मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — नवमस्कन्धः, अध्याय १

3
नवमस्कन्धः · 1

सूर्यवंशवर्णनं, वैवस्वतमनोः पुत्रस्य स्त्रीभावापत्तिश्च

श्रीराजोवाच

मन्वन्तराणि सर्वाणि त्वयोक्तानि श्रुतानि मे ।

वीर्याणि अनन्तवीर्यस्य हरेस्तत्र कृतानि च

॥१॥

योऽसौ सत्यव्रतो नाम राजर्षिः द्रविडेश्वरः ।

ज्ञानं योऽतीतकल्पान्ते लेभे पुरुषसेवया

॥२॥

स वै विवस्वतः पुत्रो मनुः आसीद् इति श्रुतम् ।

त्वत्तस्तस्य सुताः प्रोक्ता इक्ष्वाकुप्रमुखा नृपाः

॥३॥

तेषां वंशं पृथग्ब्रह्मन् वंशानुचरितानि च ।

कीर्तयस्व महाभाग नित्यं शुश्रूषतां हि नः

॥४॥

ये भूता ये भविष्याश्च भवन्ति अद्यतनाश्च ये ।

तेषां नः पुण्यकीर्तीनां सर्वेषां वद विक्रमान्

॥५॥

श्रीसूत उवाच

एवं परीक्षिता राज्ञा सदसि ब्रह्मवादिनाम् ।

पृष्टः प्रोवाच भगवान् शुकः परमधर्मवित्

॥६॥

श्रीशुक उवाच

श्रूयतां मानवो वंशः प्राचुर्येण परंतप ।

न शक्यते विस्तरतो वक्तुं वर्षशतैरपि

॥७॥

परावरेषां भूतानां आत्मा यः पुरुषः परः ।

स एवासीद् इदं विश्वं कल्पान्ते अन्यत् न किञ्चन

॥८॥

तस्य नाभेः समभवत् पद्मकोषो हिरण्मयः ।

तस्मिन् जज्ञे महाराज स्वयंभूः चतुराननः

॥९॥

मरीचिः मनसस्तस्य जज्ञे तस्यापि कश्यपः ।

दाक्षायण्यां ततोऽदित्यां विवस्वान् अभवत् सुतः

॥१०॥

ततो मनुः श्राद्धदेवः संज्ञायामास भारत ।

श्रद्धायां जनयामास दश पुत्रान् स आत्मवान्

॥११॥

इक्ष्वाकुनृगशर्याति दिष्टधृष्ट करूषकान् ।

नरिष्यन्तं पृषध्रं च नभगं च कविं विभुः

॥१२॥

अप्रजस्य मनोः पूर्वं वसिष्ठो भगवान् किल ।

मित्रावरुणयोः इष्टिं प्रजार्थं अकरोद् विभुः

॥१३॥

तत्र श्रद्धा मनोः पत्नी होतारं समयाचत ।

दुहित्रर्थं उपागम्य प्रणिपत्य पयोव्रता

॥१४॥

प्रेषितोऽध्वर्युणा होता ध्यायन् तत् सुसमाहितः ।

हविषि व्यचरत् तेन वषट्कारं गृणन् द्विजः

॥१५॥

होतुस्तद् व्यभिचारेण कन्येला नाम साभवत् ।

तां विलोक्य मनुः प्राह नाति हृष्टमना गुरुम्

॥१६॥

भगवन् किमिदं जातं कर्म वो ब्रह्मवादिनाम् ।

विपर्ययं अहो कष्टं मैवं स्याद् ब्रह्मविक्रिया

॥१७॥

यूयं मंत्रविदो युक्ताः तपसा दग्धकिल्बिषाः ।

कुतः संकल्पवैषम्यं अनृतं विबुधेष्विव

॥१८॥

निशम्य तद्वचः तस्य भगवान् प्रपितामहः ।

होतुर्व्यतिक्रमं ज्ञात्वा बभाषे रविनन्दनम्

॥१९॥

एतत् संकल्पवैषम्यं होतुस्ते व्यभिचारतः ।

तथापि साधयिष्ये ते सुप्रजास्त्वं स्वतेजसा

॥२०॥

एवं व्यवसितो राजन् भगवान् स महायशाः ।

अस्तौषीद् आदिपुरुषं इलायाः पुंस्त्वकाम्यया

॥२१॥

तस्मै कामवरं तुष्टो भगवान् हरिरीश्वरः ।

ददौ इविलाभवत् तेन सुद्युम्नः पुरुषर्षभः

॥२२॥

स एकदा महाराज विचरन् मृगयां वने ।

वृतः कतिपयामात्यैः अश्वं आरुह्य सैन्धवम्

॥२३॥

प्रगृह्य रुचिरं चापं शरांश्च परमाद्भुतान् ।

दंशितोऽनुमृगं वीरो जगाम दिशमुत्तराम्

॥२४॥

सु कुमातो वनं मेरोः अधस्तात् प्रविवेश ह ।

यत्रास्ते भगवान् शर्वो रममाणः सहोमया

॥२५॥

तस्मिन् प्रविष्ट एवासौ सुद्युम्नः परवीरहा ।

अपश्यत् स्त्रियमात्मानं अश्वं च वडवां नृप

॥२६॥

तथा तदनुगाः सर्वे आत्मलिङ्ग विपर्ययम् ।

दृष्ट्वा विमनसोऽभूवन् वीक्षमाणाः परस्परम्

॥२७॥

श्रीराजोवाच

कथं एवं गुणो देशः केन वा भगवन् कृतः ।

प्रश्नमेनं समाचक्ष्व परं कौतूहलं हि नः

॥२८॥

श्रीशुक उवाच

एकदा गिरिशं द्रष्टुं ऋषयस्तत्र सुव्रताः ।

दिशो वितिमिराभासाः कुर्वन्तः समुपागमन्

॥२९॥

तान् विलोक्य अंबिका देवी विवासा व्रीडिता भृशम् ।

भर्तुरङ्गात समुत्थाय नीवीमाश्वथ पर्यधात्

॥३०॥

ऋषयोऽपि तयोर्वीक्ष्य प्रसङ्गं रममाणयोः ।

निवृत्ताः प्रययुस्तस्मात् नरनारायणाश्रमम्

॥३१॥

तदिदं भगवान् आह प्रियायाः प्रियकाम्यया ।

स्थानं यः प्रविशेदेतत् स वै योषिद् भवेदिति

॥३२॥

तत ऊर्ध्वं वनं तद्वै पुरुषा वर्जयन्ति हि ।

सा चानुचरसंयुक्ता विचचार वनाद् वनम्

॥३३॥

अथ तां आश्रमाभ्याशे चरन्तीं प्रमदोत्तमाम् ।

स्त्रीभिः परिवृतां वीक्ष्य चकमे भगवान् बुधः

॥३४॥

सापि तं चकमे सुभ्रूः सोमराजसुतं पतिम् ।

स तस्यां जनयामास पुरूरवसमात्मजम्

॥३५॥

एवं स्त्रीत्वं अनुप्राप्तः सुद्युम्नो मानवो नृपः ।

सस्मार स कुलाचार्यं वसिष्ठमिति शुश्रुम

॥३६॥

स तस्य तां दशां दृष्ट्वा कृपया भृशपीडितः ।

सुद्युम्नस्याशयन् पुंस्त्वं उपाधावत शंकरम्

॥३७॥

तुष्टस्तस्मै स भगवान् ऋषये प्रियमावहन् ।

स्वां च वाचं ऋतां कुर्वन् इदमाह विशाम्पते

॥३८॥

मासं पुमान् स भविता मासं स्त्री तव गोत्रजः ।

इत्थं व्यवस्थया कामं सुद्युम्नोऽवतु मेदिनीम्

॥३९॥

आचार्यानुग्रहात् कामं लब्ध्वा पुंस्त्वं व्यवस्थया ।

पालयामास जगतीं नाभ्यनन्दन् स्म तं प्रजाः

॥४०॥

तस्योत्कलो गयो राजन् विमलश्च सुतास्त्रयः ।

दक्षिणापथराजानो बभूवुः धर्मवत्सलाः

॥४१॥

ततः परिणते काले प्रतिष्ठानपतिः प्रभुः ।

पुरूरवस उत्सृज्य गां पुत्राय गतो वनम्

॥४२॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे प्रथमोध्याऽयः

॥१॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु