मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — अष्टमस्कन्धः, अध्याय २४

3
अष्टमस्कन्धः · 24

श्रीमद्भागवत महापुराण अष्टमः स्कन्धः - चतुर्विंशोऽध्यायः मत्स्या…

श्रीमद्भागवत महापुराण अष्टमः स्कन्धः - चतुर्विंशोऽध्यायः मत्स्यावतारकथा -श्रीराजोवाच - भगवन् श्रोतुमिच्छामि हरेरद्भुतकर्मणः ।

अवतारकथामाद्यां मायामत्स्यविडम्बनम्

॥१॥

यदर्थमदधाद् रूपं मात्स्यं लोकजुगुप्सितम् ।

तमःप्रकृतिदुर्मर्षं कर्मग्रस्त इवेश्वरः

॥२॥

एतन्नो भगवन्सर्वं यथावद्वक्तुमर्हसि ।

उत्तमश्लोकचरितं सर्वलोकसुखावहम्

॥३॥

श्रीसूत उवाच

इत्युक्तो विष्णुरातेन भगवान् बान्बादरायणिः ।

उवाच चरितं विष्णोः मत्स्यरूपेण यत्कृतम्

॥४॥

श्रीशुक उवाच

गोविप्रसुरसाधूनां छन्दसामपि चेश्वरः ।

रक्षां इच्छन् तनु धत्ते धर्मस्यार्थस्य चैव हि

॥५॥

उच्चावचेषु भूतेषु चरन् वायुरिवेश्वरः ।

नोच्चावचत्वं भजते निर्गुणत्वाद्धियो गुणैः

॥६॥

आसीद् अतीतकल्पान्ते ब्राह्मो नैमित्तिको लयः ।

समुद्रोपप्लुतास्तत्र लोका भूरादयो नृप

॥७॥

कालेनागतनिद्रस्य धातुः शिशयिषोर्बली ।

मुखतो निःसृतान् वेदान् हयग्रीवोऽन्तिकेऽहरत्

॥८॥

ज्ञात्वा तद् दानवेन्द्रस्य हयग्रीवस्य चेष्टितम् ।

दधार शफरीरूपं भगवान् हरिरीश्वरः

॥९॥

तत्र राजऋषिः कश्चित् नाम्ना सत्यव्रतो महान् ।

नारायणपरोऽतप्यत् तपः स सलिलाशनः

॥१०॥

योऽसौ अस्मिन् महाकल्पे तनयः स विवस्वतः ।

श्राद्धदेव इति ख्यातो मनुत्वे हरिणार्पितः

॥११॥

एकदा कृतमालायां कुर्वतो जलतर्पणम् ।

तस्याञ्जलि उदके काचित् शफर्येकाभ्यपद्यत

॥१२॥

सत्यव्रतोऽञ्जलिगतां सह तोयेन भारत ।

उत्ससर्ज नदीतोये शफरीं द्रविडेश्वरः

॥१३॥

तं आह सातिकरुणं महाकारुणिकं नृपम् ।

यादोभ्यो ज्ञातिघातिभ्यो दीनां मां दीनवत्सल ।

कथं विसृजसे राजन् भीतामस्मिन् सरिज्जले

॥१४॥

तमात्मनोऽनुग्रहार्थं प्रीत्या मत्स्यवपुर्धरम् ।

अजानन् रक्षणार्थाय शफर्याः स मनो दधे

॥१५॥

तस्या दीनतरं वाक्यं आश्रुत्य स महीपतिः ।

कलशाप्सु निधायैनां दयालुर्निन्य आश्रमम्

॥१६॥

सा तु तत्रैकरात्रेण वर्धमाना कमण्डलौ ।

अलब्ध्वाऽऽत्मावकाशं वा इदमाह महीपतिम्

॥१७॥

नाहं कमण्डलौ अवस्मिन् कृच्छ्रं वस्तुमिहोत्सहे ।

कल्पयौकः सुविपुलं यत्राहं निवसे सुखम्

॥१८॥

स एनां तत आदाय न्यधादौदञ्चनोदके ।

तत्र क्षिप्ता मुहूर्तेन हस्तत्रयमवर्धत

॥१९॥

न मे एतद् अलं राजन् सुखं वस्तुमुदञ्चनम् ।

पृथु देहि पदं मह्यं यत्त्वाहं शरणं गता

॥२०॥

तत आदाय सा राज्ञा क्षिप्ता राजन् सरोवरे ।

तद् आवृत्यात्मना सोऽयं महामीनोऽन्ववर्धत

॥२१॥

नैतन्मे स्वस्तये राजन् उदकं सलिलौकसः ।

निधेहि रक्षायोगेन ह्रदे मामविदासिनि

॥२२॥

इत्युक्तः सोऽनयन्मत्स्यं तत्र तत्राविदासिनि ।

जलाशयेऽसम्मितं तं समुद्रे प्राक्षिपज्झषम्

॥२३॥

क्षिप्यमाणस्तमाहेदं इह मां मकरादयः ।

अदन्त्यतिबला वीर मां नेहोत्स्रष्टुमर्हसि

॥२४॥

एवं विमोहितस्तेन वदता वल्गुभारतीम् ।

तमाह को भवान् अस्मान् मत्स्यरूपेण मोहयन्

॥२५॥

नैवं वीर्यो जलचरो दृष्टोऽस्माभिः श्रुतोऽपि वा ।

यो भवान् योजनशतं अह्नाभिव्यानशे सरः

॥२६॥

नूनं त्वं भगवान् साक्षात् हरिर्नारायणोऽव्ययः ।

अनुग्रहाय भूतानां धत्से रूपं जलौकसाम्

॥२७॥

नमस्ते पुरुषश्रेष्ठ स्थित्युत्पत्त्यप्ययेश्वर ।

भक्तानां नः प्रपन्नानां मुख्यो ह्यात्मगतिर्विभो

॥२८॥

सर्वे लीलावतारास्ते भूतानां भूतिहेतवः ।

ज्ञातुमिच्छाम्यदो रूपं यदर्थं भवता धृतम्

॥२९॥

न तेऽरविन्दाक्ष पदोपसर्पणं मृषा भवेत्सर्वसुहृत् प्रियात्मनः ।

यथेतरेषां पृथगात्मनां सतां अदीदृशो यद्वपुरद्भुतं हि नः

॥३०॥

श्रीशुक उवाच

इति ब्रुवाणं नृपतिं जगत्पतिः सत्यव्रतं मत्स्यवपुर्युगक्षये ।

विहर्तुकामः प्रलयार्णवेऽब्रवीत् चिकीर्षुः एकान्तजनप्रियः प्रियम्

॥३१॥

श्रीभगवानुवाच

(अनुष्टुप्) सप्तमे ह्यद्यतनाद् ऊर्ध्वं अहन्येतदरिन्दम ।

निमंक्ष्यत्यप्ययाम्भोधौ त्रैलोक्यं भूर्भुवादिकम्

॥३२॥

त्रिलोक्यां लीयमानायां संवर्ताम्भसि वै तदा ।

उपस्थास्यति नौः काचिद् विशाला त्वां मयेरिता

॥३३॥

त्वं तावदोषधीः सर्वा बीजानि उच्चावचानि च ।

सप्तर्षिभिः परिवृतः सर्वसत्त्वोपबृंहितः

॥३४॥

आरुह्य बृहतीं नावं विचरिष्यस्यविक्लवः ।

एकार्णवे निरालोके ऋषीणामेव वर्चसा

॥३५॥

दोधूयमानां तां नावं समीरेण बलीयसा ।

उपस्थितस्य मे शृंगे निबध्नीहि महाहिना

॥३६॥

अहं त्वां ऋषिभिः साकं सहनावमुदन्वति ।

विकर्षन् विचरिष्यामि यावद्ब्राह्मी निशा प्रभो

॥३७॥

मदीयं महिमानं च परं ब्रह्मेति शब्दितम् ।

वेत्स्यसि अनुगृहीतं मे संप्रश्नैर्विवृतं हृदि

॥३८॥

इत्थमादिश्य राजानं हरिरन्तरधीयत ।

सोऽन्ववैक्षत तं कालं यं हृषीकेश आदिशत्

॥३९॥

आस्तीर्य दर्भान् प्राक्कूलान् राजर्षिः प्रागुदंमुखः ।

निषसाद हरेः पादौ चिन्तयन् मत्स्यरूपिणः

॥४०॥

ततः समुद्र उद्वेलः सर्वतः प्लावयन् महीम् ।

वर्धमानो महामेघैः वर्षद्भिः समदृश्यत

॥४१॥

ध्यायन् भगवदादेशं ददृशे नावमागताम् ।

तामारुरोह विप्रेन्द्रैः आदायौषधिवीरुधः

॥४२॥

तं ऊचुर्मुनयः प्रीता राजन् ध्यायस्व केशवम् ।

स वै नः संक्स्द् अस्माद् अविता शं विधास्यति

॥४३॥

सोऽनुध्यातस्ततो राज्ञा प्रादुरासीन् महार्णवे ।

एकशृंगधरो मत्स्यो हैमो नियुतयोजनः

॥४४॥

निबध्य नावं तत् श्रृंगे यथोक्तो हरिणा पुरा ।

वरत्रेणाहिना तुष्टः तुष्टाव मधुसूदनम्

॥४५॥

श्रीराजोवाच

अनाद्यविद्योपहतात्मसंविदः तन्मूलसंसारपरिश्रमातुराः ।

यदृच्छयेहोपसृता यमाप्नुयुः विमुक्तिदो नः परमो गुरुर्भवान्

॥४६॥

जनोऽबुधोऽयं निजकर्मबन्धनः सुखेच्छया कर्म समीहतेऽसुखम् ।

यत्सेवया तां विधुनोत्यसन्मतिं ग्रन्थिं स भिन्द्याद् हृदयं स नो गुरुः

॥४७॥

यत्सेवयाग्नेरिव रुद्ररोदनं पुमान् विजह्यान् मलमात्मनस्तमः ।

भजेत वर्णं निजमेष सोऽव्ययो भूयात् स ईशः परमो गुरोर्गुरुः

॥४८॥

न यत्प्रसादायुतभागलेशं अन्ये च देवा गुरवो जनाः स्वयम् ।

कर्तुं समेताः प्रभवन्ति पुंसः तं ईश्वरं त्वां शरणं प्रपद्ये

॥४९॥

अचक्षुरन्धस्य यथाग्रणीः कृतः तथा जनस्याविदुषोऽबुधो गुरुः ।

त्वं अर्कदृक् सर्वदृशां समीक्षणो वृतो गुरुर्नः स्वगतिं बुभुत्सताम्

॥५०॥

जनो जनस्यादिशतेऽसतीं गतिं यया प्रपद्येत दुरत्ययं तमः ।

त्वं त्वव्ययं ज्ञानममोघमञ्जसा प्रपद्यते येन जनो निजं पदम्

॥५१॥

त्वं सर्वलोकस्य सुहृत् प्रियेश्वरो ह्यात्मा गुरुर्ज्ञानमभीष्टसिद्धिः ।

तथापि लोको न भवन्तमन्धधीः जानाति सन्तं हृदि बद्धकामः

॥५२॥

तं त्वामहं देववरं वरेण्यं प्रपद्य ईशं प्रतिबोधनाय ।

छिन्ध्यर्थदीपैर्भगवन् वचोभिः ग्रन्थीन् हृदय्यान् विवृणु स्वमोकः

॥५३॥

श्रीशुक उवाच

(अनुष्टुप्) इत्युक्तवन्तं नृपतिं भगवान् आदिपूरुषः ।

मत्स्यरूपी महाम्भोधौ विहरन् तत्त्वमब्रवीत्

॥५४॥

पुराणसंहितां दिव्यां सांख्ययोगक्रियावतीम् ।

सत्यव्रतस्य राजर्षेः आत्मगुह्यमशेषतः

॥५५॥

अश्रौषीद् ऋषिभिः साकं आत्मतत्त्वं असंशयम् ।

नाव्यासीनो भगवता प्रोक्तं ब्रह्म सनातनम्

॥५६॥

अतीतप्रलयापाय उत्थिताय स वेधसे ।

हत्वासुरं हयग्रीवं वेदान्प्रत्याहरद्धरिः

॥५७॥

स तु सत्यव्रतो राजा ज्ञानविज्ञानसंयुतः ।

विष्णोः प्रसादात् कल्पेऽस्मिन् आसीत् वैवस्वतो मनुः

॥५८॥

सत्यव्रतस्य राजर्षेः मायामत्स्यस्य शार्ङ्गिणः ।

संवादं महदाख्यानं श्रुत्वा मुच्येत किल्बिषात्

॥५९॥

अवतारं हरेर्योऽयं कीर्तयेद् अन्वहं नरः ।

संकल्पास्तस्य सिध्यन्ति स याति परमां गतिम्

॥६०॥

प्रलयपयसि धातुः सुप्तशक्तेर्मुखेभ्यः श्रुतिगणमपनीतं प्रत्युपादत्त हत्वा ।

दितिजमकथयद् यो ब्रह्म सत्यव्रतानां तमहमखिलहेतुं जिह्ममीनं नतोऽस्मि

॥६१॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टमस्कन्धे मत्यावतारचरितानुवर्णनं तुर्विंशोऽध्यायः ॥ २४ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु