामश्चाच्युतमालिङ्ग्य जहासास्यानुभाववित् ।
नगो गावो वृषा वत्सा लेभिरे परमां मुदम्
॥१६॥नन्दं विप्राः समागत्य गुरवः सकलत्रकाः ।
ऊचुस्ते कालियग्रस्तो दिष्ट्या मुक्तस्तवात्मजः
॥१७॥देहि दानं द्विजातीनां कृष्णनिर्मुक्तिहेतवे ।
नन्दः प्रीतमना राजन् गाः सुवर्णं तदादिशत्
॥१८॥यशोदापि महाभागा नष्टलब्धप्रजा सती ।
परिष्वज्याङ्कमारोप्य मुमोचाश्रुकलां मुहुः
॥१९॥तां रात्रिं तत्र राजेन्द्र क्षुत्तृड्भ्यां श्रमकर्षिताः ।
ऊषुर्व्रयौकसो गावः कालिन्द्या उपकूलतः
॥२०॥तदा शुचिवनोद्भूतो दावाग्निः सर्वतो व्रजम् ।
सुप्तं निशीथ आवृत्य प्रदग्धुमुपचक्रमे
॥२१॥तत उत्थाय सम्भ्रान्ता दह्यमाना व्रजौकसः ।
कृष्णं ययुस्ते शरणं मायामनुजमीश्वरम्
॥२२॥कृष्ण कृष्ण महाभाग हे रामामितविक्रम ।
एष घोरतमो वह्निः तावकान् ग्रसते हि नः
॥२३॥सुदुस्तरान्नः स्वान् पाहि कालाग्नेः सुहृदः प्रभो ।
न शक्नुमः त्वच्चरणं संत्यक्तुं अकुतोभयम्
॥२४॥इत्थं स्वजनवैक्लव्यं निरीक्ष्य जगदीश्वरः ।
तं अग्निं अपिबत् तीव्रं अनंतोऽनन्त शक्तिधृक्
॥२५॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे सप्तदशोऽध्यायः ॥ १७ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु