मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — अष्टमस्कन्धः, अध्याय १२

3
अष्टमस्कन्धः · 12

मोहयित्वा सुरगणान् हरिः सोममपाययत्

श्रीमद्भागवत महापुराण अष्टमः स्कन्धः - द्वादशोऽध्यायः भगवतो मोहिनीरूपं दृष्ट्वा महादेवस्य मोहः -श्रीबादरायणिरुवाच - (अनुष्टुप्) वृषध्वजो निशम्येदं योषिद् रूपेण दानवान् ।

मोहयित्वा सुरगणान् हरिः सोममपाययत्

॥१॥

वृषमारुह्य गिरिशः सर्वभूतगणैर्वृतः ।

सह देव्या ययौ द्रष्टुं यत्रास्ते मधुसूदनः

॥२॥

सभाजितो भगवता सादरं सोमया भवः ।

सूपविष्ट उवाचेदं प्रतिपूज्य स्मयन्हरिम्

॥३॥

श्रीमहादेव उवाच

देवदेव जगद्व्यापिन् जगदीश जगन्मय ।

सर्वेषामपि भावानां त्वमात्मा हेतुरीश्वरः

॥४॥

आद्यन्तौ अस्य यन्मध्यं इदं अन्यदहं बहिः ।

यतोऽव्ययस्य नैतानि तत्सत्यं ब्रह्म चिद्भवान्

॥५॥

तवैव चरणाम्भोजं श्रेयस्कामा निराशिषः ।

विसृज्योभयतः संगं मुनयः समुपासते

॥६॥

त्वं ब्रह्म पूर्णममृतं विगुणं विशोकं आनन्दमात्रमविकारमनन्यदन्यत् ।

विश्वस्य हेतुरुदयस्थितिसंयमानां आत्मेश्वरश्च तदपेक्षतयानपेक्षः

॥७॥

एकस्त्वमेव सदसद् द्वयमद्वयं च स्वर्णं कृताकृतमिवेह न वस्तुभेदः ।

अज्ञानतस्त्वयि जनैर्विहितो विकल्पो ।

यस्माद् गुणव्यतिकरो निरुपाधिकस्य

॥८॥

त्वां ब्रह्म केचिदवयन्त्युत धर्ममेके एके परं सदसतोः पुरुषं परेशम् ।

अन्येऽवयन्ति नवशक्तियुतं परं त्वां केचिन्महापुरुषमव्ययमात्मतन्त्रम्

॥९॥

नाहं परायुरृषयो न मरीचिमुख्या जानन्ति यद्विरचितं खलु सत्त्वसर्गाः ।

यन्मायया मुषितचेतस ईश दैत्य मर्त्यादयः किमुत शश्वदभद्रवृत्ताः

॥१०॥

स त्वं समीहितमदः स्थितिजन्मनाशं भूतेहितं च जगतो भवबन्धमोक्षौ ।

वायुर्यथा विशति खं च चराचराख्यं सर्वं तदात्मकतयावगमोऽवरुन्त्से

॥११॥

(अनुष्टुप्) अवतारा मया दृष्टा रममाणस्य ते गुणैः ।

सोऽहं तद् द्रष्टुमिच्छामि यत्ते योषिद् वपुर्धृतम्

॥१२॥

येन सम्मोहिता दैत्याः पायिताश्चामृतं सुराः ।

तद् दिदृक्षव आयाताः परं कौतूहलं हि नः

॥१३॥

श्रीशुक उवाच

एवं अभ्यर्थितो विष्णुः भगवान् शूलपाणिना ।

प्रहस्य भावगम्भीरं गिरिशं प्रत्यभाषत

॥१४॥

श्रीभगवानुवाच

कौतूहलाय दैत्यानां योषिद्वेषो मया कृतः ।

पश्यता सुरकार्याणि गते पीयूषभाजने

॥१५॥

तत्तेऽहं दर्शयिष्यामि दिदृक्षोः सुरसत्तम ।

कामिनां बहु मन्तव्यं संकल्पप्रभवोदयम्

॥१६॥

श्रीशुक उवाच

इति ब्रुवाणो भगवान् तत्रैवान्तरधीयत ।

सर्वतश्चारयन् चक्षुः भव आस्ते सहोमया

॥१७॥

ततो ददर्शोपवने वरस्त्रियं विचित्रपुष्पारुणपल्लवद्रुमे ।

विक्रीडतीं कन्दुकलीलया लसद् दुकूलपर्यस्तनितम्बमेखलाम्

॥१८॥

आवर्तनोद्वर्तनकम्पितस्तन प्रकृष्टहारोरुभरैः पदे पदे ।

प्रभज्यमानामिव मध्यतश्चलउ पदप्रवालं नयतीं ततस्ततः

॥१९॥

दिक्षु भ्रमत्कन्दुकचापलैर्भृशं प्रोद्विग्नतारायतलोललोचनाम् ।

स्वकर्णविभ्राजितकुण्डलोल्लसत् कपोलनीलालकमण्डिताननाम्

॥२०॥

श्लथद् दुकूलं कबरीं च विच्युतां सन्नह्यतीं वामकरेण वल्गुना ।

विनिघ्नतीमन्यकरेण कन्दुकं विमोहयन्तीं जगदात्ममायया

॥२१॥

तां वीक्ष्य देव इति कन्दुकलीलयेषद् व्रीडास्फुटस्मितविसृष्टकटाक्षमुष्टः ।

स्त्रीप्रेक्षणप्रतिसमीक्षणविह्वलात्मा नात्मानमन्तिक उमां स्वगणांश्च वेद

॥२२॥

तस्याः कराग्रात्स तु कन्दुको यदा गतो विदूरं तमनुव्रजत्स्त्रियाः ।

वासः ससूत्रं लघु मारुतोऽहरद् भवस्य देवस्य किलानुपश्यतः

॥२३॥

(अनुष्टुप्) एवं तां रुचिरापाङ्गीं दर्शनीयां मनोरमाम् ।

दृष्ट्वा तस्यां मनश्चक्रे विषज्जन्त्यां भवः किल

॥२४॥

तयापहृतविज्ञानः तत्कृतस्मरविह्वलः ।

भवान्या अपि पश्यन्त्या गतह्रीस्तत्पदं ययौ

॥२५॥

सा तं आयान्तमालोक्य विवस्त्रा व्रीडिता भृशम् ।

निलीयमाना वृक्षेषु हसन्ती नान्वतिष्ठत

॥२६॥

तां अन्वगच्छद् भगवान् भवः प्रमुषितेन्द्रियः ।

कामस्य च वशं नीतः करेणुमिव यूथपः

॥२७॥

सोऽनुव्रज्यातिवेगेन गृहीत्वानिच्छतीं स्त्रियम् ।

केशबन्ध उपानीय बाहुभ्यां परिषस्वजे

॥२८॥

सोपगूढा भगवता करिणा करिणी यथा ।

इतस्ततः प्रसर्पन्ती विप्रकीर्णशिरोरुहा

॥२९॥

आत्मानं मोचयित्वाङ्ग सुरर्षभभुजान्तरात् ।

प्राद्रवत्सा पृथुश्रोणी माया देवविनिर्मिता

॥३०॥

तस्यासौ पदवीं रुद्रो विष्णोरद्भुतकर्मणः ।

प्रत्यपद्यत कामेन वैरिणेव विनिर्जितः

॥३१॥

तस्यानुधावतो रेतः चस्कन्दामोघरेतसः ।

शुष्मिणो यूथपस्येव वासितामनुधावतः

॥३२॥

यत्र यत्रापतन् मह्यां रेतस्तस्य महात्मनः ।

तानि रूप्यस्य हेम्नश्च क्षेत्राण्यासन् महीपते

॥३३॥

सरित्सरःसु शैलेषु वनेषु उपवनेषु च ।

यत्र क्व चासन् ऋषयः तत्र सन्निहितो हरः

॥३४॥

स्कन्ने रेतसि सोऽपश्यत् आत्मानं देवमायया ।

जडीकृतं नृपश्रेष्ठ सन्न्यवर्तत कश्मलात्

॥३५॥

अथ अवगतमाहात्म्य आत्मनो जगदात्मनः ।

अपरिज्ञेयवीर्यस्य न मेने तदु हाद्भुतम्

॥३६॥

तमविक्लवमव्रीडं आलक्ष्य मधुसूदनः ।

उवाच परमप्रीतो बिभ्रत् स्वां पौरुषीं तनुम्

॥३७॥

श्रीभगवानुवाच

दिष्ट्या त्वं विबुधश्रेष्ठ स्वां निष्ठां आत्मना स्थितः ।

यन्मे स्त्रीरूपया स्वैरं मोहितोऽप्यङ्ग मायया

॥३८॥

को नु मेऽतितरेन्मायां विषक्तस्त्वदृते पुमान् ।

तान् तान् विसृजतीं भावान् दुस्तरामकृतात्मभिः

॥३९॥

सेयं गुणमयी माया न त्वां अभिभविष्यति ।

मया समेता कालेन कालरूपेण भागशः

॥४०॥

श्रीशुक उवाच

एवं भगवता राजन् श्रीवत्सांकेन सत्कृतः ।

आमंत्र्य तं परिक्रम्य सगणः स्वालयं ययौ

॥४१॥

आत्मांशभूतां तां मायां भवानीं भगवान् भवः ।

शंसतां ऋषिमुख्यानां प्रीत्याचष्टाथ भारत

॥४२॥

अयि व्यपश्यस्त्वमजस्य मायां परस्य पुंसः परदेवतायाः ।

अहं कलानां ऋषभो विमुह्ये ययावशोऽन्ये किमुतास्वतंत्राः

॥४३॥

यं मां अपृच्छस्त्वमुपेत्य योगात् समासहस्रान्त उपारतं वै ।

स एष साक्षात्पुरुषः पुराणो न यत्र कालो विशते न वेदः

॥४४॥

श्रीशुक उवाच

इति तेऽभिहितस्तात विक्रमः शारंगधन्वनः ।

सिन्धोर्निर्मथने येन धृतः पृष्ठे महाचलः

॥४५॥

एतन्मुहुः कीर्तयतोऽनुश्रृण्वतो न रिष्यते जातु समुद्यमः क्वचित् ।

यदुत्तमश्लोकगुणानुवर्णनं समस्तसंसारपरिश्रमापहम्

॥४६॥

असद् अविषयमङ्घ्रिं भावगम्यं प्रपन्नान् अमृतममरवर्यानाशयत् सिन्धुमथ्यम् ।

कपटयुवतिवेषो मोहयन् यः सुरारीन् तमहमुपसृतानां कामपूरं नतोऽस्मि

॥४७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे शंकरमोहनं द्वादशोध्याऽयः

॥१२॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु