मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — षष्ठस्कन्धः, अध्याय १९

3
षष्ठस्कन्धः · 19

पुंसवनव्रतकथनम्

श्रीमद्भागवत महापुराण षष्ठः स्कन्धः - एकोनविंशोऽध्यायः पुंसवनव्रतविधिः -श्रीराजोवाच - व्रतं पुंसवनं ब्रह्मन् भवता यदुदीरितम् ।

तस्य वेदितुमिच्छामि येन विष्णुः प्रसीदति

॥१॥

श्रीशुक उवाच

शुक्ले मार्गशिरे पक्षे योषिद्भर्तुरनुज्ञया ।

आरभेत व्रतमिदं सार्वकामिकमादितः

॥२॥

निशम्य मरुतां जन्म ब्राह्मणान् अनुमन्त्र्य च ।

स्नात्वा शुक्लदती शुक्ले वसीतालङ्कृताम्बरे ।

पूजयेत् प्रातराशात् प्राग् भगवन्तं श्रिया सह

॥३॥

अलं ते निरपेक्षाय पूर्णकाम नमोऽस्तु ते ।

महाविभूतिपतये नमः सकलसिद्धये

॥४॥

यथा त्वं कृपया भूत्या तेजसा महिमौजसा ।

जुष्ट ईश गुणैः सर्वैः ततोऽसि भगवान् प्रभुः

॥५॥

विष्णुपत्नि महामाये महापुरुषलक्षणे ।

प्रीयेथा मे महाभागे लोकमातर्नमोऽस्तु ते

॥६॥

ॐ नमो भगवते महापुरुषाय महानुभावाय महाविभूतिपतये सह महाविभूतिभिः बलिमुपहरामीति ।

अनेनाहरहर्मन्त्रेण विष्णोरावाहनार्घ्यपाद्योपस्पर्शनस्नान वासउपवीतविभूषण गन्धपुष्पधूपदीपोपहारादि उपचारान् सुसमाहित उपाहरेत्

॥७॥

हविःशेषं च जुहुयादनले द्वादशाहुतीः ।

ॐ नमो भगवते महापुरुषाय महाविभूतिपतये स्वाहेति

॥८॥

श्रियं विष्णुं च वरदावाशिषां प्रभवावुभौ ।

भक्त्या सम्पूजयेन्नित्यं यदीच्छेत्सर्वसम्पदः

॥९॥

प्रणमेद् दण्डवद्भूमौ भक्तिप्रह्वेण चेतसा ।

दशवारं जपेन्मन्त्रं ततः स्तोत्रमुदीरयेत्

॥१०॥

युवां तु विश्वस्य विभू जगतः कारणं परम् ।

इयं हि प्रकृतिः सूक्ष्मा मायाशक्तिर्दुरत्यया

॥११॥

तस्या अधीश्वरः साक्षात् त्वमेव पुरुषः परः ।

त्वं सर्वयज्ञ इज्येयं क्रियेयं फलभुग्भवान्

॥१२॥

गुणव्यक्तिरियं देवी व्यञ्जको गुणभुग्भवान् ।

त्वं हि सर्वशरीर्यात्मा श्रीः शरीरेन्द्रियाशयाः ।

नामरूपे भगवती प्रत्ययस्त्वं अपाश्रयः

॥१३॥

यथा युवां त्रिलोकस्य वरदौ परमेष्ठिनौ ।

तथा म उत्तमश्लोक सन्तु सत्या महाशिषः

॥१४॥

इत्यभिष्टूय वरदं श्रीनिवासं श्रिया सह ।

तन्निःसार्योपहरणं दत्त्वाऽऽचमनमर्चयेत्

॥१५॥

ततः स्तुवीत स्तोत्रेण भक्तिप्रह्वेण चेतसा ।

यज्ञोच्छिष्टमवघ्राय पुनरभ्यर्चयेद् हरिम्

॥१६॥

पतिं च परया भक्त्या महापुरुषचेतसा ।

प्रियैस्तैस्तैरुपनमेत् प्रेमशीलः स्वयं पतिः ।

बिभृयात् सर्वकर्माणि पत्न्या उच्चावचानि च

॥१७॥

कृतमेकतरेणापि दम्पत्योरुभयोरपि ।

पत्न्यां कुर्यादनर्हायां पतिरेतत् समाहितः

॥१८॥

विष्णोर्व्रतमिदं बिभ्रन् न विहन्यात् कथञ्चन ।

विप्रान् स्त्रियो वीरवतीः स्रग्गन्धबलिमण्डनैः ।

अर्चेदहरहर्भक्त्या देवं नियममास्थितः

॥१९॥

उद्वास्य देवं स्वे धाम्नि तन्निवेदितमग्रतः ।

अद्यात् आत्मविशुद्ध्यर्थं सर्वकामर्द्धये तथा

॥२०॥

एतेन पूजाविधिना मासान् द्वादश हायनम् ।

नीत्वाथोपचरेत् साध्वी कार्तिके चरमेऽहनि

॥२१॥

श्वोभूतेऽप उपस्पृश्य कृष्णमभ्यर्च्य पूर्ववत् ।

पयःश्रृतेन जुहुयात् चरुणा सह सर्पिषा ।

पाकयज्ञविधानेन द्वादशैवाहुतीः पतिः

॥२२॥

आशिषः शिरसाऽऽदाय द्विजैः प्रीतैः समीरिताः ।

प्रणम्य शिरसा भक्त्या भुञ्जीत तदनुज्ञया

॥२३॥

आचार्यमग्रतः कृत्वा वाग्यतः सह बन्धुभिः ।

दद्यात्पत्न्यै चरोः शेषं सुप्रजास्त्वं सुसौभगम्

॥२४॥

एतच्चरित्वा विधिवद्व्रतं विभोः अभीप्सितार्थं लभते पुमानिह ।

स्त्री त्वेतदास्थाय लभेत सौभगं श्रियं प्रजां जीवपतिं यशो गृहम्

॥२५॥

कन्या च विन्देत समग्रलक्षणं वरं त्ववीरा हतकिल्बिषां गतिम् ।

मृतप्रजा जीवसुता धनेश्वरी सुदुर्भगा सुभगा रूपमग्र्यम्

॥२६॥

विन्देद् विरूपा विरुजा विमुच्यते य आमयावीन्द्रियकल्यदेहम् ।

एतत्पठन्नभ्युदये च कर्मणि अनन्ततृप्तिः पितृदेवतानाम्

॥२७॥

तुष्टाः प्रयच्छन्ति समस्तकामान् होमावसाने हुतभुक् श्रीः हरिश्च ।

राजन् महन्मरुतां जन्म पुण्यं दितेर्व्रतं चाभिहितं महत्ते

॥२८॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे पुंसवनव्रतकथनं नाम एकोनविंशोऽध्यायः ॥ १९ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु