मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — षष्ठस्कन्धः, अध्याय १७

3
षष्ठस्कन्धः · 17

चित्रकेतुशापः

श्रीमद्भागवत महापुराण षष्ठः स्कन्धः - शप्तदशोऽध्यायः कैलासे पार्वतीसहितस्य शिवस्योपहासकरणात् पार्वतीशापेन चित्रकेतोर्वृत्रजन्म प्राप्तिश्च -श्रीशुक उवाच - यतश्चान्तर्हितोऽनन्तः तस्यै कृत्वा दिशे नमः ।

विद्याधरश्चित्रकेतुः चचार गगने चरः

॥१॥

स लक्षं वर्षलक्षाणां अव्याहतबलेन्द्रियः ।

स्तूयमानो महायोगी मुनिभिः सिद्धचारणैः

॥२॥

कुलाचलेन्द्रद्रोणीषु नानासङ्कल्पसिद्धिषु ।

रेमे विद्याधरस्त्रीभिः गापयन् हरिमीश्वरम्

॥३॥

एकदा स विमानेन विष्णुदत्तेन भास्वता ।

गिरिशं ददृशे गच्छन् परीतं सिद्धचारणैः

॥४॥

आलिङ्ग्याङ्कीकृतां देवीं बाहुना मुनिसंसदि ।

उवाच देव्याः श्रृण्वन्त्या जहासोच्चैस्तदन्तिके

॥५॥

चित्रकेतुरुवाच

एष लोकगुरुः साक्षात् धर्मं वक्ता शरीरिणाम् ।

आस्ते मुख्यः सभायां वै मिथुनीभूय भार्यया

॥६॥

जटाधरस्तीव्रतपा ब्रह्मवादिसभापतिः ।

अङ्कीकृत्य स्त्रियं चास्ते गतह्रीः प्राकृतो यथा

॥७॥

प्रायशः प्राकृताश्चापि स्त्रियं रहसि बिभ्रति ।

अयं महाव्रतधरो बिभर्ति सदसि स्त्रियम्

॥८॥

श्रीशुक उवाच

भगवानपि तच्छ्रुत्वा प्रहस्यागाधधीर्नृप ।

तूष्णीं बभूव सदसि सभ्याश्च तदनुव्रताः

॥९॥

इत्यतद्वीर्यविदुषि ब्रुवाणे बह्वशोभनम् ।

रुषाऽऽह देवी धृष्टाय निर्जितात्माभिमानिने

॥१०॥

श्रीपार्वति उवाच

अयं किमधुना लोके शास्ता दण्डधरः प्रभुः ।

अस्मद्विधानां दुष्टानां निर्लज्जानां च विप्रकृत्

॥११॥

न वेद धर्मं किल पद्मयोनिः न ब्रह्मपुत्रा भृगुनारदाद्याः ।

न वै कुमारः कपिलो मनुश्च ये नो निषेधन्त्यतिवर्तिनं हरम्

॥१२॥

एषामनुध्येयपदाब्जयुग्मं जगद्गुरुं मङ्गलमङ्गलं स्वयम् ।

यः क्षत्रबन्धुः परिभूय सूरीन् प्रशास्ति धृष्टस्तदयं हि दण्ड्यः

॥१३॥

नायमर्हति वैकुण्ठ पादमूलोपसर्पणम् ।

सम्भावितमतिः स्तब्धः साधुभिः पर्युपासितम्

॥१४॥

अतः पापीयसीं योनिं आसुरीं याहि दुर्मते ।

यथेह भूयो महतां न कर्ता पुत्र किल्बिषम्

॥१५॥

श्रीशुक उवाच

एवं शप्तश्चित्रकेतुः विमानाद् अवरुह्य सः ।

प्रसादयामास सतीं मूर्ध्ना नम्रेण भारत

॥१६॥

चित्रकेतुरुवाच

प्रतिगृह्णामि ते शापं आत्मनोऽञ्जलिनाम्बिके ।

देवैर्मर्त्याय यत्प्रोक्तं पूर्वदिष्टं हि तस्य तत्

॥१७॥

संसारचक्र एतस्मिन् जन्तुरज्ञानमोहितः ।

भ्राम्यन् सुखं च दुःखं च भुङ्क्ते सर्वत्र सर्वदा

॥१८॥

नैवात्मा न परश्चापि कर्ता स्यात् सुखदुःखयोः ।

कर्तारं मन्यतेऽप्राज्ञ आत्मानं परमेव च

॥१९॥

गुणप्रवाह एतस्मिन्कः शापः को न्वनुग्रहः ।

कः स्वर्गो नरकः को वा किं सुखं दुःखमेव वा

॥२०॥

एकः सृजति भूतानि भगवान् आत्ममायया ।

एषां बन्धं च मोक्षं च सुखं दुःखं च निष्कलः

॥२१॥

न तस्य कश्चिद् दयितः प्रतीपो न ज्ञातिबन्धुर्न परो न च स्वः ।

समस्य सर्वत्र निरञ्जनस्य सुखे न रागः कुत एव रोषः

॥२२॥

तथापि तच्छक्तिविसर्ग एषां सुखाय दुःखाय हिताहिताय ।

बन्धाय मोक्षाय च मृत्युजन्मनोः शरीरिणां संसृतयेऽवकल्पते

॥२३॥

अथ प्रसादये न त्वां शापमोक्षाय भामिनि ।

यन्मन्यसे ह्यसाधूक्तं मम तत्क्षम्यतां सति

॥२४॥

श्रीशुक उवाच

इति प्रसाद्य गिरिशौ चित्रकेतुररिन्दम ।

जगाम स्वविमानेन पश्यतोः स्मयतोस्तयोः

॥२५॥

ततस्तु भगवान्रुद्रो रुद्राणीं इदमब्रवीत् ।

देवर्षिदैत्यसिद्धानां पार्षदानां च श्रृण्वताम्

॥२६॥

श्रीरुद्र उवाच

दृष्टवत्यसि सुश्रोणि हरेरद्भुतकर्मणः ।

माहात्म्यं भृत्यभृत्यानां निःस्पृहाणां महात्मनाम्

॥२७॥

नारायणपराः सर्वे न कुतश्चन बिभ्यति ।

स्वर्गापवर्गनरकेषु अपि तुल्यार्थदर्शिनः

॥२८॥

देहिनां देहसंयोगाद् द्वन्द्वान् ईश्वरलीलया ।

सुखं दुःखं मृतिर्जन्म शापोऽनुग्रह एव च

॥२९॥

अविवेककृतः पुंसो ह्यर्थभेद इवात्मनि ।

गुणदोषविकल्पश्च भिदेव स्रजिवत्कृतः

॥३०॥

वासुदेवे भगवति भक्तिं उद्वहतां नृणाम् ।

ज्ञानवैराग्यवीर्याणां न हि कश्चिद्व्यपाश्रयः

॥३१॥

नाहं विरिञ्चो न कुमारनारदौ न ब्रह्मपुत्रा मुनयः सुरेशाः ।

विदाम यस्येहितमंशकांशका न तत्स्वरूपं पृथगीशमानिनः

॥३२॥

न ह्यस्यास्ति प्रियः कश्चित् नाप्रियः स्वः परोऽपि वा ।

आत्मत्वात् सर्वभूतानां सर्वभूतप्रियो हरिः

॥३३॥

तस्य चायं महाभागः चित्रकेतुः प्रियोऽनुगः ।

सर्वत्र समदृक् शान्तो ह्यहं चैवाच्युतप्रियः

॥३४॥

तस्मान्न विस्मयः कार्यः पुरुषेषु महात्मसु ।

महापुरुषभक्तेषु शान्तेषु समदर्शिषु

॥३५॥

श्रीशुक उवाच

इति श्रुत्वा भगवतः शिवस्योमाभिभाषितम् ।

बभूव शान्तधी राजन् देवी विगतविस्मया

॥३६॥

इति भागवतो देव्याः प्रतिशप्तुमलन्तमः ।

मूर्ध्ना स जगृहे शापं एतावत् साधुलक्षणम्

॥३७॥

जज्ञे त्वष्टुर्दक्षिणाग्नौ दानवीं योनिमाश्रितः ।

वृत्र इत्यभिविख्यातो ज्ञानविज्ञानसंयुतः

॥३८॥

एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।

वृत्रस्यासुरजातेश्च कारणं भगवन्मतेः

॥३९॥

इतिहासं इमं पुण्यं चित्रकेतोर्महात्मनः ।

माहात्म्यं विष्णुभक्तानां श्रुत्वा बन्धाद् विमुच्यते

॥४०॥

य एतत् प्रातरुत्थाय श्रद्धया वाग्यतः पठेत् ।

इतिहासं हरिं स्मृत्वा स याति परमां गतिम्

॥४१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां षष्ठस्कन्धे चित्रकेतुशापो नाम सप्तदशोऽध्यायः ॥ १७ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु