मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — अष्टमस्कन्धः, अध्याय ९

3
अष्टमस्कन्धः · 9

क्षिपन्तो दस्युधर्माण आयान्तीं ददृशुः स्त्रियम्

श्रीमद्भागवत महापुराण अष्टमः स्कन्धः - नवमोऽध्यायः देवानां अमृतपानं दैत्यवंचनं, राहुशिरश्छेदश्च -श्रीशुक उवाच - (अनुष्टुप्) तेऽन्योन्यतोऽसुराः पात्रं हरन्तस्त्यक्तसौहृदाः ।

क्षिपन्तो दस्युधर्माण आयान्तीं ददृशुः स्त्रियम्

॥१॥

अहो रूपमहो धाम अहो अस्या नवं वयः ।

इति ते तां अभिद्रुत्य पप्रच्छुर्जातहृच्छयाः

॥२॥

का त्वं कञ्जपलाशाक्षि कुतो वा किं चिकीर्षसि ।

कस्यासि वद वामोरु मथ्नतीव मनांसि नः

॥३॥

न वयं त्वामरैर्दैत्यैः सिद्धगन्धर्वचारणैः ।

नास्पृष्टपूर्वां जानीमो लोकेशैश्च कुतो नृभिः

॥४॥

नूनं त्वं विधिना सुभ्रूः प्रेषितासि शरीरिणाम् ।

सर्वेन्द्रियमनःप्रीतिं विधातुं सघृणेन किम्

॥५॥

सा त्वं नः स्पर्धमानानां एकवस्तुनि मानिनि ।

ज्ञातीनां बद्धवैराणां शं विधत्स्व सुमध्यमे

॥६॥

वयं कश्यपदायादा भ्रातरः कृतपौरुषाः ।

विभजस्व यथान्यायं नैव भेदो यथा भवेत्

॥७॥

इति उपामंत्रितो दैत्यैः मायायोषिद् वपुर्हरिः ।

प्रहस्य रुचिरापाङ्गैः निरीक्षन् इदमब्रवीत्

॥८॥

श्रीभगवानुवाच

कथं कश्यपदायादाः पुंश्चल्यां मयि संगताः ।

विश्वासं पण्डितो जातु कामिनीषु न याति हि

॥९॥

सालावृकाणां स्त्रीणां च स्वैरिणीनां सुरद्विषः ।

सख्यान्याहुरनित्यानि नूत्नं नूत्नं विचिन्वताम्

॥१०॥

श्रीशुक उवाच

इति ते क्ष्वेलितैस्तस्या आश्वस्तमनसोऽसुराः ।

जहसुर्भावगम्भीरं ददुश्चामृतभाजनम्

॥११॥

ततो गृहीत्वामृतभाजनं हरिः बभाष ईषत् स्मितशोभया गिरा ।

यद्यभ्युपेतं क्व च साध्वसाधु वा कृतं मया वो विभजे सुधामिमाम्

॥१२॥

इत्यभिव्याहृतं तस्या आकर्ण्यासुरपुंगवाः ।

अप्रमाणविदस्तस्याः तत् तथेत्यन्वमंसत

॥१३॥

अथोपोष्य कृतस्नाना हुत्वा च हविषानलम् ।

दत्त्वा गोविप्रभूतेभ्यः कृतस्वस्त्ययना द्विजैः

॥१४॥

यथोपजोषं वासांसि परिधायाहतानि ते ।

कुशेषु प्राविशन्सर्वे प्राग् अग्रेष्वभिभूषिताः

॥१५॥

प्राङ्मुखेषूपविष्टेषु सुरेषु दितिजेषु च ।

धूपामोदितशालायां जुष्टायां माल्यदीपकैः

॥१६॥

तस्यां नरेन्द्र करभोरुरुशद्दुकूल श्रोणीतटालसगतिर्मदविह्वलाक्षी ।

सा कूजती कनकनूपुरशिञ्जितेन कुम्भस्तनी कलसपाणिरथाविवेश

॥१७॥

तां श्रीसखीं कनककुण्डलचारुकर्ण नासाकपोलवदनां परदेवताख्याम् ।

संवीक्ष्य सम्मुमुहुरुत्स्मितवीक्षणेन देवासुरा विगलित स्तनपट्टिकान्ताम्

॥१८॥

(अनुष्टुप्) असुराणां सुधादानं सर्पाणामिव दुर्नयम् ।

मत्वा जातिनृशंसानां न तां व्यभजदच्युतः

॥१९॥

कल्पयित्वा पृथक् पंक्तीः उभयेषां जगत्पतिः ।

तांश्चोपवेशयामास स्वेषु स्वेषु च पंक्तिषु

॥२०॥

दैत्यान् गृहीतकलसो वञ्चयन् उपसञ्चरैः ।

दूरस्थान् पाययामास जरामृत्युहरां सुधाम्

॥२१॥

ते पालयन्तः समयं असुराः स्वकृतं नृप ।

तूष्णीमासन्कृतस्नेहाः स्त्रीविवादजुगुप्सया

॥२२॥

तस्यां कृतातिप्रणयाः प्रणयापायकातराः ।

बहुमानेन चाबद्धा नोचुः किञ्चन विप्रियम्

॥२३॥

देवलिङ्गप्रतिच्छन्नः स्वर्भानुर्देवसंसदि ।

प्रविष्टः सोममपिबत् चन्द्रार्काभ्यां च सूचितः

॥२४॥

चक्रेण क्षुरधारेण जहार पिबतः शिरः ।

हरिस्तस्य कबन्धस्तु सुधयाप्लावितोऽपतत्

॥२५॥

शिरस्त्वमरतां नीतं अजो ग्रहमचीकॢपत् ।

यस्तु पर्वणि चन्द्रार्कौ अभिधावति वैरधीः

॥२६॥

पीतप्रायेऽमृते देवैः भगवान् लोकभावनः ।

पश्यतां असुरेन्द्राणां स्वं रूपं जगृहे हरिः

॥२७॥

एवं सुरासुरगणाः समदेशकाल हेत्वर्थकर्ममतयोऽपि फले विकल्पाः ।

तत्रामृतं सुरगणाः फलमञ्जसापुः यत्पादपंकजरजःश्रयणान्न दैत्याः

॥२८॥

यद् युज्यतेऽसुवसुकर्ममनोवचोभिः देहात्मजादिषु नृभिस्तदसत्पृथक्त्वात् ।

तैरेव सद्भवति यत् क्रियतेऽपृथक्त्वात् सर्वस्य तद्भवति मूलनिषेचनं यत्

॥२९॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे अमृतमथने नवमोऽध्यायः ॥ ९ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु