रासक्रीडावर्णनम्
महारासवर्णनं; परीक्षित्कृत शंकायाः शुकद्वारा समाधानं च - श्रीशुक उवाच ।
( अनुष्टुप् ) इत्थं भगवतो गोप्यः श्रुत्वा वाचः सुपेशलाः ।
जहुर्विरहजं तापं तदङ्गोपचिताशिषः
॥१॥तत्रारभत गोविन्दो रासक्रीडामनुव्रतैः ।
स्त्रीरत्नैरन्वितः प्रीतैः अन्योन्याबद्धबाहुभिः
॥२॥रासोत्सवः सम्प्रवृत्तो गोपीमण्डलमण्डितः ।
योगेश्वरेण कृष्णेन तासां मध्ये द्वयोर्द्वयोः
॥३॥प्रविष्टेन गृहीतानां कण्ठे स्वनिकटं स्त्रियः ।
यं मन्येरन् नभस्तावद् विमानशतसङ्कुलम्
॥४॥दिवौकसां सदाराणां औत्सुक्यापहृतात्मनाम् ।
ततो दुन्दुभयो नेदुः निपेतुः पुष्पवृष्टयः ।
जगुर्गन्धर्वपतयः सस्त्रीकास्तद् यशोऽमलम्
॥५॥वलयानां नूपुराणां किङ्किणीनां च योषिताम् ।
सप्रियाणामभूत् शब्दः तुमुलो रासमण्डले
॥६॥तत्रातिशुशुभे ताभिः भगवान् देवकीसुतः ।
मध्ये मणीनां हैमानां महामरकतो यथा
॥७॥( शार्दूलविक्रीडित ) पादन्यासैर्भुजविधुतिभिः सस्मितैर्भ्रूविलासैः ।
भज्यन्मध्यैश्चलकुचपटैः कुण्डलैर्गण्डलोलैः ।
स्विद्यन्मुख्यः कवररसना ग्रन्थयः कृष्णवध्वो ।
गायन्त्यस्तं तडित इव ता मेघचक्रे विरेजुः
॥८॥( अनुष्टुप् ) उच्चैर्जगुर्नृत्यमाना रक्तकण्ठ्यो रतिप्रियाः ।
कृष्णाभिमर्शमुदिता यद्गीतेनेदमावृतम्
॥९॥काचित् समं मुकुन्देन स्वरजातीरमिश्रिताः ।
उन्निन्ये पूजिता तेन प्रीयता साधु साध्विति ।
तदेव ध्रुवमुन्निन्ये तस्यै मानं च बह्वदात्
॥१०॥काचिद् रासपरिश्रान्ता पार्श्वस्थस्य गदाभृतः ।
जग्राह बाहुना स्कन्धं श्लथद्वलयमल्लिका
॥११॥तत्रैकांसगतं बाहुं कृष्णस्योत्पलसौरभम् ।
चन्दनालिप्तमाघ्राय हृष्टरोमा चुचुम्ब ह
॥१२॥कस्याश्चित् नाट्यविक्षिप्त कुण्डलत्विषमण्डितम् ।
गण्डं गण्डे सन्दधत्याः अदात्ताम्बूलचर्वितम्
॥१३॥नृत्यती गायती काचित् कूजन् नूपुरमेखला ।
पार्श्वस्थाच्युतहस्ताब्जं श्रान्ताधात् स्तनयोः शिवम्
॥१४॥गोप्यो लब्ध्वाच्युतं कान्तं श्रिय एकान्तवल्लभम् ।
गृहीतकण्ठ्यस्तद्दोर्भ्यां गायन्त्यस्तं विजह्रिरे
॥१५॥( वसंततिलका ) कर्णोत्पलालकविटङ्ककपोलघर्म वक्त्रश्रियो वलयनूपुरघोषवाद्यैः ।
गोप्यः समं भगवता ननृतुः स्वकेश स्रस्तस्रजो भ्रमरगायकरासगोष्ठ्याम्
॥१६॥( मिश्र ) एवं परिष्वङ्गकराभिमर्श स्निग्धेक्षणोद्दामविलासहासैः ।
रेमे रमेशो व्रजसुन्दरीभिः यथार्भकः स्वप्रतिबिम्बविभ्रमः
॥१७॥तदङ्गसङ्गप्रमुदाकुलेन्द्रियाः केशान् दूकूलं कुचपट्टिकां वा ।
नाञ्जः प्रतिव्योढुमलं व्रजस्त्रियो विस्रस्तमालाभरणाः कुरूद्वह
॥१८॥( अनुष्टुप् ) कृष्णविक्रीडितं वीक्ष्य मुमुहुः खेचरस्त्रियः ।
कामार्दिताः शशाङ्कश्च सगणो विस्मितोऽभवत्
॥१९॥कृत्वा तावन्तमात्मानं यावतीर्गोपयोषितः ।
रेमे स भगवान् ताभिः आत्मारामोऽपि लीलया
॥२०॥तासां अतिविहारेण श्रान्तानां वदनानि सः ।
प्रामृजत् करुणः प्रेम्णा शन्तमेनाङ्ग पाणिना
॥२१॥( वसंततिलका ) गोप्यः स्फुरत्पुरटकुण्डलकुन्तलत्विड् गण्डश्रिया सुधितहासनिरीक्षणेन ।
मानं दधत्य ऋषभस्य जगुः कृतानि पुण्यानि तत्कररुहस्पर्शप्रमोदाः
॥२२॥ताभिर्युतः श्रममपोहितुमङ्गसङ्ग घृष्टस्रजः स कुचकुङ्कुमरञ्जितायाः ।
गन्धर्वपालिभिरनुद्रुत आविशद् वा श्रान्तो गजीभिरिभराडिव भिन्नसेतुः
॥२३॥सोऽम्भस्यलं युवतिभिः परिषिच्यमानः प्रेम्णेक्षितः प्रहसतीभिरितस्ततोऽङ्ग ।
वैमानिकैः कुसुमवर्षिभिरीड्यमानो रेमे स्वयं स्वरतिरत्र गजेन्द्रलीलः
॥२४॥( मिश्र ) ततश्च कृष्णोपवने जलस्थल प्रसूनगन्धानिलजुष्टदिक्तटे ।
चचार भृङ्गप्रमदागणावृतो यथा मदच्युद् द्विरदः करेणुभिः
॥२५॥एवं शशाङ्कांशुविराजिता निशाः स सत्यकामोऽनुरताबलागणः ।
सिषेव आत्मन्यवरुद्धसौरतः सर्वाः शरत्काव्यकथारसाश्रयाः
॥२६॥श्रीपरीक्षिदुवाच
( अनुष्टुप् ) संस्थापनाय धर्मस्य प्रशमायेतरस्य च ।
अवतीर्णो हि भगवानंन् अंशेन जगदीश्वरः
॥२७॥स कथं धर्मसेतूनां वक्ता कर्ताभिरक्षिता ।
प्रतीपमाचरद् ब्रह्मन् परदाराभिमर्शनम्
॥२८॥आप्तकामो यदुपतिः कृतवान् वै जुगुप्सितम् ।
किमभिप्राय एतन्नः संशयं छिन्धि सुव्रत
॥२९॥श्रीशुक उवाच
धर्मव्यतिक्रमो दृष्ट ईश्वराणां च साहसम् ।
तेजीयसां न दोषाय वह्नेः सर्वभुजो यथा
॥३०॥नैतत्समाचरेज्जातु मनसापि ह्यनीश्वरः ।
विनश्यत्याचरन्मौढ्याद् यथारुद्रोऽब्धिजं विषम्
॥३१॥ईश्वराणां वचः सत्यं तथैवाचरितं क्वचित् ।
तेषां यत् स्ववचोयुक्तं बुद्धिमांस्तत् समाचरेत्
॥३२॥कुशलाचरितेनैषां इह स्वार्थो न विद्यते ।
विपर्ययेण वानर्थो निरहङ्कारिणां प्रभो
॥३३॥किमुताखिलसत्त्वानां तिर्यङ् मर्त्यदिवौकसाम् ।
ईशितुश्चेशितव्यानां कुशलाकुशलान्वयः
॥३४॥( वसंततिलका ) यत्पादपङ्कजपरागनिषेवतृप्ता योगप्रभावविधुताखिलकर्मबन्धाः ।
स्वैरं चरन्ति मुनयोऽपि न नह्यमानाः तस्येच्छयाऽऽत्तवपुषः कुत एव बन्धः
॥३५॥( अनुष्टुप् ) गोपीनां तत्पतीनां च सर्वेषामेव देहिनाम् ।
योऽन्तश्चरति सोऽध्यक्षः क्रीडनेनेह देहभाक्
॥३६॥अनुग्रहाय भूतानां मानुषं देहमास्थितः ।
भजते तादृशीः क्रीड याः श्रुत्वा तत्परो भवेत्
॥३७॥नासूयन् खलु कृष्णाय मोहितास्तस्य मायया ।
मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान् व्रजौकसः
॥३८॥ब्रह्मरात्र उपावृत्ते वासुदेवानुमोदिताः ।
अनिच्छन्त्यो ययुर्गोप्यः स्वगृहान् भगवत्प्रियाः
॥३९॥( वसंततिलका ) विक्रीडितं व्रजवधूभिरिदं च विष्णोः श्रद्धान्वितोऽनुश्रृणुयादथ वर्णयेद्यः ।
भक्तिं परां भगवति प्रतिलभ्य कामं हृद्रोगमाश्वपहिनोत्यचिरेण धीरः
॥४०॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां दशमस्कन्धे पूर्वार्धे रासक्रीडावर्णनं नाम त्रयोत्रिंशोऽध्यायः ॥ ३३ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु