मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — नवमस्कन्धः, अध्याय २

3
नवमस्कन्धः · 2

पृषध्र कवि करूष धृष्ट नृग नरिष्यंतादिष्टानां वंशविस्तारः

श्रीशुक उवाच

एवं गतेऽथ सुद्युम्ने मनुर्वैवस्वतः सुते ।

पुत्रकामः तपस्तेपे यमुनायां शतं समाः

॥१॥

ततोऽयजन् मनुर्देवं अपत्यार्थं हरिं प्रभुम् ।

इक्ष्वाकु पूर्वजान् पुत्रान् लेभे स्वसदृशान् दश

॥२॥

पृषध्रस्तु मनोः पुत्रो गोपालो गुरुणा कृतः ।

पालयामास गा यत्तो रात्र्यां वीरासनव्रतः

॥३॥

एकदा प्राविशद् गोष्ठं शार्दूलो निशि वर्षति ।

शयाना गाव उत्थाय भीतास्ता बभ्रमुर्व्रजे

॥४॥

एकां जग्राह बलवान् सा चुक्रोश भयातुरा ।

तस्यास्तु क्रन्दितं श्रुत्वा पृषध्रोऽनुससार ह

॥५॥

खड्गमादाय तरसा प्रलीनोडुगणे निशि ।

अजानन् अहनद् बभ्रोः शिरः शार्दूलशङ्कया

॥६॥

व्याघ्रोऽपि वृक्णश्रवणो निस्त्रिंशाग्राहतस्ततः ।

निश्चक्राम भृशं भीतो रक्तं पथि समुत्सृजन्

॥७॥

मन्यमानो हतं व्याघ्रं पृषध्रः परवीरहा ।

अद्राक्षीत् स्वहतां बभ्रुं व्युष्टायां निशि दुःखितः

॥८॥

तं शशाप कुलाचार्यः कृतागसं अकामतः ।

न क्षत्रबन्धुः शूद्रस्त्वं कर्मणा भवितामुना

॥९॥

एवं शप्तस्तु गुरुणा प्रत्यगृह्णात् कृताञ्जलिः ।

अधारयद् व्रतं वीर ऊर्ध्वरेता मुनिप्रियम्

॥१०॥

वासुदेवे भगवति सर्वात्मनि परेऽमले ।

एकान्तित्वं गतो भक्त्या सर्वभूतसुहृत् समः

॥११॥

विमुक्तसंगः शान्तात्मा संयताक्षोऽपरिग्रहः ।

यदृच्छयोपपन्नेन कल्पयन् वृत्तिमात्मनः

॥१२॥

आत्मनि आत्मानमाधाय ज्ञानतृप्तः समाहितः ।

विचचार महीमेतां जडान्ध-बधिराकृतिः

॥१३॥

एवं वृत्तो वनं गत्वा दृष्ट्वा दावाग्निमुत्थितम् ।

तेनोपयुक्तकरणो ब्रह्म प्राप परं मुनिः

॥१४॥

कविः कनीयान् विषयेषु निःस्पृहो विसृज्य राज्यं सह बन्धुभिर्वनम् ।

निवेश्य चित्ते पुरुषं स्वरोचिषं विवेश कैशोरवयाः परं गतः

॥१५॥

करूषान् मानवाद् आसन् कारूषाः क्षत्रजातयः ।

उत्तरापथगोप्तारो ब्रह्मण्या धर्मवत्सलाः

॥१६॥

धृष्टाद् धार्ष्टमभूत् क्षत्रं ब्रह्मभूयं गतं क्षितौ ।

नृगस्य वंशः सुमतिः भूतज्योतिः ततो वसुः

॥१७॥

वसोः प्रतीकस्तत्पुत्र ओघवान् ओघवत्पिता ।

कन्या चौघवती नाम सुदर्शन उवाह ताम्

॥१८॥

चित्रसेनो नरिष्यन्ताद् ऋक्षस्तस्य सुतोऽभवत् ।

तस्य मीढ्वांस्ततः पूर्ण इन्द्रसेनस्तु तत्सुतः

॥१९॥

वीतिहोत्रस्तु इन्द्रसेनात् तस्य सत्यश्रवा अभूत् ।

उरुश्रवाः सुतस्तस्य देवदत्तस्ततोऽभवत्

॥२०॥

ततोऽग्निवेश्यो भगवान् अग्निः स्वयं अभूत्सुतः ।

कानीन इति विख्यातो जातूकर्ण्यो महान् ऋषिः

॥२१॥

ततो ब्रह्मकुलं जातं आग्निवेश्यायनं नृप ।

नरिष्यन्तान्वयः प्रोक्तो दिष्टवंशमतः शृणु

॥२२॥

नाभागो दिष्टपुत्रोऽन्यः कर्मणा वैश्यतां गतः ।

भलन्दनः सुतस्तस्य वत्सप्रीतिः भलन्दनात्

॥२३॥

वत्सप्रीतेः सुतः प्रांशुः तत्सुतं प्रमतिं विदुः ।

खनित्रः प्रमतेः तस्मात् चाक्षुषोऽथ विविंशतिः

॥२४॥

विविंशतेः सुतो रंभः खनीनेत्रोऽस्य धार्मिकः ।

करन्धमो महाराज तस्यासीद् आत्मजो नृप

॥२५॥

तस्य आवीक्षित् सुतो यस्य मरुत्तः चक्रवर्ति अभूत् ।

संवर्तोऽयाजयद् यं वै महायोग्यङ्गिरःसुतः

॥२६॥

मरुत्तस्य यथा यज्ञो न तथान्योऽस्ति कश्चन ।

सर्वं हिरण्मयं त्वासीत् यत्किञ्चिच्चास्य शोभनम्

॥२७॥

अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ।

मरुतः परिवेष्टारो विश्वेदेवाः सभासदः

॥२८॥

मरुत्तस्य दमः पुत्रः तस्यासीद् राज्यवर्धनः ।

सुधृतिस्तत्सुतो जज्ञे सौधृतेयो नरः सुतः

॥२९॥

तत्सुतः केवलः तस्माद् बन्धुमान् वेगवान् ततः ।

बुधस्तस्याभवद् यस्य तृणबिन्दुर्महीपतिः

॥३०॥

तं भेजेऽलम्बुषा देवी भजनीयगुणालयम् ।

वराप्सरा यतः पुत्राः कन्या च इडविडाभवत्

॥३१॥

यस्यां उत्पादयामास विश्रवा धनदं सुतम् ।

प्रादाय विद्यां परमां ऋषिर्योगेश्वरः पितुः

॥३२॥

विशालः शून्यबन्धुश्च धूम्रकेतुश्च तत्सुताः ।

विशालो वंशकृद् राजा वैशालीं निर्ममे पुरीम्

॥३३॥

हेमचन्द्रः सुतस्तस्य धूम्राक्षः तस्य चात्मजः ।

तत्पुत्रात् संयमादासीत् कृशाश्वः सहदेवजः

॥३४॥

कृशाश्वात् सोमदत्तोऽभूद् योऽश्वमेधैः इडस्पतिम् ।

इष्ट्वा पुरुषमापाग्र्यां गतिं योगेश्वराश्रिताम्

॥३५॥

सौमदत्तिस्तु सुमतिः तत्सुतो जनमेजयः ।

एते वैशालभूपालाः तृणबिन्दोर्यशोधराः

॥३६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे द्वितीयोऽध्यायः ॥ २ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु