मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — षष्ठस्कन्धः, अध्याय १४

3
षष्ठस्कन्धः · 14

चित्रकेतुविलापः

श्रीमद्भागवत महापुराण षष्ठः स्कन्धः - चतुर्दशोऽध्यायः वृत्रासुरस्य पूर्वजन्मवृत्तान्ते चित्रकेतु उपाख्यानम्, अङ्गिरःप्रसादेन लब्धे स्वसुते विनष्टे, चित्रकेतोरत्यन्त शोकः, कृतद्युतेर्विलापश्च -श्रीपरीक्षिदुवाच - रजस्तमःस्वभावस्य ब्रह्मन् वृत्रस्य पाप्मनः ।

नारायणे भगवति कथमासीद् दृढा मतिः

॥१॥

देवानां शुद्धसत्त्वानांऋषीणां चामलात्मनाम् ।

भक्तिर्मुकुन्दचरणे न प्रायेणोपजायते

॥२॥

रजोभिः समसङ्ख्याताः पार्थिवैरिह जन्तवः ।

तेषां ये केचनेहन्ते श्रेयो वै मनुजादयः

॥३॥

प्रायो मुमुक्षवस्तेषां केचनैव द्विजोत्तम ।

मुमुक्षूणां सहस्रेषु कश्चिन् मुच्येत सिध्यति

॥४॥

मुक्तानामपि सिद्धानां नारायणपरायणः ।

सुदुर्लभः प्रशान्तात्मा कोटिष्वपि महामुने

॥५॥

वृत्रस्तु स कथं पापः सर्वलोकोपतापनः ।

इत्थं दृढमतिः कृष्ण आसीत् संग्राम उल्बणे

॥६॥

अत्र नः संशयो भूयान् श्रोतुं कौतूहलं प्रभो ।

यः पौरुषेण समरे सहस्राक्षमतोषयत्

॥७॥

श्रीसूत उवाच

परीक्षितोऽथ संप्रश्नं भगवान् बादरायणिः ।

निशम्य श्रद्दधानस्य प्रतिनन्द्य वचोऽब्रवीत्

॥८॥

श्रीशुक उवाच

श्रृणुषु अवहितो राजन् इतिहासं इमं यथा ।

श्रुतं द्वैपायनमुखात् नारदाद् देवलादपि

॥९॥

आसीद् राजा सार्वभौमः शूरसेनेषु वै नृप ।

चित्रकेतुरिति ख्यातो यस्यासीत् कामधुङ्मही

॥१०॥

तस्य भार्यासहस्राणां सहस्राणि दशाभवन् ।

सान्तानिकश्चापि नृपो न लेभे तासु सन्ततिम्

॥११॥

रूपौदार्यवयोजन्म विद्यैश्वर्यश्रियादिभिः ।

सम्पन्नस्य गुणैः सर्वैः चिन्ता वन्ध्यापतेरभूत्

॥१२॥

न तस्य सम्पदः सर्वा महिष्यो वामलोचनाः ।

सार्वभौमस्य भूश्चेयं अभवन् प्रीतिहेतवः

॥१३॥

तस्यैकदा तु भवनं अङ्गिरा भगवान् ऋषिः ।

लोकान् अनुचरन् एतान् उपागच्छद् यदृच्छया

॥१४॥

तं पूजयित्वा विधिवत् प्रत्युत्थानार्हणादिभिः ।

कृतातिथ्यमुपासीदत् सुखासीनं समाहितः

॥१५॥

महर्षिस्तमुपासीनं प्रश्रयावनतं क्षितौ ।

प्रतिपूज्य महाराज समाभाष्येदमब्रवीत्

॥१६॥

अङ्गिरा उवाच

अपि तेऽनामयं स्वस्ति प्रकृतीनां तथाऽऽत्मनः ।

यथा प्रकृतिभिर्गुप्तः पुमान् राजा च सप्तभिः

॥१७॥

आत्मानं प्रकृतिष्वद्धा निधाय श्रेय आप्नुयात् ।

राज्ञा तथा प्रकृतयो नरदेवाहिताधयः

॥१८॥

अपि दाराः प्रजामात्या भृत्याः श्रेण्योऽथ मन्त्रिणः ।

पौरा जानपदा भूपा आत्मजा वशवर्तिनः

॥१९॥

यस्यात्मानुवशश्चेत्स्यात् सर्वे तद्वशगा इमे ।

लोकाः सपाला यच्छन्ति सर्वे बलिमतन्द्रिताः

॥२०॥

आत्मनः प्रीयते नात्मा परतः स्वत एव वा ।

लक्षयेऽलब्धकामं त्वां चिन्तया शबलं मुखम्

॥२१॥

एवं विकल्पितो राजन्विदुषा मुनिनापि सः ।

प्रश्रयावनतोऽभ्याह प्रजाकामस्ततो मुनिम्

॥२२॥

चित्रकेतुरुवाच

भगवन् किं न विदितं तपोज्ञानसमाधिभिः ।

योगिनां ध्वस्तपापानां बहिरन्तः शरीरिषु

॥२३॥

तथापि पृच्छतो ब्रूयां ब्रह्मन् आत्मनि चिन्तितम् ।

भवतो विदुषश्चापि चोदितस्त्वदनुज्ञया

॥२४॥

लोकपालैरपि प्रार्थ्याः साम्राज्यैश्वर्यसम्पदः ।

न नन्दयन्त्यप्रजं मां क्षुत्तृट्कामं इवापरे

॥२५॥

ततः पाहि महाभाग पूर्वैः सह गतं तमः ।

यथा तरेम दुष्पारं प्रजया तद्विधेहि नः

॥२६॥

श्रीशुक उवाच

इत्यर्थितः स भगवान्कृपालुर्ब्रह्मणः सुतः ।

श्रपयित्वा चरुं त्वाष्ट्रं त्वष्टारमयजद् विभुः

॥२७॥

ज्येष्ठा श्रेष्ठा च या राज्ञो महिषीणां च भारत ।

नाम्ना कृतद्युतिस्तस्यै यज्ञोच्छिष्टमदाद् द्विजः

॥२८॥

अथाह नृपतिं राजन् भवितैकस्तवात्मजः ।

हर्षशोकप्रदस्तुभ्यं इति ब्रह्मसुतो ययौ

॥२९॥

सापि तत्प्राशनादेव चित्रकेतोरधारयत् ।

गर्भं कृतद्युतिर्देवी कृत्तिकाग्नेरिवात्मजम्

॥३०॥

तस्या अनुदिनं गर्भः शुक्लपक्ष इवोडुपः ।

ववृधे शूरसेनेश तेजसा शनकैर्नृप

॥३१॥

अथ काल उपावृत्ते कुमारः समजायत ।

जनयन् शूरसेनानां श्रृण्वतां परमां मुदम्

॥३२॥

हृष्टो राजा कुमारस्य स्नातः शुचिरलङ्कृतः ।

वाचयित्वाशिषो विप्रैः कारयामास जातकम्

॥३३॥

तेभ्यो हिरण्यं रजतं वासांस्याभरणानि च ।

ग्रामान् हयान् गजान् प्रादाद् धेनूनां अर्बुदानि षट्

॥३४॥

ववर्ष कामानन्येषां पर्जन्य इव देहिनाम् ।

धन्यं यशस्यमायुष्यं कुमारस्य महामनाः

॥३५॥

कृच्छ्रलब्धेऽथ राजर्षेः तनयेऽनुदिनं पितुः ।

यथा निःस्वस्य कृच्छ्राप्ते धने स्नेहोऽन्ववर्धत

॥३६॥

मातुस्त्वतितरां पुत्रे स्नेहो मोहसमुद्भवः ।

कृतद्युतेः सपत्नीनां प्रजाकामज्वरोऽभवत्

॥३७॥

चित्रकेतोः अतिप्रीतिः यथा दारे प्रजावति ।

न तथान्येषु सञ्जज्ञे बालं लालयतोऽन्वहम्

॥३८॥

ताः पर्यतप्यन् आत्मानं गर्हयन्त्योऽभ्यसूयया ।

आनपत्येन दुःखेन राज्ञोऽनादरणेन च

॥३९॥

धिगप्रजां स्त्रियं पापां पत्युश्चागृहसम्मताम् ।

सुप्रजाभिः सपत्नीभिः दासीमिव तिरस्कृताम्

॥४०॥

दासीनां को नु सन्तापः स्वामिनः परिचर्यया ।

अभीक्ष्णं लब्धमानानां दास्या दासीव दुर्भगाः

॥४१॥

एवं सन्दह्यमानानां सपत्न्याः पुत्रसम्पदा ।

राज्ञोऽसम्मतवृत्तीनां विद्वेषो बलवानभूत्

॥४२॥

विद्वेषनष्टमतयः स्त्रियो दारुणचेतसः ।

गरं ददुः कुमाराय दुर्मर्षा नृपतिं प्रति

॥४३॥

कृतद्युतिरजानन्ती सपत्नीनामघं महत् ।

सुप्त एवेति सञ्चिन्त्य निरीक्ष्य व्यचरद्गृहे

॥४४॥

शयानं सुचिरं बालं उपधार्य मनीषिणी ।

पुत्रमानय मे भद्रे इति धात्रीमचोदयत्

॥४५॥

सा शयानमुपव्रज्य दृष्ट्वा चोत्तारलोचनम् ।

प्राणेन्द्रियात्मभिस्त्यक्तं हतास्मीत्यपतद्भुवि

॥४६॥

तस्यास्तदाऽऽकर्ण्य भृशातुरं स्वरं घ्नन्त्याः कराभ्यामुर उच्चकैरपि ।

प्रविश्य राज्ञी त्वरयाऽऽत्मजान्तिकं ददर्श बालं सहसा मृतं सुतम्

॥४७॥

पपात भूमौ परिवृद्धया शुचा मुमोह विभ्रष्टशिरोरुहाम्बरा

॥४८॥

ततो नृपान्तःपुरवर्तिनो जना नराश्च नार्यश्च निशम्य रोदनम् ।

आगत्य तुल्यव्यसनाः सुदुःखिताः ताश्च व्यलीकं रुरुदुः कृतागसः

॥४९॥

श्रुत्वा मृतं पुत्रमलक्षितान्तकं विनष्टदृष्टिः प्रपतम् स्खलन्पथि ।

स्नेहानुबन्धैधितया शुचा भृशं विमूर्च्छितोऽनुप्रकृतिर्द्विजैर्वृतः

॥५०॥

पपात बालस्य स पादमूले मृतस्य विस्रस्तशिरोरुहाम्बरः ।

दीर्घं श्वसन् बाष्पकलोपरोधतो निरुद्धकण्ठो न शशाक भाषितुम्

॥५१॥

पतिं निरीक्ष्योरुशुचार्पितं तदा मृतं च बालं सुतमेकसन्ततिम् ।

जनस्य राज्ञी प्रकृतेश्च हृद्रुजं सती दधाना विललाप चित्रधा

॥५२॥

स्तनद्वयं कुङ्कुमपङ्कमण्डितं निषिञ्चती साञ्जनबाष्पबिन्दुभिः ।

विकीर्य केशान्विगलत्स्रजः सुतं शुशोच चित्रं कुररीव सुस्वरम्

॥५३॥

अहो विधातस्त्वमतीव बालिशो यस्त्वात्मसृष्ट्यप्रतिरूपमीहसे ।

परे नु जीवत्यपरस्य या मृतिः विपर्ययश्चेत्त्वमसि ध्रुवः परः

॥५४॥

न हि क्रमश्चेदिह मृत्युजन्मनोः शरीरिणामस्तु तदात्मकर्मभिः ।

यः स्नेहपाशो निजसर्गवृद्धये स्वयं कृतस्ते तमिमं विवृश्चसि

॥५५॥

त्वं तात नार्हसि च मां कृपणामनाथां त्यक्तुं विचक्ष्व पितरं तव शोकतप्तम् ।

अञ्जस्तरेम भवताप्रजदुस्तरं यद् ध्वान्तं न याह्यकरुणेन यमेन दूरम्

॥५६॥

उत्तिष्ठ तात त इमे शिशवो वयस्याः त्वां आह्वयन्ति नृपनन्दन संविहर्तुम् ।

सुप्तश्चिरं ह्यशनया च भवान् परीतो भुङ्क्ष्व स्तनं पिब शुचो हर नः स्वकानाम्

॥५७॥

नाहं तनूज ददृशे हतमङ्गला ते मुग्धस्मितं मुदितवीक्षणमाननाब्जम् ।

किं वा गतोऽस्यपुनरन्वयमन्यलोकं नीतोऽघृणेन न श्रृणोमि कला गिरस्ते

॥५८॥

श्रीशुक उवाच

विलपन्त्या मृतं पुत्रं इति चित्रविलापनैः ।

चित्रकेतुर्भृशं तप्तो मुक्तकण्ठो रुरोद ह

॥५९॥

तयोर्विलपतोः सर्वे दम्पत्योस्तदनुव्रताः ।

रुरुदुः स्म नरा नार्यः सर्वमासीदचेतनम्

॥६०॥

एवं कश्मलमापन्नं नष्टसंज्ञमनायकम् ।

ज्ञात्वाङ्गिरा नाम मुनिः आजगाम सनारदः

॥६१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चित्रकेतुविलापो नाम चतुर्शोऽध्यायः ॥ १४ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु