मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — नवमस्कन्धः, अध्याय १३

3
नवमस्कन्धः · 13

निमिवंशवर्णनं - निमेर्देहत्यागो विदेहवंशश्च

श्रीशुक उवाच

निमिरिक्ष्वाकुतनयो वसिष्ठं अवृतर्त्विजम् ।

आरभ्य सत्रं सोऽप्याह शक्रेण प्राग्वृतोऽस्मि भोः

॥१॥

तं निर्वर्त्यागमिष्यामि तावन्मां प्रतिपालय ।

तूष्णीं आसीद् गृहपतिः सोऽपीन्द्रस्याकरोन् मखम्

॥२॥

निमिश्चलमिदं विद्वान् सत्रमारभतामात्मवान् ।

ऋत्विग्भिः अपरैस्तावत् नागमद्यावता गुरुः

॥३॥

शिष्यव्यतिक्रमं वीक्ष्य तं निर्वर्त्य गुरुरागतः ।

अशपत् पतताद् देहो निमेः पण्डितमानिनः

॥४॥

निमिः प्रतिददौ शापं गुरवेऽधर्मवर्तिने ।

तवापि पतताद् देहो लोभाद् धर्ममजानतः

॥५॥

इत्युत्ससर्ज स्वं देहं निमिरध्यात्मकोविदः ।

मित्रावरुणयोर्जज्ञे उर्वश्यां प्रपितामहः

॥६॥

गन्धवस्तुषु तद् देहं निधाय मुनिसत्तमाः ।

समाप्ते सत्रयागेऽथ देवान् ऊचुः समागतान्

॥७॥

राज्ञो जीवतु देहोऽयं प्रसन्नाः प्रभवो यदि ।

तथेत्युक्ते निमिः प्राह मा भून्मे देहबन्धनम्

॥८॥

यस्य योगं न वाञ्छन्ति वियोगभयकातराः ।

भजन्ति चरणाम्भोजं मुनयो हरिमेधसः

॥९॥

देहं नावरुरुत्सेऽहं दुःखशोकभयावहम् ।

सर्वत्रास्य यतो मृत्युं मत्स्यानां उदके यथा

॥१०॥

देवा ऊचुः

विदेह उष्यतां कामं लोचनेषु शरीरिणाम् ।

उन्मेषणनिमेषाभ्यां लक्षितोऽध्यात्मसंस्थितः

॥११॥

अराजकभयं नॄणां मन्यमाना महर्षयः ।

देहं ममन्थुः स्म निमेः कुमारः समजायत

॥१२॥

जन्मना जनकः सोऽभूद् वैदेहस्तु विदेहजः ।

मिथिलो मथनाज्जातो मिथिला येन निर्मिता ।

तस्माद् उदावसुस्तस्य पुत्रोऽभूत् नन्दिवर्धनः ।

ततः सुकेतुस्तस्यापि देवरातो महीपते

॥१४॥

तस्माद् बृहद्रथस्तस्य महावीर्यः सुधृत्पिता ।

सुधृतेर्धृष्टकेतुर्वै हर्यश्वोऽथ मरुस्ततः

॥१५॥

मरोः प्रतीपकस्तस्मात् जातः कृतरथो यतः ।

देवमीढस्तस्य पुत्रो विश्रुतोऽथ महाधृतिः

॥१६॥

कृतिरातः ततस्तस्मात् महारोमा च तत्सुतः ।

स्वर्णरोमा सुतस्तस्य ह्रस्वरोमा व्यजायत

॥१७॥

ततः शीरध्वजो जज्ञे यज्ञार्थं कर्षतो महीम् ।

सीता शीराग्रतो जाता तस्मात् सीरध्वजः स्मृतः

॥१८॥

कुशध्वजस्तस्य पुत्रः ततो धर्मध्वजो नृपः ।

धर्मध्वजस्य द्वौ पुत्रौ कृतध्वजमितध्वजौ

॥१९॥

कृतध्वजात् केशिध्वजः खाण्डिक्यस्तु मितध्वजात् ।

कृतध्वजसुतो राजन् आत्मविद्याविशारदः

॥२०॥

खाण्डिक्यः कर्मतत्त्वज्ञो भीतः केशिध्वजाद् द्रुतः ।

भानुमांस्तस्य पुत्रोऽभूत् शतद्युम्नस्तु तत्सुतः

॥२१॥

शुचिस्तु तनयस्तस्मात् सनद्वाजः सुतोऽभवत् ।

ऊर्जकेतुः सनद्वाजाद् अजोऽथ पुरुजित्सुतः

॥२२॥

अरिष्टनेमिस्तस्यापि श्रुतायुः तत्सुपार्श्वकः ।

ततश्चित्ररथो यस्य क्षेमाधिर्मिथिलाधिपः

॥२३॥

तस्मात् समरथस्तस्य सुतः सत्यरथस्ततः ।

आसीद् उपगुरुस्तस्माद् उपगुप्तोऽग्निसंभवः

॥२४॥

वस्वनन्तोऽथ तत्पुत्रो युयुधो यत् सुभाषणः ।

श्रुतस्ततो जयस्तस्माद् विजयोऽस्मादृतः सुतः

॥२५॥

शुनकस्तत्सुतो जज्ञे वीतहव्यो धृतिस्ततः ।

बहुलाश्वो धृतेस्तस्य कृतिरस्य महावशी

॥२६॥

एते वै मैथिला राजन् आत्मविद्याविशारदाः ।

योगेश्वरप्रसादेन द्वन्द्वैर्मुक्ता गृहेष्वपि

॥२७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे त्रयोदशोऽध्यायः ॥ १३ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु