मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — अष्टमस्कन्धः, अध्याय २

3
अष्टमस्कन्धः · 2

श्रीमद्भागवत महापुराण अष्टमः स्कन्धः - द्वितीयोऽध्यायः गजेंद्रोप…

श्रीमद्भागवत महापुराण अष्टमः स्कन्धः - द्वितीयोऽध्यायः गजेंद्रोपाख्याने गजग्राहयुद्धवर्णनम् -श्रीशुक उवाच - आसीद् गिरिवरो राजन् त्रिकूट इति विश्रुतः ।

क्षीरोदेनावृतः श्रीमान् योजनायुतमुच्छ्रितः

॥१॥

तावता विस्तृतः पर्यक्त्रिभिः श्रृङ्गैः पयोनिधिम् ।

दिशः खं रोचयन्नास्ते रौप्यायसहिरण्मयैः

॥२॥

अन्यैश्च ककुभः सर्वा रत्नधातुविचित्रितैः ।

नानाद्रुमलतागुल्मैः निर्घोषैः निर्झराम्भसाम्

॥३॥

स चावनिज्यमानाङ्घ्रिः समन्तात् पयऊर्मिभिः ।

करोति श्यामलां भूमिं हरिन् मरकताश्मभिः

॥४॥

सिद्धचारणगन्धर्व विद्याधरमहोरगैः ।

किन्नरैः अप्सरोभिश्च क्रीडद्भिः जुष्टकन्दरः

॥५॥

यत्र सङ्गीतसन्नादैः नदद्गुहममर्षया ।

अभिगर्जन्ति हरयः श्लाघिनः परशंकया

॥६॥

नानारण्यपशुव्रात संकुलद्रोण्यलंकृतः ।

चित्रद्रुमसुरोद्यान कलकण्ठविहंगमः

॥७॥

सरित्सरोभिरच्छोदैः पुलिनैः मणिवालुकैः ।

देवस्त्रीमज्जनामोद सौरभाम्ब्वनिलैर्युतः

॥८॥

तस्य द्रोण्यां भगवतो वरुणस्य महात्मनः ।

उद्यानं ऋतुमन्नाम आक्रीडं सुरयोषिताम्

॥९॥

सर्वतोऽलंकृतं दिव्यैः नित्यपुष्पफलद्रुमैः ।

मन्दारैः पारिजातैश्च पाटलाशोकचम्पकैः

॥१०॥

चूतैः पियालैः पनसैः आम्रैः आम्रातकैरपि ।

क्रमुकैर्नारिकेलैश्च खर्जूरैः बीजपूरकैः

॥११॥

मधुकैः शालतालैश्च तमालै रसनार्जुनैः ।

अरिष्टोडुम्बरप्लक्षैः वटैः किंशुकचन्दनैः

॥१२॥

पिचुमर्दैः कोविदारैः सरलैः सुरदारुभिः ।

द्राक्षेक्षु रम्भाजम्बुभिः बदर्यक्षाभयामलैः

॥१३॥

बिल्वैः कपित्थैर्जम्बीरैः वृतो भल्लातकादिभिः ।

तस्मिन्सरः सुविपुलं लसत्काञ्चनपंकजम्

॥१४॥

कुमुदोत्पलकह्लार शतपत्रश्रियोर्जितम् ।

मत्तषट्पदनिर्घुष्टं शकुन्तैश्च कलस्वनैः

॥१५॥

हंसकारण्डवाकीर्णं चक्राह्वैः सारसैरपि ।

जलकुक्कुटकोयष्टि दात्यूहकुलकूजितम्

॥१६॥

मत्स्यकच्छपसञ्चार चलत्पद्मरजःपयः ।

कदम्बवेतसनल नीपवञ्जुलकैर्वृतम्

॥१७॥

कुन्दैः कुरुबकाशोकैः शिरीषैः कूटजेङ्गुदैः ।

कुब्जकैः स्वर्णयूथीभिः नागपुन्नाग जातिभिः

॥१८॥

मल्लिकाशतपत्रैश्च माधवीजालकादिभिः ।

शोभितं तीरजैश्चान्यैः नित्यर्तुभिरलं द्रुमैः

॥१९॥

तत्रैकदा तद्गिरिकाननाश्रयः करेणुभिर्वारणयूथपश्चरन् ।

सकण्टकं कीचकवेणुवेत्रवद् विशालगुल्मं प्ररुजन् वनस्पतीन्

॥२०॥

यद्गन्धमात्राद्धरयो गजेन्द्रा व्याघ्रादयो व्यालमृगाः सखड्गाः ।

महोरगाश्चापि भयाद्द्रवन्ति सगौरकृष्णाः सरभाश्चमर्यः

॥२१॥

वृका वराहा महिषर्क्षशल्या गोपुच्छशालावृकमर्कटाश्च ।

अन्यत्र क्षुद्रा हरिणाः शशादयः चरन्त्यभीता यदनुग्रहेण

॥२२॥

स घर्मतप्तः करिभिः करेणुभिः वृतो मदच्युत्कलभैरनुद्रुतः ।

गिरिं गरिम्णा परितः प्रकम्पयन् निषेव्यमाणोऽलिकुलैर्मदाशनैः

॥२३॥

सरोऽनिलं पङ्कजरेणुरूषितं जिघ्रन् विदूरान् मदविह्वलेक्षणः ।

वृतः स्वयूथेन तृषार्दितेन तत् सरोवराभ्याशमथागमद् द्रुतम्

॥२४॥

विगाह्य तस्मिन् अमृताम्बु निर्मलं हेमारविन्दोत्पलरेणुवासितम् ।

पपौ निकामं निजपुष्करोद्धृतं आत्मानमद्भिः स्नपयन्गतक्लमः

॥२५॥

स पुष्करेणोद्धृतशीकराम्बुभिः निपाययन् संस्नपयन्यथा गृही ।

घृणी करेणुः करभांश्च दुर्मदो नाचष्ट कृच्छ्रं कृपणोऽजमायया

॥२६॥

तं तत्र कश्चिन्नृप दैवचोदितो ग्राहो बलीयांश्चरणे रुषाग्रहीत् ।

यदृच्छयैवं व्यसनं गतो गजो यथाबलं सोऽतिबलो विचक्रमे

॥२७॥

तथाऽऽतुरं यूथपतिं करेणवो विकृष्यमाणं तरसा बलीयसा ।

विचुक्रुशुर्दीनधियोऽपरे गजाः पार्ष्णिग्रहास्तारयितुं न चाशकन्

॥२८॥

नियुध्यतोरेवमिभेन्द्रनक्रयोः विकर्षतोरन्तरतो बहिर्मिथः ।

समाः सहस्रं व्यगमन् महीपते सप्राणयोश्चित्रममंसतामराः

॥२९॥

ततो गजेन्द्रस्य मनोबलौजसां कालेन दीर्घेण महानभूद् व्ययः ।

विकृष्यमाणस्य जलेऽवसीदतो विपर्ययोऽभूत् सकलं जलौकसः

॥३०॥

इत्थं गजेन्द्रः स यदाप संकटं प्राणस्य देही विवशो यदृच्छया ।

अपारयन्नात्मविमोक्षणे चिरं दध्याविमां बुद्धिमथाभ्यपद्यत

॥३१॥

न मामिमे ज्ञातय आतुरं गजाः कुतः करिण्यः प्रभवन्ति मोचितुम् ।

ग्राहेण पाशेन विधातुरावृतोऽपि अहं च तं यामि परं परायणम्

॥३२॥

यः कश्चनेशो बलिनोऽन्तकोरगात् प्रचण्डवेगादभिधावतो भृशम् ।

भीतं प्रपन्नं परिपाति यद्भयात् मृत्युः प्रधावत्यरणं तमीमहि

॥३३॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे मन्वन्तरानुवर्णने गजेन्द्रोपाख्याने द्वितीयोऽध्यायः ॥ २ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु ॥ गज-ग्राहोपरि टिप्पणी