मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

श्रीमद्भागवतपुराणम् — नवमस्कन्धः, अध्याय ५

3
नवमस्कन्धः · 5

एवं भगवताऽऽदिष्टो दुर्वासाश्चक्रतापितः

अंबरीषानुग्रहेण दुर्वाससो दुःखनिवृत्तिः, अंबरीशप्रशंसा, तस्य भगवाद्रूपतापत्तीश्च - श्रीशुक उवाच ।

एवं भगवताऽऽदिष्टो दुर्वासाश्चक्रतापितः ।

अंबरीषं उपावृत्य तत्पादौ दुःखितोऽग्रहीत्

॥१॥

तस्य सोद्यमनं वीक्ष्य पादस्पर्शविलज्जितः ।

अस्तावीत् तत् हरेः अस्त्रं कृपया पीडितो भृशम्

॥२॥

अंबरीष उवाच

त्वमग्निर्भगवान् सूर्यः त्वं सोमो ज्योतिषां पतिः ।

त्वं आपस्त्वं क्षितिर्व्योम वायुर्मात्रेन्द्रियाणि च

॥३॥

सुदर्शन नमस्तुभ्यं सहस्राराच्युतप्रिय ।

सर्वास्त्रघातिन् विप्राय स्वस्ति भूया इडस्पते

॥४॥

त्वं धर्मस्त्वमृतं सत्यं त्वं यज्ञोऽखिलयज्ञभुक् ।

त्वं लोकपालः सर्वात्मा त्वं तेजः पौरुषं परम्

॥५॥

नमः सुनाभाखिलधर्मसेतवे ह्यधर्मशीलासुरधूमकेतवे ।

त्रैलोक्यगोपाय विशुद्धवर्चसे मनोजवायाद्भुतकर्मणे गृणे

॥६॥

त्वत्तेजसा धर्ममयेन संहृतं तमः प्रकाशश्च दृशो महात्मनाम् ।

दुरत्ययस्ते महिमा गिरां पते त्वद् रूपमेतत् सदसत् परावरम्

॥७॥

यदा विसृष्टस्त्वमनञ्जनेन वै बलं प्रविष्टोऽजित दैत्यदानवम् ।

बाहूदरोर्वङ्घ्रिशिरोधराणि वृक्णन् अजस्रं प्रधने विराजसे

॥८॥

स त्वं जगत्त्राण खलप्रहाणये निरूपितः सर्वसहो गदाभृता ।

विप्रस्य चास्मत् कुलदैवहेतवे विधेहि भद्रं तदनुग्रहो हि नः

॥९॥

यद्यस्ति दत्तमिष्टं वा स्वधर्मो वा स्वनुष्ठितः ।

कुलं नो विप्रदैवं चेद् द्विजो भवतु विज्वरः

॥१०॥

यदि नो भगवान् प्रीत एकः सर्वगुणाश्रयः ।

सर्वभूतात्मभावेन द्विजो भवतु विज्वरः

॥११॥

श्रीशुक उवाच

इति संस्तुवतो राज्ञो विष्णुचक्रं सुदर्शनम् ।

अशाम्यत् सर्वतो विप्रं प्रदहद् राजयाच्ञया

॥१२॥

स मुक्तोऽस्त्राग्नितापेन दुर्वासाः स्वस्तिमान् ततः ।

प्रशशंस तमुर्वीशं युञ्जानः परमाशिषः

॥१३॥

दुर्वासा उवाच

अहो अनन्तदासानां महत्त्वं दृष्टमद्य मे ।

कृतागसोऽपि यद् राजन् मंगलानि समीहसे

॥१४॥

दुष्करः को नु साधूनां दुस्त्यजो वा महात्मनाम् ।

यैः संगृहीतो भगवान् सात्वतां ऋषभो हरिः

॥१५॥

यन्नामश्रुतिमात्रेण पुमान् भवति निर्मलः ।

तस्य तीर्थपदः किं वा दासानां अवशिष्यते

॥१६॥

राजन् अनुगृहीतोऽहं त्वयातिकरुणात्मना ।

मद् अघं पृष्ठतः कृत्वा प्राणा यन्मेऽभिरक्षिताः

॥१७॥

राजा तं अकृताहारः प्रत्यागमनकांक्षया ।

चरणौ उवुपसंगृह्य प्रसाद्य समभोजयत्

॥१८॥

सोऽशित्वादृतमानीतं आतिथ्यं सार्वकामिकम् ।

तृप्तात्मा नृपतिं प्राह भुज्यतां इति सादरम्

॥१९॥

प्रीतोऽस्मि अनुगृहीतोऽस्मि तव भागवतस्य वै ।

दर्शनस्पर्शनालापैः आतिथ्येनात्ममेधसा

॥२०॥

कर्मावदातं एतत् ते गायन्ति स्वःस्त्रियो मुहुः ।

कीर्तिं परमपुण्यां च कीर्तयिष्यति भूरियम्

॥२१॥

श्रीशुक उवाच

एवं संकीर्त्य राजानं दुर्वासाः परितोषितः ।

ययौ विहायसाऽऽमंत्र्य ब्रह्मलोकमहैतुकम्

॥२२॥

संवत्सरोऽत्यगात् तावद् यावता नागतो गतः ।

मुनिस्तद्दर्शनाकांक्षो राजाऽब्भक्षो बभूव ह

॥२३॥

गतेऽथ दुर्वाससि सोऽम्बरीषो द्विजोपयोगातिपवित्रमाहरत् ।

ऋषेर्विमोक्षं व्यसनं च बुद्ध्वा मेने स्ववीर्यं च परानुभावम्

॥२४॥

एवं विधानेकगुणः स राजा परात्मनि ब्रह्मणि वासुदेवे ।

क्रियाकलापैः समुवाह भक्तिं ययाऽऽविरिञ्च्यान् निरयांश्चकार

॥२५॥

श्रीशुक उवाच

अथाम्बरीषस्तनयेषु राज्यं समानशीलेषु विसृज्य धीरः ।

वनं विवेशात्मनि वासुदेवे मनो दधद् ध्वस्तगुणप्रवाहः

॥२६॥

इत्येतत् पुण्यमाख्यानं अंबरीषस्य भूपतेः ।

संकीर्तयन् अनुध्यायन् भक्तो भगवतो भवेत्

॥२७॥

इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां नवमस्कन्धे पञ्चमोऽध्यायः ॥ ५ ॥

हरिः ॐ तत्सत् श्रीकृष्णार्पणमस्तु