मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — षष्ठस्कन्धः, अध्याय ११

3
षष्ठस्कन्धः · 11

इन्द्रवृत्रासुरयुद्धवर्णनम्

श्रीमद्भागवत महापुराण षष्ठः स्कन्धः - एकादशोऽध्यायः वृत्रस्य भक्तिज्ञानवैराग्ययुक्त वीरोचितोद्गाराः -श्रीशुक उवाच - ते एवं शंसतो धर्मं वचः पत्युरचेतसः ।

नैवागृह्णन् भयत्रस्ताः पलायनपरा नृप

॥१॥

विशीर्यमाणां पृतनां आसुरीं असुरर्षभः ।

कालानुकूलैः त्रिदशैः काल्यमानामनाथवत्

॥२॥

दृष्ट्वातप्यत सङ्क्रुद्ध इन्द्रशत्रुरमर्षितः ।

तान्निवार्यौजसा राजन् निर्भर्त्स्येदमुवाच ह

॥३॥

किं व उच्चरितैर्मातुः धावद्भिः पृष्ठतो हतैः ।

न हि भीतवधः श्लाघ्यो न स्वर्ग्यः शूरमानिनाम्

॥४॥

यदि वः प्रधने श्रद्धा सारं वा क्षुल्लका हृदि ।

अग्रे तिष्ठत मात्रं मे न चेद्ग्राम्यसुखे स्पृहा

॥५॥

एवं सुरगणान् क्रुद्धो भीषयन् वपुषा रिपून् ।

व्यनदत्सुमहाप्राणो येन लोका विचेतसः

॥६॥

तेन देवगणाः सर्वे वृत्रविस्फोटनेन वै ।

निपेतुर्मूर्च्छिता भूमौ यथैवाशनिना हताः

॥७॥

ममर्द पद्भ्यां सुरसैन्यमातुरं निमीलिताक्षं रणरङ्गदुर्मदः ।

गां कम्पयन् उद्यतशूल ओजसा नालं वनं यूथपतिर्यथोन्मदः

॥८॥

विलोक्य तं वज्रधरोऽत्यमर्षितः स्वशत्रवेऽभिद्रवते महागदाम् ।

चिक्षेप तामापततीं सुदुःसहां जग्राह वामेन करेण लीलया

॥९॥

स इन्द्रशत्रुः कुपितो भृशं तया महेन्द्रवाहं गदयोरुविक्रमः ।

जघान कुम्भस्थल उन्नदन् मृधे तत्कर्म सर्वे समपूजयन् नृप

॥१०॥

ऐरावतो वृत्रगदाभिमृष्टो विघूर्णितोऽद्रिः कुलिशाहतो यथा ।

अपासरद् भिन्नमुखः सहेन्द्रो मुञ्चन्नसृक् सप्तधनुर्भृशार्तः

॥११॥

न सन्नवाहाय विषण्णचेतसे प्रायुङ्क्त भूयः स गदां महात्मा ।

इन्द्रोऽमृतस्यन्दिकराभिमर्श वीतव्यथक्षतवाहोऽवतस्थे

॥१२॥

स तं नृपेन्द्राहवकाम्यया रिपुं वज्रायुधं भ्रातृहणं विलोक्य ।

स्मरंश्च तत्कर्म नृशंसमंहः शोकेन मोहेन हसन् जगाद

॥१३॥

श्रीवृत्र उवाच

दिष्ट्या भवान् मे समवस्थितो रिपुः यो ब्रह्महा गुरुहा भ्रातृहा च ।

दिष्ट्यानृणोऽद्याहमसत्तम त्वया मच्छूलनिर्भिन्न दृषद्धृदाचिरात्

॥१४॥

यो नोऽग्रजस्यात्मविदो द्विजातेः गुरोरपापस्य च दीक्षितस्य ।

विश्रभ्य खड्गेन शिरांस्यवृश्चय् पशोरिवाकरुणः स्वर्गकामः

॥१५॥

ह्रीश्रीदयाकीर्तिभिरुज्झितं त्वां स्वकर्मणा पुरुषादैश्च गर्ह्यम् ।

कृच्छ्रेण मच्छूलविभिन्नदेहं अस्पृष्टवह्निं समदन्ति गृध्राः

॥१६॥

अन्येऽनु ये त्वेह नृशंसमज्ञा ये ह्युद्यतास्त्राः प्रहरन्ति मह्यम् ।

तैर्भूतनाथान् सगणान् निशात त्रिशूलनिर्भिन्नगलैर्यजामि

॥१७॥

अथो हरे मे कुलिशेन वीर हर्ता प्रमथ्यैव शिरो यदीह ।

तत्रानृणो भूतबलिं विधाय मनस्विनां पादरजः प्रपत्स्ये

॥१८॥

सुरेश कस्मान्न हिनोषि वज्रं पुरः स्थिते वैरिणि मय्यमोघम् ।

मा संशयिष्ठा न गदेव वज्रः स्यान्निष्फलः कृपणार्थेव याच्ञा

॥१९॥

नन्वेष वज्रस्तव शक्र तेजसा हरेर्दधीचेस्तपसा च तेजितः ।

तेनैव शत्रुं जहि विष्णुयन्त्रितो यतो हरिर्विजयः श्रीर्गुणास्ततः

॥२०॥

अहं समाधाय मनो यथाऽऽह नः सङ्कर्षणस्तच्चरणारविन्दे ।

त्वद्वज्ररंहोलुलितग्राम्यपाशो गतिं मुनेर्याम्यपविद्धलोकः

॥२१॥

पुंसां किलैकान्तधियां स्वकानां याः सम्पदो दिवि भूमौ रसायाम् ।

न राति यद् द्वेष उद्वेग आधिः मदः कलिर्व्यसनं सम्प्रयासः

॥२२॥

त्रैवर्गिकायासविघातमस्मत् पतिर्विधत्ते पुरुषस्य शक्र ।

ततोऽनुमेयो भगवत्प्रसादो यो दुर्लभोऽकिञ्चनगोचरोऽन्यैः

॥२३॥

अहं हरे तव पादैकमूल दासानुदासो भवितास्मि भूयः ।

मनः स्मरेतासुपतेर्गुणांस्ते गृणीत वाक्कर्म करोतु कायः

॥२४॥

न नाकपृष्ठं न च पारमेष्ठ्यं न सार्वभौमं न रसाधिपत्यम् ।

न योगसिद्धीरपुनर्भवं वा समञ्जस त्वा विरहय्य काङ्क्षे

॥२५॥

अजातपक्षा इव मातरं खगाः स्तन्यं यथा वत्सतराः क्षुधार्ताः ।

प्रियं प्रियेव व्युषितं विषण्णा मनोऽरविन्दाक्ष दिदृक्षते त्वाम्

॥२६॥

ममोत्तमश्लोकजनेषु सख्यं संसारचक्रे भ्रमतः स्वकर्मभिः ।

त्वन्माययात्मात्मजदारगेहे ष्वासक्तचित्तस्य न नाथ भूयात्

॥२७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे इन्द्रवृत्रासुरयुद्धवर्णनं नाम एकादशोऽध्यायः ॥ ११ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु