मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — नवमस्कन्धः, अध्याय २१

3
नवमस्कन्धः · 21

भरतवंशः - रन्तिदेव चरितम्

श्रीशुक उवाच

वितथस्य सुतान् मन्योः बृहत्क्षत्रो जयस्ततः ।

महावीर्यो नरो गर्गः सङ्कृतिस्तु नरात्मजः

॥१॥

गुरुश्च रन्तिदेवश्च सङ्कृतेः पाण्डुनन्दन ।

रन्तिदेवस्य महिमा इहामुत्र च गीयते

॥२॥

वियद्वित्तस्य ददतो लब्धं लब्धं बुभुक्षतः ।

निष्किञ्चनस्य धीरस्य सकुटुम्बस्य सीदतः

॥३॥

व्यतीयुः अष्टचत्वारिंशत् अहनि अपिबतः किल ।

घृतपायससंयावं तोयं प्रातरुपस्थितम्

॥४॥

कृच्छ्रप्राप्तकुटुम्बस्य क्षुत्तृड्भ्यां जातवेपथोः ।

अतिथिर्ब्राह्मणः काले भोक्तुकामस्य चागमत्

॥५॥

तस्मै संव्यभजत् सोऽन्नं आदृत्य श्रद्धयान्वितः ।

हरिं सर्वत्र संपश्यन् स भुक्त्वा प्रययौ द्विजः

॥६॥

अथान्यो भोक्ष्यमाणस्य विभक्तस्य महीपतेः ।

विभक्तं व्यभजत् तस्मै वृषलाय हरिं स्मरन्

॥७॥

याते शूद्रे तमन्योऽगाद् अतिथिः श्वभिरावृतः ।

राजन्मे दीयतां अन्नं सगणाय बुभुक्षते

॥८॥

स आदृत्यावशिष्टं यद् बहुमानपुरस्कृतम् ।

तच्च दत्त्वा नमश्चक्रे श्वभ्यः श्वपतये विभुः

॥९॥

पानीयमात्रमुच्छेषं तच्चैकपरितर्पणम् ।

पास्यतः पुल्कसोऽभ्यागाद् अपो देह्यशुभस्य मे

॥१०॥

तस्य तां करुणां वाचं निशम्य विपुलश्रमाम् ।

कृपया भृशसन्तप्त इदमाहामृतं वचः

॥११॥

न कामयेऽहं गतिमीश्वरात्परां अष्टर्द्धियुक्तामपुनर्भवं वा ।

आर्तिं प्रपद्येऽखिलदेहभाजां अन्तःस्थितो येन भवन्त्यदुःखाः

॥१२॥

क्षुत्तृट्श्रमो गात्रपरिश्रमश्च दैन्यं क्लमः शोकविषादमोहाः ।

सर्वे निवृत्ताः कृपणस्य जन्तोः जिजीविषोर्जीवजलार्पणान्मे

॥१३॥

इति प्रभाष्य पानीयं म्रियमाणः पिपासया ।

पुल्कसायाददाद् धीरो निसर्गकरुणो नृपः

॥१४॥

तस्य त्रिभुवनाधीशाः फलदाः फलमिच्छताम् ।

आत्मानं दर्शयां चक्रुः माया विष्णुविनिर्मिताः

॥१५॥

स वै तेभ्यो नमस्कृत्य निःसङ्गो विगतस्पृहः ।

वासुदेवे भगवति भक्त्या चक्रे मनः परम्

॥१६॥

ईश्वरालम्बनं चित्तं कुर्वतोऽनन्यराधसः ।

माया गुणमयी राजन् स्वप्नवत् प्रत्यलीयत

॥१७॥

तत्प्रसङ्गानुभावेन रन्तिदेवानुवर्तिनः ।

अभवन् योगिनः सर्वे नारायणपरायणाः

॥१८॥

गर्गाच्छिनिस्ततो गार्ग्यः क्षत्राद् ब्रह्म ह्यवर्तत ।

दुरितक्षयो महावीर्यात् तस्य त्रय्यारुणिः कविः

॥१९॥

पुष्करारुणिरित्यत्र ये ब्राह्मणगतिं गताः ।

बृहत्क्षत्रस्य पुत्रोऽभूत् हस्ती यद् हस्तिनापुरम्

॥२०॥

अजमीढो द्विमीढश्च पुरुमीढश्च हस्तिनः ।

अजमीढस्य वंश्याः स्युः प्रियमेधादयो द्विजाः

॥२१॥

अजमीढाद् बृहदिषुः तस्य पुत्रो बृहद्धनुः ।

बृहत्कायः ततस्तस्य पुत्र आसीत् जयद्रथः

॥२२॥

तत्सुतो विशदस्तस्य सेनजित् समजायत ।

रुचिराश्वो दृढहनुः काश्यो वत्सश्च तत्सुताः

॥२३॥

रुचिराश्वसुतः पारः पृथुसेनः तदात्मजः ।

पारस्य तनयो नीपः तस्य पुत्रशतं त्वभूत्

॥२४॥

स कृत्व्यां शुककन्यायां ब्रह्मदत्तमजीजनत् ।

योगी स गवि भार्यायां विष्वक्सेनं अधात् सुतम्

॥२५॥

जैगीषव्योपदेशेन योगतंत्रं चकार ह ।

उदक्सेनः ततस्तस्माद् भल्लाटो बार्हदीषवाः

॥२६॥

यवीनरो द्विमीढस्य कृतिमान् तत्सुतः स्मृतः ।

नाम्ना सत्यधृतिस्तस्य दृढनेमिः सुपार्श्वकृत्

॥२७॥

सुपार्श्वात् सुमतिस्तस्य पुत्रः सन्नतिमान् ततः ।

कृती हिरण्यनाभाद् यो योगं प्राप्य जगौ स्म षट्

॥२८॥

संहिताः प्राच्यसाम्नां वै नीपो ह्युग्रायुधस्ततः ।

तस्य क्षेम्यः सुवीरोऽथ सुवीरस्य रिपुञ्जयः

॥२९॥

ततो बहुरथो नाम पुरुमीढोऽप्रजोऽभवत् ।

नलिन्यां अजमीढस्य नीलः शान्तिः सुतस्ततः

॥३०॥

शान्तेः सुशान्तिस्तत्पुत्रः पुरुजोऽर्कस्ततोऽभवत् ।

भर्म्याश्वः तनयस्तस्य पञ्चासन् मुद्गलादयः

॥३१॥

यवीनरो बृहद्विश्वः काम्पिल्यः सञ्जयः सुताः ।

भर्म्याश्वः प्राह पुत्रा मे पञ्चानां रक्षणाय हि

॥३२॥

विषयाणामलमिमे इति पञ्चालसंज्ञिताः ।

मुद्गलाद् ब्रह्मनिर्वृत्तं गोत्रं मौद्गल्यसंज्ञितम्

॥३३॥

मिथुनं मुद्गलाद् भार्म्याद् दिवोदासः पुमानभूत् ।

अहल्या कन्यका यस्यां शतानन्दस्तु गौतमात्

॥३४॥

तस्य सत्यधृतिः पुत्रो धनुर्वेदविशारदः ।

शरद्वान् तत्सुतो यस्माद् उर्वशीदर्शनात् किल

॥३५॥

शरस्तम्बेऽपतद् रेतो मिथुनं तदभूच्छुभम् ।

तद्दृष्ट्वा कृपयागृह्णात् शन्तनुर्मृगयां चरन् ।

कृपः कुमारः कन्या च द्रोणपत्न्यभवत् कृपी

॥३६॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे एकविंशोऽध्यायः ॥ २१ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु