ऋचीकजमदग्निपरशुरामचरितं, सहस्रार्जुन वधश्च
श्रीशुक उवाच
ऐलस्य च उर्वशीगर्भात् षडासन्नात्मजा नृप ।
आयुः श्रुतायुः सत्यायू रयोऽथ विजयो जयः
॥१॥श्रुतायोर्वसुमान्पुत्रः सत्यायोश्च श्रुतञ्जयः ।
रयस्य सुत एकश्च जयस्य तनयोऽमितः
॥२॥भीमस्तु विजयस्याथ काञ्चनो होत्रकस्ततः ।
तस्य जह्नुः सुतो गंगां गण्डूषीकृत्य योऽपिबत् ।
जह्नोस्तु पूरुस्तस्याथ बलाकश्चात्मजोऽजकः
॥३॥ततः कुशः कुशस्यापि कुशाम्बुस्तनयो वसुः ।
कुशनाभश्च चत्वारो गाधिरासीत् कुशाम्बुजः
॥४॥तस्य सत्यवतीं कन्यां ऋचीकोऽयाचत द्विजः ।
वरं विसदृशं मत्वा गाधिर्भार्गवमब्रवीत्
॥५॥एकतः श्यामकर्णानां हयानां चन्द्रवर्चसाम् ।
सहस्रं दीयतां शुल्कं कन्यायाः कुशिका वयम्
॥६॥इत्युक्तस्तन्मतं ज्ञात्वा गतः स वरुणान्तिकम् ।
आनीय दत्त्वा तान् अश्वान् उपयेमे वराननाम्
॥७॥स ऋषिः प्रार्थितः पत्न्या श्वश्र्वा चापत्यकाम्यया ।
श्रपयित्वोभयैर्मन्त्रैः चरुं स्नातुं गतो मुनिः
॥८॥तावत् सत्यवती मात्रा स्वचरुं याचिता सती ।
श्रेष्ठं मत्वा तयायच्छन् मात्रे मातुरदत् स्वयम्
॥९॥तद् विज्ञाय मुनिः प्राह पत्नीं कष्टमकारषीः ।
घोरो दण्डधरः पुत्रो भ्राता ते ब्रह्मवित्तमः
॥१०॥प्रसादितः सत्यवत्या मैवं भूरिति भार्गवः ।
अथ तर्हि भवेत् पौत्रो जमदग्निस्ततोऽभवत्
॥११॥सा चाभूत् सुमहपुण्या कौशिकी लोकपावनी ।
रेणोः सुतां रेणुकां वै जमदग्निरुवाह याम्
॥१२॥तस्यां वै भार्गवऋषेः सुता वसुमदादयः ।
यवीयान्जज्ञ एतेषां राम इत्यभिविश्रुतः
॥१३॥यमाहुर्वासुदेवांशं हैहयानां कुलान्तकम् ।
त्रिःसप्तकृत्वो य इमां चक्रे निःक्षत्रियां महीम्
॥१४॥दुष्टं क्षत्रं भुवो भारं अब्रह्मण्यं अनीनशत् ।
रजस्तमोवृतमहन् फल्गुन्यपि कृतेंऽहसि
॥१५॥श्रीराजोवाच
किं तदंहो भगवतो राजन्यैरजितात्मभिः ।
कृतं येन कुलं नष्टं क्षत्रियाणां अभीक्ष्णशः
॥१६॥श्रीशुक उवाच
हैहयानां अधिपतिः अर्जुनः क्षत्रियर्षभः ।
दत्तं नारायण अंशांशं आराध्य परिकर्मभिः
॥१७॥बाहून् दशशतं लेभे दुर्धर्षत्वमरातिषु ।
अव्याहतेन्द्रियौजः श्री तेजोवीर्ययशोबलम्
॥१८॥योगेश्वरत्वं ऐश्वर्यं गुणा यत्राणिमादयः ।
चचार अव्याहतगतिः लोकेषु पवनो यथा
॥१९॥स्त्रीरत्नैः आवृतः क्रीडन् रेवाम्भसि मदोत्कटः ।
वैजयन्तीं स्रजं बिभ्रद् रुरोध सरितं भुजैः
॥२०॥विप्लावितं स्वशिबिरं प्रतिस्रोतःसरिज्जलैः ।
नामृष्यत् तस्य तद् वीर्यं वीरमानी दशाननः
॥२१॥गृहीतो लीलया स्त्रीणां समक्षं कृतकिल्बिषः ।
माहिष्मत्यां सन्निरुद्धो मुक्तो येन कपिर्यथा
॥२२॥स एकदा तु मृगयां विचरन् विजने वने ।
यदृच्छयाऽऽश्रमपदं जमदग्नेरुपाविशत्
॥२३॥तस्मै स नरदेवाय मुनिरर्हणमाहरत् ।
ससैन्यामात्यवाहाय हविष्मत्या तपोधनः
॥२४॥स वै रत्नं तु तद् दृष्ट्वा आत्मैश्वर्यातिशायनम् ।
तन्नाद्रियताग्निहोत्र्यां साभिलाषः स हैहयः
॥२५॥हविर्धानीं ऋषेर्दर्पान् नरान् हर्तुमचोदयत् ।
ते च माहिष्मतीं निन्युः सवत्सां क्रन्दतीं बलात्
॥२६॥अथ राजनि निर्याते राम आश्रम आगतः ।
श्रुत्वा तत् तस्य दौरात्म्यं चुक्रोधाहिरिवाहतः
॥२७॥घोरमादाय परशुं सतूणं चर्म कार्मुकम् ।
अन्वधावत दुर्धर्षो मृगेन्द्र इव यूथपम्
॥२८॥तं आपतन्तं भृगुवर्यमोजसा धनुर्धरं बाणपरश्वधायुधम् ।
ऐणेयचर्माम्बरमर्कधामभिः युतं जटाभिर्ददृशे पुरीं विशन्
॥२९॥अचोदयद्धस्तिरथाश्वपत्तिभिः गदासिबाणर्ष्टिशतघ्निशक्तिभिः ।
अक्षौहिणीः सप्तदशातिभीषणाः ता राम एको भगवानसूदयत्
॥३०॥यतो यतोऽसौ प्रहरत्परश्वधो मनोऽनिलौजाः परचक्रसूदनः ।
ततस्ततश्छिन्नभुजोरुकन्धरा निपेतुरुर्व्यां हतसूतवाहनाः
॥३१॥दृष्ट्वा स्वसैन्यं रुधिरौघकर्दमे रणाजिरे रामकुठारसायकैः ।
विवृक्णचर्मध्वजचापविग्रहं निपातितं हैहय आपतद् रुषा
॥३२॥अथार्जुनः पञ्चशतेषु बाहुभिः धनुःषु बाणान् युगपत् स सन्दधे ।
रामाय रामोऽस्त्रभृतां समग्रणीः तान्येकधन्वेषुभिराच्छिनत् समम्
॥३३॥पुनः स्वहस्तैरचलान्मृधेङ्घ्रिपान् उत्क्षिप्य वेगाद् अभिधावतो युधि ।
भुजान् कुठारेण कठोरनेमिना चिच्छेद रामः प्रसभं त्वहेरिव
॥३४॥कृत्तबाहोः शिरस्तस्य गिरेः श्रृङमिवाहरत् ।
हते पितरि तत्पुत्रा अयुतं दुद्रुवुर्भयात्
॥३५॥अग्निहोत्रीं उपावर्त्य सवत्सां परवीरहा ।
समुपेत्याश्रमं पित्रे परिक्लिष्टां समर्पयत्
॥३६॥स्वकर्म तत्कृतं रामः पित्रे भ्रातृभ्य एव च ।
वर्णयामास तत् श्रुत्वा जमदग्निरभाषत
॥३७॥राम राम महाबाहो भवान् पापमकारषीत् ।
अवधीत् नरदेवं यत् सर्वदेवमयं वृथा
॥३८॥वयं हि ब्राह्मणास्तात क्षमयार्हणतां गताः ।
यया लोकगुरुर्देवः पारमेष्ठ्यमगात् पदम्
॥३९॥क्षमया रोचते लक्ष्मीः ब्राह्मी सौरी यथा प्रभा ।
क्षमिणामाशु भगवान् तुष्यते हरिरीश्वरः
॥४०॥राज्ञो मूर्धाभिषिक्तस्य वधो ब्रह्मवधाद् गुरुः ।
तीर्थसंसेवया चांहो जह्यङ्गाच्युतचेतनः
॥४१॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे पञ्चदशोऽध्यायः ॥ १५ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु