इक्ष्वाकूणां कुशादिसुमित्रान्तानां वर्णनम्
श्रीशुक उवाच
कुशस्य चातिथिस्तस्मात् निषधस्तत्सुतो नभः ।
पुण्डरीकोऽथ तत्पुत्रः क्षेमधन्वाभवत्ततः
॥१॥देवानीकस्ततोऽनीहः पारियात्रोऽथ तत्सुतः ।
ततो बलस्थलः तस्मात् वज्रनाभोऽर्कसंभवः
॥२॥खसगणः तत्सुतः तस्माद् विधृतिश्चाभवत्सुतः ।
ततो हिरण्यनाभोऽभूद् योगाचार्यस्तु जैमिनेः
॥३॥शिष्यः कौशल्य आध्यात्मं याज्ञवल्क्योऽध्यगाद् यतः ।
योगं महोदयं ऋषिः हृदयग्रन्थि भेदकम्
॥४॥पुष्यो हिरण्यनाभस्य ध्रुवसन्धिः ततोऽभवत् ।
सुदर्शनोऽथाग्निवर्णः शीघ्रस्तस्य मरुः सुतः
॥५॥सोऽसावास्ते योगसिद्धः कलापग्राममास्थितः ।
कलेरन्ते सूर्यवंशं नष्टं भावयिता पुनः
॥६॥तस्मात् प्रसुश्रुतः तस्य सन्धिः तस्याप्यमर्षणः ।
महस्वांन् तत्सुतः तस्माद् विश्वबाहुरजायत
॥७॥ततः प्रसेनजित् तस्मात् तक्षको भविता पुनः ।
ततो बृहद्बलो यस्तु पित्रा ते समरे हतः
॥८॥एते हि ईक्ष्वाकुभूपाला अतीताः श्रृण्वनागतान् ।
बृहद्बलस्य भविता पुत्रो नाम्ना बृहद्रणः
॥९॥ऊरुक्रियः सुतस्तस्य वत्सवृद्धो भविष्यति ।
प्रतिव्योमस्ततो भानुः दिवाको वाहिनीपतिः
॥१०॥सहदेवस्ततो वीरो बृहदश्वोऽथ भानुमान् ।
प्रतीकाश्वो भानुमतः सुप्रतीकोऽथ तत्सुतः
॥११॥भविता मरुदेवोऽथ सुनक्षत्रोऽथ पुष्करः ।
तस्यान्तरिक्षः तत्पुत्रः सुतपास्तद् अमित्रजित्
॥१२॥बृहद्राजस्तु तस्यापि बर्हिस्तस्मात् कृतञ्जयः ।
रणञ्जयस्तस्य सुतः सञ्जयो भविता ततः
॥१३॥तस्माच्छाक्योऽथ शुद्धोदो लांगलस्तत्सुतः स्मृतः ।
ततः प्रसेनजित् तस्मात् क्षुद्रको भविता ततः
॥१४॥रणको भविता तस्मात् सुरथस्तनयस्ततः ।
सुमित्रो नाम निष्ठान्त एते बार्हद्बलान्वयाः
॥१५॥इक्ष्वाकूणां अयं वंशः सुमित्रान्तो भविष्यति ।
यतस्तं प्राप्य राजानं संस्थां प्राप्स्यति वै कलौ
॥१६॥इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे द्वाशोऽध्यायः ॥ १२ ॥
हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु