मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — षष्ठस्कन्धः, अध्याय १२

3
षष्ठस्कन्धः · 12

वृत्रोवधः

श्रीमद्भागवत महापुराण षष्ठः स्कन्धः - द्वादशोऽध्यायः इन्द्रवृत्रयुद्धं वृत्रस्य वधश्च -श्रीऋषिरुवाच - एवं जिहासुर्नृप देहमाजौ मृत्युं वरं विजयान्मन्यमानः ।

शूलं प्रगृह्याभ्यपतत् सुरेन्द्रं यथा महापुरुषं कैटभोऽप्सु

॥१॥

ततो युगान्ताग्निकठोरजिह्वं आविध्य शूलं तरसासुरेन्द्रः ।

क्षिप्त्वा महेन्द्राय विनद्य वीरो हतोऽसि पापेति रुषा जगाद

॥२॥

ख आपतत् तद् विचलद् ग्रहोल्कवद् निरीक्ष्य दुष्प्रेक्ष्यमजातविक्लवः ।

वज्रेण वज्री शतपर्वणाच्छिनद् भुजं च तस्योरगराजभोगम्

॥३॥

छिन्नैकबाहुः परिघेण वृत्रः संरब्ध आसाद्य गृहीतवज्रम् ।

हनौ तताडेन्द्रमथामरेभं वज्रं च हस्तान् न्यपतन् मघोनः

॥४॥

वृत्रस्य कर्मातिमहाद्भुतं तत् सुरासुराश्चारणसिद्धसङ्घाः ।

अपूजयंस्तत् पुरुहूतसङ्कटं निरीक्ष्य हा हेति विचुक्रुशुर्भृशम्

॥५॥

इन्द्रो न वज्रं जगृहे विलज्जितः च्युतं स्वहस्तादरिसन्निधौ पुनः ।

तमाह वृत्रो हर आत्तवज्रो जहि स्वशत्रुं न विषादकालः

॥६॥

युयुत्सतां कुत्रचिदाततायिनां जयः सदैकत्र न वै परात्मनाम् ।

विनैकमुत्पत्तिलयस्थितीश्वरं सर्वज्ञमाद्यं पुरुषं सनातनम्

॥७॥

लोकाः सपाला यस्येमे श्वसन्ति विवशा वशे ।

द्विजा इव शिचा बद्धाः स काल इह कारणम्

॥८॥

ओजः सहो बलं प्राणं अमृतं मृत्युमेव च ।

तमज्ञाय जनो हेतुं आत्मानं मन्यते जडम्

॥९॥

यथा दारुमयी नारी यथा यंत्रमयो मृगः ।

एवं भूतानि मघवन् नीशतन्त्राणि विद्धि भोः

॥१०॥

पुरुषः प्रकृतिर्व्यक्तं आत्मा भूतेन्द्रियाशयाः ।

शक्नुवन्त्यस्य सर्गादौ न विना यदनुग्रहात्

॥११॥

अविद्वानेवमात्मानं मन्यतेऽनीशमीश्वरम् ।

भूतैः सृजति भूतानि ग्रसते तानि तैः स्वयम्

॥१२॥

आयुः श्रीः कीर्तिरैश्वर्यं आशिषः पुरुषस्य याः ।

भवन्त्येव हि तत्काले यथानिच्छोर्विपर्ययाः

॥१३॥

तस्मादकीर्तियशसोः जयापजययोरपि ।

समः स्यात्सुखदुःखाभ्यां मृत्युजीवितयोस्तथा

॥१४॥

सत्त्वं रजस्तम इति प्रकृतेर्नात्मनो गुणाः ।

तत्र साक्षिणमात्मानं यो वेद स न बध्यते

॥१५॥

पश्य मां निर्जितं शत्रु वृक्णायुधभुजं मृधे ।

घटमानं यथाशक्ति तव प्राणजिहीर्षया

॥१६॥

प्राणग्लहोऽयं समर इष्वक्षो वाहनासनः ।

अत्र न ज्ञायतेऽमुष्य जयोऽमुष्य पराजयः

॥१७॥

श्रीशुक उवाच

इन्द्रो वृत्रवचः श्रुत्वा गतालीकमपूजयत् ।

गृहीतवज्रः प्रहसन् तमाह गतविस्मयः

॥१८॥

इन्द्र उवाच

अहो दानव सिद्धोऽसि यस्य ते मतिरीदृशी ।

भक्तः सर्वात्मनात्मानं सुहृदं जगदीश्वरम्

॥१९॥

भवानतार्षीन्मायां वै वैष्णवीं जनमोहिनीम् ।

यद् विहायासुरं भावं महापुरुषतां गतः

॥२०॥

खल्विदं महदाश्चर्यं यद्रजःप्रकृतेस्तव ।

वासुदेवे भगवति सत्त्वात्मनि दृढा मतिः

॥२१॥

यस्य भक्तिर्भगवति हरौ निःश्रेयसेश्वरे ।

विक्रीडतोऽमृताम्भोधौ किं क्षुद्रैः खातकोदकैः

॥२२॥

श्रीशुक उवाच

इति ब्रुवाणावन्योन्यं धर्मजिज्ञासया नृप ।

युयुधाते महावीर्यौ इन्द्रवृत्रौ युधाम्पती

॥२३॥

आविध्य परिघं वृत्रः कार्ष्णायसमरिन्दमः ।

इन्द्राय प्राहिणोद् घोरं वामहस्तेन मारिष

॥२४॥

स तु वृत्रस्य परिघं करं च करभोपमम् ।

चिच्छेद युगपद् देवो वज्रेण शतपर्वणा

॥२५॥

दोर्भ्यां उत्कृत्तमूलाभ्यां बभौ रक्तस्रवोऽसुरः ।

छिन्नपक्षो यथा गोत्रः खाद् भ्रष्टो वज्रिणा हतः

॥२६॥

कृत्वाधरां हनुं भूमौ दैत्यो दिव्युत्तरां हनुम् नभोगम्भीरवक्त्रेण लेलिहोल्बणजिह्वया

॥२७॥

दंष्ट्राभिः कालकल्पाभिः ग्रसन्निव जगत्त्रयम् ।

अतिमात्रमहाकाय आक्षिपन् तरसा गिरीन्

॥२८॥

गिरिराट् पादचारीव पद्भ्यां निर्जरयन् महीम् ।

जग्रास स समासाद्य वज्रिणं सहवाहनम्

॥२९॥

वृत्रग्रस्तं तमालोक्य सप्रजापतयः सुराः ।

महाप्राणो महावीर्यो महासर्प एव द्विपम् ।

हा कष्टमिति निर्विण्णाः चुक्रुशुः समहर्षयः

॥३०॥

निगीर्णोऽप्यसुरेन्द्रेण न ममारोदरं गतः ।

महापुरुषसन्नद्धो योगमायाबलेन च

॥३१॥

भित्त्वा वज्रेण तत्कुक्षिं निष्क्रम्य बलभिद् विभुः ।

उच्चकर्त शिरः शत्रोः गिरिश्रृङ्गमिवौजसा

॥३२॥

वज्रस्तु तत्कन्धरमाशुवेगः कृन्तन् समन्तात् परिवर्तमानः ।

न्यपातयत् तावदहर्गणेन यो ज्योतिषामयने वार्त्रहत्ये

॥३३॥

तदा च खे दुन्दुभयो विनेदुः गन्धर्वसिद्धाः समहर्षिसङ्घाः ।

वार्त्रघ्नलिङ्गैस्तमभिष्टुवाना मन्त्रैर्मुदा कुसुमैरभ्यवर्षन्

॥३४॥

वृत्रस्य देहान् निष्क्रान्तं आत्मज्योतिररिन्दम ।

पश्यतां सर्वदेवानां अलोकं समपद्यत

॥३५॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे वृत्रोवधो नाम द्वादशोऽध्यायः ॥ १२ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु